Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 449
________________ Arrammaanaaaaaaaa नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । " कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥" [सम्मति, का० ३, गाथा-५३ ] न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुश्मावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिव्यप्रदर्शकत्वात्, अत एव-" जं जहा भगवया दिलु तं तहा विपरिणमइ" [ ] इति भगवद्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्टा दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं हरिभद्रसूरिभिः"तहभवत्तं जे काल-णियह-पुवकय पुरिस-किरियाओ। आखिवइ तहसहावं ता तदधीणं तयं पि भवे ॥१॥ एवं जेणेव जहा होयवं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥२॥" [बीजादिविंशतिकायाम् ] यद्येवं सर्वत्र देव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किश्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्य. तरस्वल्प-बहुव्यापारवत्त्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एव कारणमित्येवमेककारणपरिशेषपक्षस्य चेत्यर्थः । पञ्चकारणाभ्युपगमपक्षस्य सम्यक्त्वम् , एककारणपरिशेषपक्षस्य च मिथ्यात्वमित्यत्र संमतिगाथासंवादमाह- तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः। कालो० इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः। मिथ्यात्वं ते एव समासतो भवन्ति " इति संस्कृतम् । न चेत्यस्य शहनीयमित्यनेनान्वयः । तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इतरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः। अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटकं यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशोऽन्यकारणान्यथासिद्धयुपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिचायकः, व्यक्तिविशेषरूपकार्य-भव्यत्वरूपकारणयोरितरकारण-भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, 'तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तिर्यत्र तत्र तथाभव्यत्वम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथामव्यत्वमित्याकारायाः परिचायकश्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य। उक्तार्थे भगवदचनं प्रमाणयति- अत एवेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । जे० इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" इति संस्कृतम्। तथापदेनैवेति- तथा विपरिणमतीत्यत्रोक्ततथापदेनैवेत्यर्थः। इत्थमेव उक्तप्रकारेणैव । अत्र श्रीहरिभद्रसूरिवचनं प्रमाणयति- तदिदमुक्तमिति । तहमव्वत्तमिति- " तथाभव्यत्वं यत् काल-नियति-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदधीनं तदपि भवेत् ॥ एवं येनैव यथा भवितव्यं तत् तथैव भवतीति । न च देव-पुरुषकारा अपि हन्दि एवं विरुद्धयन्ते ॥” इति संस्कृतम् । पृच्छति- यद्यवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः दैव-पुरुषकारयोः। तद्विभागः किञ्चित् कार्य दैवजन्यमेव, किञ्चिच्च पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत आह- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये दैवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेत्येवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वग्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुषकारस्याल्पव्यापारवत्वमिति, एतस्मिन् कार्य पुनः पुरुषकारस्य बहुव्यापारवत्त्वं देवस्य च स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496