Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 450
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । शक्युबोधादिरूपकार्यदर्शनान्यथानुपपत्त्या कल्पनीयमित्यादि व्यवस्थापितं द्वात्रिंशिकाप्रकरणादावस्माभिः । उक्तविभागाय प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे तूभयजन्ये साकर्यम् , तत्रापि जात्यन्तरस्वीकारे तूभयसमाजे प्रत्येककार्यापत्तिवारणायैककार्येऽपराभावादिसहभावत्वकल्पने महागौरवम्, अथ देवमात्रजन्यमेतत् कार्यमित्यत्र दैवातिरिक्तोत्कटव्यापाराजन्यमित्यर्थे भवदभिमते प्रतिप्रतियोगिसिद्ध्यसिद्धिभ्यां व्याघातः इति चेत् ? न- उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना दैवातिरिक्तजन्यस्वाभावस्यैव तदर्थत्वात् , तदिदमभिप्रेत्योक्तं हरिभद्रसूरिभिःनीयमित्यपेक्षायामाह-स्वल्प-बहुव्यापारवत्वं चेति- यस्य चानुत्कटशक्त्युद्वोधादिरूपकार्यस्य दर्शनं तस्य च तादृशकार्यदर्शनान्यथानुपपत्त्या स्वल्पव्यापारवत्त्वं यस्य पुनरुत्कटशक्त्यदोधादिरूपकार्यस्य दर्शनं तस्य पनस नुपपत्त्या बहुव्यापारवत्त्वमित्येवं तत्कल्पनं नाप्रमाणिकमित्यर्थः । अत्र विशेषावगमार्थिभिरस्मदुपज्ञद्वात्रिंशिकाप्रकरणादिकमवलोकनीयमित्युपदेशाभिप्रायवान् ग्रन्थकृदाह- इत्यादि व्यवस्थापितमिति । प्रकारान्तरेण तद्विभागस्यायुक्तत्वमावे. दयति-उक्तविभागायेति-किञ्चित् कार्य दैवजन्यमेव किञ्चित् कार्य पुरुषकारजन्यमेवेति विभागार्थमित्यर्थः । प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे दैवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरन्या, अन्या च पुरुषकारनिष्ठजनकतानिरूपितजन्यतावच्छेदिका जातिरिति स्वीकारे । तथास्वीकारे यत्र कार्ये दैवनिष्ठकारणतानिरूपितकार्यतावच्छेदिकाजातिरेव तत् कार्य दैवजन्यमेव, यस्मिन् कार्ये पुरुषकारनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरेव तत् कार्य पुरुषकारजन्यमेव, यत्र तु निरुक्तजातिद्वयमप्यस्ति तत् कार्य दैवपुरुषकारोभयजन्यमित्येवं विभागस्य सम्भवेऽपि निरुक्तजात्योः साङ्कयं दुर्वारम् , तयोः परस्परात्यन्ताभावसामानाधिकरण्यस्यैकैकमात्रजन्ये सामानाधिकरण्यस्य चोभयजन्ये सद्भावादित्याहउभयजन्ये साङ्कर्यमिति । ननु प्रत्येकजन्यतावच्छेदकजातिद्वयादन्यैव जातिरुभयजन्येति न स्यात् साङ्कर्यमित्यत आह-तत्रापीति- उभयजन्येऽपीत्यर्थः । जात्यन्तरस्वीकारे प्रत्येककार्यमात्रवृत्तिप्रत्येकजन्यतावच्छेदकजातिद्वयभिन्नजातिस्वीकारे । तु पुनः। उभयसमाजे देवपुरुषकारोभयसमवधाने । प्रत्येककार्यापत्तिवारणाय दैवमात्रजन्यकार्यस्य पुरुषकारमात्रजन्यकार्यस्य चोत्पत्तिवारणाय । देवमात्रजन्यकार्य प्रति देवं कारणमिति दैवरूपकारणतस्तन्मात्रजन्यं कार्यमुत्पद्येत, एवं पुरुषकारमात्रजन्यकार्य प्रति पुरुषकारः कारणमिति पुरुषकाररूपकारणतः पुरुषकारमात्रजन्यं कार्यमुत्पद्येत, सम्भृतसामग्रीकत्वादित्येककार्ये एकमात्रजन्यकारे, अपराभावादिसहभावत्वकल्पने यन्मात्रजन्यं कार्यं तदन्यकारणाभावादेस्तत्सहकारित्वकल्पने। एवं च नोभयसमाजस्थले प्रत्येकमात्रजन्यकार्योत्पत्तिः, यतस्तत्रापरकारणाभावरूपसहकारिणोऽ. भावात् , यथा दैव-पुरुषकारोभयसमाजे देवमात्रजन्यकायें अपरस्य पुरुषकारस्य पुरुषकारमात्रजन्यकारणस्याभावोऽपि सहकारिविधया कारणमिति तदभावान देवमात्रजन्यकार्योत्पत्त्यापत्तिः, किन्तु तथाकल्पने महागौरवं स्यादतस्तथाकल्पनं न युक्त मिति भावः । शङ्कते- अथेति। "प्रतिप्रतियोगि" इत्यस्य स्थाने “सति प्रतियोगि" इति पाठो युक्तः । प्रतियोगिसिद्धयसिद्धिभ्यां व्याघात इति- दैवातिरिकोत्कटव्यापाराजन्यमिति दैवातिरिकोत्कटव्यापारजन्यत्वाभाववदिति पर्यवसितरूपं तत्रोक्ताभावस्य प्रतियोगिनो देवातिरिक्तोत्कटव्यापारजन्यत्वस्य यदि सिद्धिस्तदा दैवजन्ये दैवातिरिक्तोत्कटव्यापारजन्यत्वस्य सद्भावान्न तत्र तदभाव इति देवातिरिक्तोत्कटव्यापाराजन्यमिति ध्याहन्यते, अथ देवातिरिक्तोत्कटव्यापारजन्यत्वस्य न सिद्धिस्तदा देवातिरिक्तोत्कटव्यापारजन्यत्वरूपप्रतियोगिनोऽसिद्धया तदभावस्याप्यसिद्धिरिति तद्वदपि न किञ्चित् सम्भवतीस्येवमपि देवातिरिक्तोत्कटव्यापारजन्यमिति व्याहन्यत इत्यर्थः । समाधत्ते-नेति । " उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना" इत्यस्य स्थाने "उत्कटव्यापारसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेन" इति पाठः समीचीनः । एवं च कार्यतावच्छेदेन दैव पुरुष कारयोः कारणत्वे यद् देवमात्रजन्यतयाऽभिमतं तदपि पुरुषकारजन्यं भवत्येव, किन्तु तत्र पुरुषकारजन्यत्वमनुत्कटव्यापारसम्बन्धावच्छिन्नपुरुषकारनिष्ठजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेनैवेति तत्र देवातिरिक्तजन्यत्वस्योत्कटव्यापारसम्बन्धावच्छिन्न कारणतानिरूपितकार्यताप्रतियोगिकस्वरूपसम्बन्धो व्यधिकरण इति न तेन सम्बन्धेन निरुक्तजन्यत्वं कुत्रापीति तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्य दैव'तिरिक्तजन्यत्वाभावस्य

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496