Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 453
________________ ३८२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रति नियतहेतुताया अप्रत्यूहत्वात्, पुष्टिशुद्ध्यनु बन्धे च प्रणिधानाद्यन्विततत्कृक्रियाणामनियतहेतुत्वेऽपि तद्विधीनामारोग्यहेतुधातुसाम्ये तत्तचिकित्साविधीनामिवानुपपत्त्यभावात् । यत् पुनः उच्यते- पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेति तत् तुच्छम् , पूर्वसेवायां मृदूपायसाध्यायां तादृग्गुणानपेक्षायामपि महाविद्यालाभस्थानीये चारित्रे विशिष्टगुणापेक्षाया आवश्यकत्वात्, अस्तु वा स्वसामग्रीप्रभवानां गुणानामवर्जनीयत्वमेवानन्तरमपेक्षा । किञ्च, सकलशिष्टैकवाक्यतया यम-नियमादौ मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मानम् , तदुक्तम्-- " विफला विश्ववृत्तिों न दुःखैकफलापि च । दृष्टलाभफलेनापि विप्रलम्भोऽपि नेदृशः ॥ १॥" [ कुसुमाञ्जलिस्तबक० श्लो० ] इत्यादि । न श्रेष्ठतमः । इति एवं स्वरूपमाशङ्कनम् । तेन पुरुषकारस्योक्तदिशा मोक्षत्वावच्छिन्नं प्रति हेतुत्वव्यवस्थापनेन । अपास्तं निरस्तमित्यर्थः । तेनेत्यनेनोपदिष्टमेव निरासकारणं स्पष्टप्रतिपत्तये उपदर्शयति - पुष्टीति- चेतसः पुष्टिशुद्धयनुबन्धेनाभिव्यङ्गयाया भावचारित्रत्वलक्षणजातिस्तद्वतः पुरुषकारस्येत्यर्थः, अप्रत्यूहत्वात् बाधलक्षणविघ्नरहितत्वात् “तत्कृ" इत्यस्य स्थाने “तत्त” इति पाठो युक्तः । तद्विधीनां पुष्टिशुद्धयनुबन्धार्थ तत्तत्कियाविधायकशास्त्रवचनानाम् , अस्यानुपपत्यभावादित्यनेनान्वयः । अत्र दृष्टान्तमाह- आरोग्येति- धातूनां कफ-पित्त-वायूनां मध्यादेकस्य द्वयोस्त्रयाणां वा वैषम्ये कफप्रभव पित्तप्रभव-वायुप्रभवरोगाणां कफ-वायुद्वयप्रभव-कफपित्तोभयप्रभव-पित्तवायूभयप्रभवरोगाणां कफपित्त. वायुत्रयप्रभवरोगस्य वा प्रादुर्भावो भवति, निरुक्तधातुत्रयाणां साम्ये तु निरुक्तरोगविनाशलक्षणमारोग्यमुपजायत इति आरोग्यजनक यद् धातुसाम्यं तत्र तदर्थम् , तत्तचिकित्साविधीनां तत्तचिकित्साविधायकायुर्वेदवचनानाम् , अनुपपत्त्यभाववत्, पुष्टिशुद्धयनुबन्धार्थमनियतहेतुप्रणिधानाद्यन्विततत्तक्रियाविधायकशास्त्रवचनानामप्यनुपपत्त्यभावादित्यर्थः । अन्यदपि परकीयाक्षेपवचनमुपन्यस्य प्रतिक्षिपति- यत् पुनरिति । उच्यते परेणाभिधीयते । पूर्व सम्यक्त्वादिगुणप्राप्तितः प्राकाले । निर्गुणस्य सम्यक्त्वादिविशिष्टगुणरहितस्य, सतः तथावस्थितस्य जीवस्य । सम्यक्त्वादिप्राप्तौ सम्यक्त्वादि. गुणप्राप्तौ सत्याम्। किं किमर्थम् । तदनन्तरं सम्यक्त्वादिगुणप्रायनन्तरम् । तत् तुच्छं नानाविधगुणोपायान्वेषणकैमर्थ्यप्रतिपादकं परवचनं तुच्छं न समीचीनम् । तत्र हेतुमाह-पूर्वसेवायामिति । अथवा नानाविधगुणोपायान्वेषणं न क्रियत एव किन्तु स्वसामग्रीप्रभवा गुणास्तदानीं भवन्त्येवेत्येतावतैव तदपेक्षा गीयत इत्याह- अस्तु वेति । यमनियमादौ मोक्षोपायत्वे प्रमाणमप्यस्येवेत्याह- किञ्चति । सकलशिष्टकवाक्यतया सकलशिष्टसम्मततया । उक्ताथै उदयनाचार्यवचनसंवादमाह-तदुक्तमिति। "दृष्टलाभफलेनापि" इत्यस्य स्थाने " दृष्टलाभफला नापि" इति पाठः सम्यग् । उक्तपद्यार्थस्पष्टप्रतिपत्तये तद्रन्थ एवोल्लिख्यते-" अस्तु दृष्टमेव सहकारिचक्र किमपूर्वकल्पनया" इति चेत् , न-विश्ववृत्तितः,“विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥" [ कुसुमाञ्जलिस्तबक- श्लो. ] यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनभू, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, नहि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् ; लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः ? नहीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं यो वैनं पूजयिष्यति स किमर्थम् , ख्यात्यर्थमनुरागार्थ च, जनो दातरि मानयितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् ? न- नीतिनर्मसचिवेष्वेव तदर्थ दानादिव्यवस्थापनात्; त्रैविद्यतपस्विनोऽपि धूर्तबका एवेति चेत् ? न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात्; सुखार्थ तथा करोतीति चेत् , न-नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् ; लोकव्यवहारसिद्धत्वादफलमपि क्रियते वेदव्यवहारसिद्धत्वात् सन्ध्योपासनवदिति चेत् ?, गुरुमतमेतत् , न तु गुरोर्मतम्, ततो नेदमनवसर एव वक्तुमुचितम् ; वृद्धविप्रलब्धत्वाद् बालानामिति चेत् ?, न-वृद्धानामपि प्रवृत्तेः; न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते, तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् ? न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ; इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीति चेत् ? किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्म

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496