Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि - एतेषां पुण्या-sपुण्यविवर्जितपदार्थ सप्तकं न्यसनीयम्, पुण्या-sपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षितत्वात्, तत्र च जीवस्याधः स्व-पर विकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्याऽनित्यभेदौ नाङ्गीक्रियेते, नित्याऽनित्ये परञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम्, निषेध - प्रतियोगिता समानाधिकरण- व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व - परतस्त्व भेदद्वयं नातिक्रामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यदृच्छा नामाऽकस्माद्भावः तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः
३८७
समुच्चिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । “ लक्षणाऽमुनो" इत्यस्य स्थाने “ लक्षणा अमुनो " इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । एतेषाम् अक्रियावादिनाम् । पुण्या-ऽपुण्यविवर्जितेति जीवा ऽजीवा ऽऽश्रव-बन्ध-संवर- निर्जरा- पुण्यापुण्य- मोक्षेषु नवसु पदार्थेषु पुण्याऽपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं - स्थापनीयम् । स्थापनायां पुण्यापुण्यविवर्जनं कथमित्यपेक्षायामाह - पुण्यापुण्यनिरासस्येति - जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपत्त्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याsपुण्यनिरासस्य पुण्यापुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति - यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायैव वक्तुर्विवक्षा भवति, यश्च निश्चितस्तत्राज्ञान- संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्यापुण्ययोर्न न्यसनमित्यर्थः । तत्र च जीवाऽजीवादिसप्तपदार्थन्यासे च । जीव जीवपदार्थम्यासस्य । अधः अधस्तात् । स्वपरविकल्पभेदद्वयोपन्यास इति - स चेत्थं निभालनीयः - जीवः स्वतः । परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, ' सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्याद्यग्रिमप्रन्थं प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व- परयोरधस्तात् कालादिन्यास उल्लिखितः । तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकाङ्क्षानिवृत्तये त्वाह- असत्त्वादात्मन इति - अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोर्न्यास इत्यपेक्षायामाह - नित्याऽनित्ये इति । तदुपन्यासेति- जीवोपन्यासेत्यर्थः । ते च नित्याऽनित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्ठप्रतियोगितायां निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एव तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति - यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते-आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान्न तयोः समानाधिकरणधर्मत्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोर्निषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्मविधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व - परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता " इत्यस्य स्थाने “ निषेधप्रतियोगितायाः " इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह- कालादीनां चेति षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यदृच्छा किंस्वरूपेत्यपेक्षायामाह - यद्दच्छेति । नामेति कोमलामन्त्रणे । तथा च अकस्माद्भावलक्षणाया यदृच्छाया उपन्यासे च ।

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496