Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 460
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। . ३८९ - पतितत्वेन नित्यत्वं क्षणिकत्वेनानित्यत्वं च स्वाभ्युपगमादेव बाह्यं तस्योत्कटत्वेन निषेढुं न शक्यमिति चेत् ? तर्हि यादृशं परमतसिद्धं नित्यत्वमनित्यत्वं च तादृशमेव निषिध्यताम् , अन्यथा धर्मिणो निषेधेऽपि व्याघातापरिहारात्, अथात्मत्वं शरीरातिरिक्तावृत्तीत्यादिरेव निषेधार्थः बाध-सिद्धिसाधनादिभयानुपनिपातादिति चेत् ? तर्हि आत्मत्वं न नित्यात्मसमानाधिकरणम् , आत्मपदवाच्यं न नित्यपदवाच्यमित्यादिरीत्या नित्यानित्यभेदवादे प्रक्षेपेणापि कथं नाक्रियावादोक्तिः इति चेत् ? अत्रेदमाभाति-विकल्पसिद्धस्य निषेध्यत्वेऽपि स्वतः कालतः इत्यादिपदार्थस्य निषेधप्रतियोगिविशेषणविधयाऽन्वयसाकासत्वेन तदुपादानं, नित्यानित्यपदे तूहेश्यधर्मिण्येव स्वार्थान्वयसाकाङ्के इति तत्परित्यागः इति प्राचीनप्रणयानुरोधेन स्थितस्य गतिचिन्तनं चैतदिति नाधिकविकल्पकल्लोललोलं चेतो विधेयम् । अज्ञानिकानां सप्तषष्टिर्भेदाः, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, नन्वेवं लाघवात् प्रक्रमस्य बहुव्रीहिणा व्याख्यानमत्रादरणीयम्- ननु नित्यत्वमनित्यत्वं चाभ्युपगच्छत्येवाक्रियावादी, यतः क्षणिकविज्ञानाभिरूपात्मादिपदार्थस्तेनाभ्युपगतः, तत्र सदृशक्षणपरम्परापतितत्वलक्षणं नित्यत्वं क्षणिकत्वस्वरूपमनित्यत्वं च स्वीकृतम् , ततः कथं नित्यत्वाऽनित्यत्वोपरागेणाऽऽत्मनो निषेधस्तन्मते ? इति नित्याऽनित्यपदत्यागेऽस्त्येव बीजमिति पराकूतमुपदर्य दूषयति-क्षणिकविज्ञानामिन्नेति । "बाह्यं तस्योत्कटत्वेन" इत्यस्य स्थाने " सिद्धं तन्नोत्कटत्वेन" इति पाठो युक्तः, तत स्वमतप्रसिद्ध नित्यत्वमनित्यत्वं च, उत्कटत्वेन स्वसमये सुदृढानरूढत्वेन । निषेद्धं न शक्यमिति चेत?, एवं यधुपैयते, तर्हि तदा, यादृशं यादग्भूतमप्रच्युतानुत्पन्नस्थिरैकस्वभावादिलक्षणं, नित्यत्वं प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वलक्षणं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वलक्षणं, वाऽनित्यत्वं च परमतसिद्धं नैयायिकादिमतसिद्धम् , ताशमेव तारस्वरूपमेव नित्यत्वं निषिध्यतामित्यर्थः, तथा च परमतसिद्धनित्यत्वाऽनित्यत्वोपरागेणात्मनो निषेधसम्भवादुक्तन्यासे नित्यानित्यपदप्रवेश एव युक्त इति नित्यानित्यपदपरित्यागे किं बीजमित्याशङ्का तदवस्थैवेत्याशयः। अन्यथा परमतसिद्धत्वस्यानादरे। धर्मिणो निषेधेऽपि आत्मनो निषेधेऽपि । व्याघातापरिहारात् यथाऽसतः शशशङ्गादनिषेधो न कालेश्वरादितो नियन्तुं शक्यस्तथाऽऽत्मनो निषेधोऽपीत्येवं व्याघातस्य परिहत्तमशक्यत्वात् । शङ्कतअथेति । उक्तनिषेधार्थाश्रयणे बाध-सिद्धिसाधनादिदोषोऽपि नास्तीत्याह- बाघेति- आत्मा शरीरातिरिक्तो न भवतीत्येवं निषेधार्थाभ्युपगमे परमतसिद्धस्यात्मनो धर्मित्वे तत्र शरीरातिरिक्तत्वमेवेति बाधः, शरीरमेवात्मेति मतसिद्धशरीररूपात्मनो धर्मित्वे शरीरे शरीरातिरिक्तत्वं नास्तीति सर्वैरभ्युपेयत एवेति सिद्धसाधनं स्यादेवेति । समाधत्ते-तीति । नित्या. नित्यमेदवादे" इत्यस्य स्थाने "नित्यानित्यपद" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । ननु निषेधे' इत्यादि. प्रश्न प्रन्थकृत् स्वमनीषोद्भासितं प्रतिविधानमुपदर्शयति- अत्रेति- अनन्तरोपवर्णितप्रश्न इत्यर्थः । इदं विकल्पसिद्धस्येत्यादिना वक्ष्यमाणं प्रतिविधानम् । आभाति मम भासते। विकल्पसिद्धस्य परसमयप्रभवविकल्पात्मकज्ञानसिद्धस्याऽऽत्मनः । निषेध्यत्वेऽपि निषेधप्रतियोगित्वेऽपि । तदुपादानं स्वतः कालत इत्यादिपदस्योपादानम् । उद्देश्यधर्मिण्येव उद्देश्य यदात्मस्वरूपं धर्मि तस्मिन्नेव । स्वार्थान्वयसाकाङ्के स्वार्थस्य नित्यत्वादिधर्मस्यान्वये साकाङ्के स्वार्थान्वयबोधजनके। इति एवं स्वरूपविशेषात् । तत्परित्यागः निरुक्तन्यासे नित्यानित्यपदत्यागः। ईदृशप्रतिविधानादरे हेतुमुपदर्शयति-प्राचीनेति प्राचीनानां सिद्धान्तकपरिशीलनस्वभावानां सूरीणां यः प्रणयः तन्मतश्रद्धालक्षणस्तदनुरोधेन । स्थितस्य तदुक्तौ स्थितस्य विदुषः । गतिचिन्तनं तदुपपादनप्रकारविचारणम् । एतत् अनन्तरोपवर्णितं प्रतिविधानम् । इति एतस्मात् कारणात् । अस्मिन् विषये अधिकाश्चतुरशीतिविकल्पभिन्ना ये नित्यानित्यपदप्रवेशेन विकल्पास्तदात्मका ये कल्लोलास्तरजास्तैर्लोले चञ्चलमस्थिरविचारं चेतो न विधेयमित्यर्थः । अज्ञानिकभेदान् प्ररूपयति- अज्ञानिकानामिति । अज्ञानिकशब्दव्युत्पत्त्युपदर्शनेनाज्ञानिकस्वरूपमावेदयति-तत्रेति- अज्ञानिकानां सप्तषष्टिसंख्यकभेदेषु निरूपणीयेषु ननु न विद्यते सम्यग्ज्ञानस्वरूपं ज्ञानं येषां ते अज्ञाना इति बहुव्रीहिसमासाश्रयणादज्ञानशब्दादेवाज्ञानिकरूपार्थलाभसंभवात् तत्र लाघवतर्कसहकारस्यापि भावात् तद्धिताणिनिप्रत्ययमज्ञानशब्दादानीयोक्तव्युत्पत्तिकाज्ञानिकशब्दस्वरूपशब्दनिष्पादनं न सम्भवति

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496