Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो मयोपदेशः । न्तरग्रहस्तासामेव वा विशेषव्याप्तीनां वह्निनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववह्नित्वावच्छेदेन ग्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्तमानस्य तत्तद्व्यक्ति विशेषावच्छिन्न कार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते । अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनुपपत्त्यभावात् । केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च " जो तुल्लसाहणाणं" [
] इत्याद्युक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तदसाहः, तथा च सकलनयदृष्ट्या मुद्गपत्त्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सङ्गतिमङ्गति, तत्पक्षस्य सर्वनयमत्वेन सम्यगूरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपत्वात् , तदाहुराचार्याःव्याप्तित्वेन ग्रहो न सम्भवतीत्यतः- वह्निनिरूपितेति- वह्निनिरूपिता धूमनिष्ठा या व्याप्तिः । तत्र वह्नित्वेन सर्वेषां वहिनां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्भूमनिष्ठा व्याप्तय इति तत्त्वेन तादृशव्याप्तिस्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयाप्तित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वह्नित्वावच्छेदेन ग्रहो न सम्भवति तथापि यद्रूपेणैकीकृतास्तास्तद्रूपेण तासां धूमत्व-वह्नित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति । एवं चोक्कदिशा प्रकृते इष्टसाधनत्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह-एवमिहापीति । “ग्रहप्रवृत्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ" इति पाठो युक्तः । न त्वित्यस्य त्यज्यत इत्यनेनान्वयः, प्रवृत्त्यर्थं सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यज्यते इत्यर्थः । विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः । गङ्गेशेनापि चिन्तामणिकृता गङ्गेशोपाध्यायेनापि, अस्योक्तमित्यनेनान्वयः। एवं सति चिन्तामणिकृन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह- केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालवेन हेतुत्वमिति प्रागभावसमवायिकारणविधया हेतुत्वमिति तथाभव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु । ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिप्रहः । अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्तामणिकृन्मते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः । जो तुल्ल० इति- “ यस्तुल्यसाधनानाम् ' इति संस्कृतम् । इत्याद्युक्तोपपत्त्या इत्याद्यागमोक्कोपपत्तितः । पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, 'पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः। तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम्- अनन्यथासिद्धस्येति । एवं चानन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमञ्चतीति पूर्वकृतस्य कर्मणोऽतीन्द्रियत्वात् तत्रोक्तदिशैव कारणत्वलक्षणाक्रान्तत्वात् कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वेति । ननु दैव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति । स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम्, प्रयत्नविशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयव प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः । न तदसङ्कहः न दण्डादेरसङ्ग्रहः । पञ्चकारणीतिपञ्चानां कारणानां समाहारः पञ्चकारणी, काले स्वभाव नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि । तत्पक्षस्य सिद्धान्तसिद्धपचकारणाभ्युपगमपक्षस्य । एककारणपरिशेषपक्षस्य चेति- काल एव कारणं स्वभाव एव कारणं नियतिरेव
४८

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496