Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
૨૬
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात्, तथा च देशतया कालतया चैकस्यैवा हेतुत्वं लाघवादयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं भव्यत्वमेव तथाभव्यत्वनामशालि तादृशतत्तत्कार्यजनकमवश्यमास्थेयम्, इत्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् । अथैवमतिविशेषेण कार्यकारणभावविश्रामे असिद्धसाध्यविशेषार्थं [ साधनविशेषार्थं ] साधनविशेषे प्रवृत्त्यनुपपत्तिस्तादृश तद्व्यक्तिविशेषावच्छिन्नकारणतायाः पूर्वं दुर्ब्रहत्वात् इष्टसाधनताज्ञानस्य च प्रवृत्तिहेतुत्वादिति चेत् ? मैवम् - कार्य • कारणभावो हि व्याप्तिविशेष एव सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीत साध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्ब्रहत्वेनानुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याध्य
चैकस्यैवाहेतुत्वं " इत्यस्य स्थाने चैकस्यैव हेतुत्वं " इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्ग्रहनयाभिप्रेतं तदयुक्तमित्याकारको य एवम्भूतनयाभिप्रायस्तेनेत्यर्थः । ताडगवस्थं यद् यदा यद्यद्वयुत्पत्तिनिमित्तक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माक्रान्ततद्व्यक्तिं प्रति तथाभूततावद्धर्मविशिष्टतद्व्यक्तिनिरूपितम् । ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्वं तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निगमनमित्यत आह- तथाभव्यत्वनामशालीति एवं च तादृगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति । तादृशतत्तत्कार्यजनकं तथाभूततावद्धर्माक्रान्ततत्तद्वक्त्यात्मक कार्य जनकम् । इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव । सकलातिप्रसङ्गभङ्गसम्भवादिति - कार्यैक्य कार्यैककालत्व- कार्यैकदेशत्वादिप्रसङ्गभङ्गसम्भवादित्यर्थः । परः शङ्कते - अथेति । एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे । अतिविशेषेणेति यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिक्रान्तत्वादतिविशेषोऽन्त्य विशेष इति यावत्, तेनेत्यर्थः। कार्यकारणभावविश्रामे तत्तद्व्यक्तिं प्रति तत्तद्व्यक्तिनिरूपिततथा भव्यत्व कारणत्वस्यान्त्यविशेषरूपेण कार्यकारणभाव एव पर्यवसाने । असिद्धसाध्यविशेषार्थं तत्तद्व्यक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारणविशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थं तदुस्पत्यर्थम् । साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेषं प्रति कारणत्वं न निश्चितं तस्मिन् कारणविशेषे । प्रवृत्त्यनुपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः । कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थं तत्र हेतुमाह- तादृशेति विशेषातिक्रान्तेत्यर्थः । " तद्वयक्तिविशेषावच्छिन्नकारणतायाः " इत्यस्य स्थाने " तद्व्यक्तिविशेषावच्छिन्न कार्यतानिरूपिततद्वयक्तिविशेषावच्छिन्नकारणतायाः " इति पाठो युक्तः, भवतु तादृशकारणताया दुर्महत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्त्यनुपपत्तिरित्यत आह- इष्टसाधनताज्ञानस्य चेति । समाधत्ते - मैत्रमिति । हि यतः । कार्यकारणभावो व्याप्तिविशेष पवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वह्निरिति वहूर्यद्वयापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव बह्नि-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति । सा च व्याप्तिश्च । सामान्यतः यत्र यत्र धूमस्तत्र तत्र वह्निरिति सामान्यतो व्याप्तिः । विशेषतश्च यत्रायं धूमस्तत्रायं वहिनरिति विशेषतो व्याप्तिः । पृच्छति - किन्त्विति । उत्तरयति - अगृहीतेति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदवच्छिन्नायाः तस्या व्याप्तेः अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः । कुत्र तस्या दुर्प्रइत्वेनानुमित्य प्रयोजकत्वमित्यपेक्षायामाह - अबुभुक्षितानुमानस्थल इति- समानविषयत्वप्रत्यासत्या ज्ञानेच्छयोः कार्यकारणभावाद् यस्यैव ज्ञानं तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्त्यः विशेषविशिष्टस्य विषयस्य पूर्वमग्रहे तद्विषयकस्य ज्ञानस्याप्यग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयक ज्ञानेच्छाया अभावाद् बुभुक्षितो बोद्धुमिष्टो न भवतीत्यबुभुक्षितस्तस्यानुमानस्थले इत्यर्थः एतेन यत्र साध्य-साधनयोर्विशेषौ शब्दादिना पूर्वं गृहीतौ ततश्च तादृशविशेषविशिष्टसाध्यव्यक्तेरनुमितिर्मे जायतामितीच्छालक्षणा बुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमानस्थळे गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहृत्वेनानुमितिप्रयोजकत्वसम्भवेन तद्ब्रह एव कारणं न तु सामान्यावच्छिन्नउपात्यन्तरग्रहः कारणमित्यावेदितं भवतीति बोध्यम् । सामान्यावच्छिन्नव्याप्त्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः । वा अथवा । तासामेय अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव । तत्र विशेषव्याप्तीनां प्रत्येकं विशेष
66

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496