Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
छिन्नम्, तथाभव्यत्वकार्यतायास्तथाभावेऽपि दृष्टदण्डादिकार्यताया घटत्वाद्यवच्छेदेनैव यथादर्शनमभ्युपगमेन प्रवृत्त्यादिव्यवहारानुच्छेदात् इष्यते चानन्यगत्या परेणाप्यर्थसमाज सिद्धधर्मेणापि परामर्श-तत्त्व
३७४
जनानां न किमप्येवमभ्युपगमे छिन्नं खण्डितं भवति । नन्वेवं घटत्वादिसामान्यधर्म मात्रावच्छिन्न कार्यताया अभावात् तन्निरूपितदण्डत्वाद्यवच्छिन्न कारणताया अप्यभावेन घटाद्यर्थिनस्तन्निमित्तदण्डादिसम्मेलन प्रवृत्यादिव्यवहारोच्छेदः प्रसज्येतेत्यत आह- तथाभव्यत्वकार्यताया इति- तथाभव्यत्वनिष्ठ कारणतानिरूपितकार्यताया इत्यर्थः । तथाभावेऽपि चैत्रावलोकितमैत्रनिर्मितनीलेतरथटत्वाद्यवच्छिन्नत्वस्य भावेऽपि । दृष्टेति दृष्टा अन्वयव्यतिरेकग्रह सचिव प्रत्यक्षविषयीभूता या दण्डत्वायवच्छिन्नकारणतानिरूपितकार्यता तस्याः, घटत्वाद्यवच्छेदेनैव घटत्वाद्यवच्छिन्नत्वेनैव यथादर्शनमभ्युपगमेन - प्रत्यक्षमनतिक्रम्य स्वीकारेण, घटादिकार्यसम्पादनार्थं दण्डादिकारणसङ्कटनादिविषयक प्रवृत्त्यादिव्यवहारेच्छाभावादित्यर्थः । प्रत्येकधर्मं प्रयोजकानेकसामग्री प्रयोज्यत्व लक्षणार्थ समाज सिद्धत्वाक्रान्तधर्मेणापि कार्यत्वं नैयायिकादिभिरप्युपेयत इति तद्रूपेण तथामव्यत्वनिरूपितकार्यत्वकल्पना नादृष्टचरीत्याह- इष्यते चेति- अभ्युपगम्यते चेत्यर्थः । अनन्यगत्या व्यतिरेकव्यभिचारनिवारक प्रकारान्तराभावेन । परेणापि नैयायिकादिनाऽपि । अर्थसमाज सिद्धधर्मेणापि स्वघटक प्रत्येकधर्म प्रयोजकसामग्रीसमुदायप्रयोज्यधर्मेणापि । परामर्शेति - वह्निव्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वह्निमानित्यनुमितिरुपजायते, वह्निव्याप्यालोकवान् पर्वत इति परामर्शादपि पर्वतो वह्निमानित्यनुमितिरुपजायत इति वह्निव्याप्यधूमत्वावच्छिन्नप्रकारता निरूपित पर्वतत्वावच्छिन्नविशेष्यता कनिश्चयात्मकपरामर्शाभावेऽपि वह्निव्याप्यालोकत्वावच्छिन्न प्रकारतानिरूपित पर्वतत्वावच्छिन्न विशेष्यताक निश्चयात्मक
परामर्शात् पर्वतत्वावच्छिन्नावेशेष्यतानिरूपितवह्नित्वावच्छिन्न प्रकारता कानुमित्युत्पत्तेर्व्यतिरेकव्यभिचारेण वह्नित्वावच्छिन्न प्रकारतानिरूपित पर्वतत्वावच्छिन्न विशेष्य ताकानुमितित्वावच्छिन्नं प्रति न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपकनिश्चयत्वेन कारणत्वं किन्तु वह्निव्याप्यधूमवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुक्तानुमितित्वावच्छिन्नं प्रति निरुकपरामर्शत्वेन कारणत्वम् एवं वह्निव्याप्यालोकवान् पर्वत इति परामर्शाव्यव हितोत्तर निरुक्तानुमितित्वावच्छिन्नं प्रति वह्निव्याप्यालोकवान् पर्वत इति परामर्शत्वेन कारणत्वमित्येवाभ्युपगन्तव्यम्, तच्चानुमितिसामान्यं प्रति व्याप्तिज्ञानसामान्यं कारणमित्यनुमितित्वं व्याप्तिज्ञानस्य कार्यतावच्छेदकम् वह्निप्रकारकत्वं च तत्र व्याप्तौ वह्निनिरूपितत्वज्ञान प्रयोज्यमिति तद्वातिविशेष्यकस्य निरूपितत्वसम्बन्धेन वह्निप्रकारकस्य वह्निनिरूपितत्व प्रकारकस्य वा ज्ञानस्य कार्यतावच्छेदकम्, पर्वतनिष्ठविशेष्यताकत्वं चानुमितौ व्याप्यज्ञान पर्वतनिष्ठविशेष्य कत्वप्रयोज्यमिति पर्वत निष्ठविशेष्यताकत्वमनुमितौ पर्वतविशेष्य कव्याप्यज्ञानस्य कार्यतावच्छेदकम् तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तदेव कारणमिति परामर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शः कारणमिति परामर्शाव्यवहितोत्तरत्वं परामर्शस्य कार्यतावच्छेदकत्वम्, तेषां च सर्वेषां पर्वतत्वावच्छिन्नविशेष्यतानिरूपितबह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकनिश्चयात्मक परामर्शाव्यवहितोत्तरपर्वतत्वावच्छिन्न विशेष्यतानिरूपितवह्नित्वावच्छिन्न प्रकारताकानुमितित्वशरीरे प्रविष्टत्वमिति भवत्यर्थ समाजसिद्धेन निरुकधर्मेण परामर्श निरूपित कार्यता एवं तत्त्वज्ञानादिनिरूपिता स्वाव्यवहितोत्तरमोक्षत्वाद्यवच्छिन्न कार्यताऽपि तथेत्यर्थः । तथा कालस्य देशस्यापि कारणत्वं परमतेऽवश्यमभ्युपेयमिति तदपेक्षया लाघवादेकस्य तथा भव्यत्वस्यैव कारणत्वं युक्तं तत एव नियतकालनिय तदेशविभिन्न कार्योत्पत्तिसम्भवेन कार्येकत्वैककाले नानाकार्योत्पत्त्येकदेशे नानाकार्योत्पत्त्यादेवरणसम्भवादित्याह - किञ्चेति । धारावाहिकस्थले इति - घटे चक्षुस्संयोगानन्तरं यावत्कालं विषयान्तरेण सह चक्षुस्संयोगो न भवति किन्तु पूर्वकालीन एव घटचक्षुस्संयोग एक एव तावत्कालीनोऽवतिष्ठते, तत्र घटचक्षुस्संयोगात् कामिकाणि घटज्ञानानि जायन्ते तद्धारावाहिकस्थलं तत्रेत्यर्थः । " कार्यैककल्पनिरासाय इत्यस्य स्थाने " कार्यैकत्वनिरासाय " इति पाठो युक्तः, यदेव पूर्वपूर्वज्ञानं प्रति कारणं तदेवोत्तरोत्तरज्ञानं प्रति यदि कारणं तदा कारणभेदाभावात् कार्यभेदो न स्यात् किन्तु कार्यैकत्वमापद्येतेत्यतः कार्यैकत्वापत्तिवारणायेति तदर्थः । तत्तत्क्षणत्वेन कालस्य कारणतेति तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्ववर्तित तत्क्षणत्वेन कालस्य कारणत्वमिति तत्तत्कालघटितसामग्रीभेदात् तत्तज्ज्ञानरूपकार्यभेद इति भवति कार्यैकत्वनिरास इत्यर्थः । ननूतरोत्तरज्ञानं प्रति पूर्वपूर्वज्ञानं कारणमिति कारणभेदात् कार्यभेदस्य सम्भवेनेत्येतावतापि कार्यैकत्वनिराससम्भवेन किं कालस्य कारणत्वकल्पनयेत्यत आह- पूर्वपूर्वघटज्ञानानामिति । अथवा " कार्येककल्पनिरासाय " इत्यस्य स्थाने कार्येककालत्वनिरासाय " इति पाठो युक्तः,
ܕܕ

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496