Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
चार्वाका दिपक्षनिरासश्चातिभूयानिति लतादित एव तदनुगमो विधेयः । " अकस्माद् भवति इत्यनुपायवादिमते चात्यन्तोपयुक्तत्वात् किञ्चिद् विचार्यते, अकस्मादिति किंशब्दस्य हेतुपरतया हेत्वभावे भवनपरम् ? उत " अ-मा-नो-ना प्रतिषेघे " इति स्मरणान्निषेधार्थकस्य 'अ' शब्दस्य क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम्, अली कहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एतेषु पचषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात्, तदुक्तमुदयनेन -
""
हेतु-भूति निषेधो न स्वा ऽनुपाख्याविधिर्न च । स्वभाववर्णना नैवमुपाधेर्नियतत्वतः ॥ इति [ न्यायकुसुमाञ्जलिकारिका - ५ ]
३६४
66
" अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुण्य-पापयोः । अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ १ ॥” इति संस्कृतम् । चावकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिप्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयान्नात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाका दिपक्षनिरासश्चेति । तदनुगमः चार्वाकादिपक्षनिरासानुगमः । नियतिवादिमत खण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति- अकस्मादिति । अकस्मादिति किंशब्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम्, तथ
अकस्माद् भवतीति वाक्यं हेत्वभावे भवनपरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनैव साकाङ्क्षत्वमित्यकस्माद् भवति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीयविकल्पमुपदर्शयति- उतेति - अथवेत्यर्थः । अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्नभिन्नादिति लभ्यते, स्वभिन्नभिन्नं च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽली कभिन्नभिन्नादित्य कस्मादित्यस्यार्थः, अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीक हे तुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदा च लम्बकर्णादिशब्दवदव्युत्पन्न एवायम कस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । " मित्यर्थ के ” इत्यस्य स्थाने " मित्यर्थकम् " इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह - नियतावधिकार्यदर्शनादिति - नियतोऽवधिर्यस्य स नियतावधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वह्नेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वह्निर्नियतोऽवधिदृश्यत एव य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिकं तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता एवत्याशयः । नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु तथा च नियतावधिकत्वासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा हिभिन्नमपि कमप्यवधिं कृत्वोत्पद्येतेति न वह्निसद्भावानन्तरमेव धूमस्योत्पत्तिः, किन्तु वह्निसद्भावतः प्राक् तत्वहितोतरकालेऽपि च यं कमप्यवधिं कृत्वा धूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याहन्येत एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिर्धूमोऽपि कादाचित्कत्वस्वभावो न भवेदित्येवं कादाचित्कत्वस्वभावव्याकोपान्नियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह - तत्स्वाभाव्ये चेति - कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह - तदुक्तमुदयनेनेति । हेस्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणाद्धेतुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रिया सम्बन्धाश्रयणाद् भवनप्रतिषेघो न, हेतुतो यद् भवनं तत्प्रतिषेधो न, अकस्मादित्यस्यो कदिशा स्वस्मादित्यर्थ करणात् स्वविधिः- स्वस्मादेव स्वमुत्पद्यत

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496