Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३६५ अथाकाशत्वादीनां( नाम )कदाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति चेत् ? न,आकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसङ्गात् , तत्स्वभावत्वं च धर्मिग्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति । अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनापि
इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव, अश्वकर्णादिवत् स्वभावादित्यस्याथै निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न सर्वत्र हेतु:- अवधेर्नियतत्वत इति, नियतावधित्वादिति तदर्थः “ नैवमुपाधेर्नियतत्वत" इत्यस्य स्थाने 'नैवमवधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जली उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भूतिनिषेधो न स्वा-ऽनुपाख्यविधिन च । स्वभाववर्णना नैवमवधेनियतत्वतः ॥ ५॥" हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवनप्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात् , उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमश्च कार्यकारणभावः, न चैकं पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तः, स्यादेतत्-नाकस्मादिति कारणनिषेधमात्रं वा भवनप्रतिषेधो वा, स्वास्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रूमः- “निरवधित्वेsनियतावधिकत्वे वा कादाचित्कत्वव्याघातात् , न युत्तरकालसिद्धत्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न-अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपत्तेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः ? किं न नियताः? आहोस्विनियता अप्यनुपकारकाः? प्रथमे धूमो दहनवदर्दभमप्यवधीकुर्यात् , नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात् , तस्यैव च कारणात्मत्वात् , ईदृशस्य स्वभाववादस्येष्टत्वात्" इति । ननु यथाकाशत्वादिषु क्वाचित्कत्वं- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिष कादाचिकत्वं- नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति-" (नाम) कदाचित्कत्ववत्" इति स्थाने " क्वाचिकत्ववतू" इति पाठः सम्यक्, 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशत्वादीनां हेतुमन्तरेव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तर्हि नियतदेशवृत्तितापि हेतुमन्तरेति शङ्काशयः। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति । इतीति- इतिशब्दो हेतौ वर्तते, तथा च निरुतहतोः, आकाशत्वादीनामाकाशस्वभावत्वादेवेत्यर्थः । हेतुं विनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नामेडनम् । तेषाम् आकाशत्वादीनाम् । देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकालायामाह- आकाशत्वादीनामिति- आकाशत्वादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात् , तद्भिन्नतो व्यावृतत्वे सति तवृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदत्र हेतुरिति भावः । नन्वाकाशत्वादीनामाकाशस्वभावत्वमिति कुतोऽवधारितमित्याकाड्ढायामाह- तत्स्वभावत्वं च आकाशत्वादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तग्राहकं मानमनुमानम्- 'शब्दो द्रव्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाष्टद्रव्यसमवेतत्वबाधे सति 'पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्नैवं तन्नैवं यथा रूपादि' इति परिशेषानमानम्, तेन सिद्धमिति । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटाद्यतिरिक्ताकाशादिव्यावृत्तमिति दुर्दुरुटः स्वभाववादी शङ्कतेमथैवमिति । नहि कादाचित्कत्वं यदा कदाचित् सत्त्वमात्रं येन हेतुं विनैव भवेत् , किन्तु पूर्वकालासत्त्वे सत्त्वम् ,

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496