Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३६२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात् , नयवाक्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियाव्युत्पादन (नेक इवास्योपयोगःस्थल-सक्ष्मनयार्थानां क्रमव्यत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्रावचनिकानां जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्धप्रतिपादनम् , तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभि नबिन्दौ विहितम् , इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ १२२ ॥
सम्यक समीचीनतया । स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति- उक्तवचनेनेदमेव ज्ञायते, यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते- नयवाक्यमिति। एतत् जे पजवेस्वित्यादि दिगम्बरवचनम् , तथा च तत्प्रतिपाद्ये स्याद्वादनिरपेक्षत्वं न वक्तृगतस्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तहीति- यदि नयवाक्यमेवैतत् तदा स्थूल-सूक्ष्मनयार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाव्युत्पादनमतो मुग्धानां- मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति- यत्र सूत्रे स्वस्वाभिप्रायविषयभिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीथिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य- सम्बन्धस्य, प्रतिपादनम्- इदं सूत्रं परतीर्थिकवस्तुवक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र-सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं-स्वस्वमताग्रहविजम्भितं तदा जिनभद्र-सिद्धसेनप्रभृतीनां प्रावनिकत्वस्य क्षतिः- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तुवक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटकं परतीर्थिकपदं भिन्नपरम्परा-जिनभद्र-सिद्धसेनप्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैनपरम्परा, तत आयातस्य- सूत्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो . यः पुरुषस्तत्परं तत्तात्पर्यकम् , परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिन्नपरम्पराऽऽयाततात्पर्यानुसारिणां जनानामेव प्रहणमित्यर्थः । “सारिपदं" इत्यस्य स्थाने "सारिपरं" इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीथिकवस्तुवक्तव्यताप्रतिबन्ध इत्याकालानिवृत्तये तेषामेव 'नयाभिप्रायेण प्रवृत्तत्वाद' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्धविषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्धजिनभद्र-सिद्धसेनप्रभृतिमतद्वयस्य समाधानं- सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दी ज्ञानबिन्दुसंज्ञके प्रन्थे। विहितं कृतम । ज्ञानबिन्दावन्ते प्रन्थकप्रश स्तावेतानि पद्यानि केवलज्ञान केवलदर्शनयोगपद्यायोगपद्यै क्यमननपरायणानां मल्लवादि-क्षमाश्रमणजिनभद्रगणि-सिद्धसेनदिवाकराणां त्रयाणां परस्परमतविरोधभत्रकनयभेदसमाश्रयणप्रतिपादकानि पद्यान्यत्रानुसन्धेयानि
" प्राचा वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिप्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥१॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करण-फलयोः सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्य पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव । सूक्ष्मरंशः क्रमवदिदमप्युच्यमानं न दुष्ट, तत्सूरीणामियमभिमता मुख्य-गौणव्यवस्था ॥३॥

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496