Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 432
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः। शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान् वाच्या, यतो वाचस्तुल्यसङ्ख्या नया अभिहिताः ॥ १२१ ॥ स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः। ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ १२२ ॥ नयामृत-स्याद्वादेति । तैः-नयैः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्त:वचस्तुल्यसमा एव, परागमा:- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुक्कं सम्मती " जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइया चेव परसमया ॥" [ तु. कागा० ४ ] ___एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे " जे पजवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा । __ आयसहामि ठिया, ते सगसमया मुणेनवा ॥" [ इति दैगम्बरं वचनं [चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमय: आविश्वका प्रकटीचक्रुः । उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति । कियान वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तमशक्य इति सूचितम् । कथं विशेषतो नयविस्तरो वक्तमशक्य इत्यपेक्षायामाह-यत इति ॥ ११ ॥ दर्शनगतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपद्यं विवृणोति- स्याद्वादेतीति । तैरियस्य विवरण- नयैरिति । स्याद्वादनिरपेक्षरित्यस्य विवरण- स्याद्वादैकवाक्यतारहितैरिति । तावन्तः इत्यस्य विवरणं-वचस्तुल्यसङ्ख्या एवेति । परागमा इत्यस्य विवरण-परसिद्धान्ता इति । भवन्तीति क्रियापदमध्याहृतम् । वचस्तुल्यसङ्खयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदाग्रहत्यर्थः । यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्कं सम्मताविति । जावइया० इति- “यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति नयवादाः। यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥” इति संस्कृतम्, एतावत्सु वचस्तुल्यसंख्यकेषु। इच्छाकल्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः । इच्छाकल्पितसंयोगजभेदोऽपीत्यस्थ सुलभ एवेत्यनेनान्वयः । “समवायान्तरापेक्षकः" इत्यस्य स्थाने “ समयान्तराक्षेपकः" इति पाठो युक्तः। निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् । उत्तरार्दै पदानामन्वयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति । उपयुज्य अपेक्षाभेदं सन्निवेश्य । उपयुज्येत्यस्य व्यवच्छेद्यमाह-न त्वापातत पवेति । कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातक्षानस्येति- आपातज्ञानतः स्वसमये परसमयत्वबुद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः । अत एवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । वस्तुस्थितिविचारेव स्तुस्थितिविचारास्ये प्रन्थे। जे पजवेस० इति- "ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः । आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः॥" इति संस्कृतम् । दैगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि । वचनमित्यस्य 'अभिव्यजयति' इत्यनेनान्वयः। “[चक्रुः] सम्यक" इत्यस्य "वक्तुः सम्यक” इति पाठः समीचीनः। वक्तु: स्ववतुर्दिगम्बरस्य ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496