Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 430
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पक्षपातित्वं नित्याऽनित्यशब्दवाच्य पुद्गलाभ्युपगमात्, ज्ञाना·ऽर्थ लक्षणयौगपद्यरूपव्यञ्जनपर्याय प्रधानत्वायोगाचार माध्यमिकयोश्च शुद्ध शुद्धतरत्वेन समभिरूढैवम्भूतपक्ष वर्तित्वमिति ॥ १२० ॥ नयसंयोगजः शब्दाऽलङ्कारादेश्च विस्तरः | चावगन्तव्यम्, कियान् वाच्यो वचस्तुल्यसङ्ख्या ह्यभिहिता नयाः ॥ १२१ ॥ नयामृत० - नयेति । शब्दाऽलङ्कारादेः - व्याकरण - साहित्यादिशास्त्रस्य च विस्तरः, नय संयोगज:- नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षदत्वानुपपत्तेः, अत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-भेदाद्युपपत्तये व्यवहारनय. मानन्त्य - व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्ग्रहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते यत् तु मीमांसक मतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह - अत्रेति चतुर्णां बौद्धानां मत इत्यर्थः । यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थनयपक्षपातित्वमेव युकं तथापि पुद्गलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनय पक्षपातित्वम्, वैभाषिकोऽपि क्षणिकमेव वस्तु स्वीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवस्वरूपोऽनित्यमित्येवं स्वरूपो यः शब्दस्तद्वाच्यस्य पुद्गलस्याभ्युपगमात् न तु शब्द वाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्यायं प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह - ज्ञानेति - ज्ञानार्थयोर्लक्षण साधारणं यद् यौगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच्च वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं ज्ञातव्यमित्यर्थः । समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षणाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगाचारस्य समभिरूढनयपक्षपातित्वम् एवम्भूतनयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयकं च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह -- योगाचारेति ॥ १२० ॥ शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति । " नानानयविवक्षायां " इत्यस्य स्थाने " नानानयविवक्षाया " इति पाठो युक्तः । अन्यथा शब्दाऽलङ्कारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-ऽलङ्कारादिप्रवृत्यभ्युपगमे इति यावत् । सार्वपादत्वानुपपत्तेः सर्वपरिषद्व्यवस्थितजन सम्बन्धित्वानुपपत्तेः, यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्वमेवेत्याशयः । अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव । मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन ' अपेक्षन्ते ' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वेति- सार्वजनीनः- सर्वजन प्रसिद्धो यो भेदाभेदादिस्तदुपपत्तयेतत्सिद्धयर्थम्, व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः । “बिभ्यन्तौ ” इत्यस्य स्थाने "बिभ्यत" इति पाठो युक्तः, शब्दस्य व्यक्तौ शक्तेरुपगमे व्यक्तीनामानन्त्याच्छक्केर प्यानन्त्यं प्रसज्यते, यत्किञ्चिद्व्यक्तौ शब्दस्य शक्त्यभ्युपगमे यत्रैव व्यक्तौ पदस्य शक्तिस्तस्या एव व्यक्तेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम्, शाब्दबोधश्च व्यक्त्यन्तराणामपीत्युपस्थितिशाब्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यं भिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यतीं व्यक्तिशक्ति परित्यज्येत्यर्थः । जाती घटत्व- पटत्वादिसामान्ये । शक्तिव्युत्पत्तये घटपटादिशब्दशक्तिप्रहलक्षणशक्तिव्युत्पत्यर्थम् । सङ्ग्रहनयं सामान्यरूपेण व्यक्तीनां सङ्ग्रहणादनुगमनात् सामान्यप्राहिसङ्ग्रहम् । चः समुच्चये । आद्रियमाणा अपेक्षमाणाः । स्वमतप्रवृत्तौ भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्त प्रवृत्यर्थम् । नयसंयोगमेव व्यवहार-सङ्ग्रहद्वय मंयोजनमेव । आदौ प्रथमम् । नत्वेवं मीमांसामतस्य व्यवहार-सङ्ग्रहनयद्वय प्रकृतिकत्वे सम्मतिग्रन्थविरोधः, तत्र तस्याशुद्धद्रव्यार्थिं कनय प्रकृतिकत्वस्यैवाभिधानादित्यत आह- यत् त्विति । नामनिक्षेपा ३५९

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496