Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 429
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ऋजुसूत्रादितः सौत्रान्तिकवैभाषिको क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ॥ १२० ॥ नयामृत-ऋजुसूत्रादित इति । ऋजुसूत्रादितः- ऋजुसूत्र-शब्द-समभिरूढेवम्भूतेभ्यः, क्रमात् सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः, सौगता अभूवन्- उदपद्यन्त, एतेषां स्वरूपमेतेन काव्येन ज्ञेयम्"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षो नहि बाह्यवस्तुविसर: सौत्रान्तिकैराश्रितः ।। योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम्" ॥१॥ [ ] इति, एतद्विशेषावगमपुष्पमदार्थिना तु मत्कृतलताद्वयं परिशीलनीयम् । अत्र वैभाषिकस्य शब्दनय तथाऽस्तु पार्थक्यबीजमस्त्वित्यर्थः । तथा च उक्तदिशा सङ्ग्रह-व्यवहाराभ्यां नैगमस्य पार्थक्ये च । तत एव नैगमादेव । स्वतन्त्रेतीति- स्पष्टार्थत्वादिदं पद्यं न व्याख्यायत इत्याह- स्पष्टार्थ इति । अत्र चार्थे एतत्पद्यप्रसिद्धार्थे । प्रदर्शितन्यायेन अनन्तरोपदर्शितयुक्त्या। एकत्र एकस्मिन् धर्मिणि । उक्तार्थे सम्मतिवृत्तिस्वारस्यं दर्शयति- नैगम इति ॥ ११९॥ ऋजुसूत्रादिपर्यायार्थिकनयचतुष्टयतो बौद्ध चतुष्टयस्य सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकाभिधस्य दर्शनानि जातानीत्यावेदकं विंशत्युत्तरशततमपद्यं विवृणोति-ऋजुसुत्रादित इतीति । ऋजुसूत्रादित इत्यस्य विवरणम्ऋजुसूत्रशब्दसमभि भ्य इति । क्रमादिति - ऋजुसूत्रात् सौन्नान्तिकः, शब्दाद् वैभाषिकः, समभिरूढाद् योगाचारः, एवम्भूतान्माध्यमिक इत्येवं चत्वारः सौगताः- बौद्धाः, अभूवन उदपद्यन्तेत्यर्थः। सौत्रान्तिकादिपदं सौत्रान्तिकदर्शनादिपरम् । संक्षेपतश्चतुण्णी बौद्धानां स्वरूपमावेदयितुमाह- एतेषामिति- अनन्तरमुपदिष्टानां सौत्रान्तिकादीनां चतुर्णी बौद्धानामित्यर्थः । एतेन अनन्तरमेव वक्ष्यमाणेन । ज्ञानसमन्वितोऽर्थः यदैव ज्ञानं तदैव तद्विषयोऽर्थः । ज्ञानविषययोः समकालमेवोत्पत्तिरिति मतिमता सूक्ष्मबुद्धिशालिना, वैभाषिकेण वैभाषिकसंज्ञकेन बौद्धविशेषेण, इण्यते स्वीक्रियते, सौत्रान्तिकः, सौत्रान्तिकाख्यैबौद्ध विशेषः, बाह्यवस्तुविसरः बाह्यवस्तुविषयकः, प्रत्यक्षः प्रत्यक्षात्मकबोधः, नाश्रितो नैव स्वीकृतः, वैभाषिकमते समानकालीनसामग्रीतो बाह्यवस्तु-तज्ज्ञानयोरुत्पत्तिरिति तयोर्विषयविषयिभावसम्बन्ध इष्यते, तेन निराकारमेव ज्ञानं तद्विषयकत्वात् तसिद्धिनिबन्धनम् , सौत्रान्तिकमते प्रथमक्षणे प्रत्यक्षकुर्वद्रूपात्मकं क्षणिकं स्वलक्षणाभिधेयं बाह्यवस्तु ततो द्वितीयक्षणे तन्नाशस्तदाकारज्ञानोत्पत्तिश्चेति तदाकारमेव ज्ञानं न तु तद्विषयकं तयोभिन्नकालत्वात् , किन्तु तदाकारं ज्ञानं तदन्तरेण न सम्भवतीति तदाकारज्ञानात् तस्य सिद्धिरित्येवमनयोर्विशेषः, योगाचारमतानुगैः योगाचारमतानुसरणशीलैः, परा उत्कृष्टा बाह्यवस्त्वभावेन बाह्यवस्तुजन्यत्वाभावात् , साकारबुद्धिराश्रिता स्वीकृता, पूर्वपूर्वविज्ञानक्षणेनोत्तरोत्तां तत्तदाकारं विज्ञानं जायते, तस्य तत्तदाकारत्वं च वासनाविशेषबलादेव न बाझवस्तुबलादिति न तत्तदाकारबलाद् बाह्यवस्तुसिद्धिरुपेयत इति बाह्यवस्त्वभ्युपगन्तृत्व-तदनभ्युपगन्तृत्वाभ्यां साकारविज्ञानाभ्युपगन्त्रोरपि सौत्रान्तिक-योगाचारयोर्विशेषः। मध्यमाः माध्यमिकबौद्धविशेषमतानुयायिनः, कृतधियो निर्मलबुद्धिमन्तस्स्वच्छामाकारविषयविषयिभावरहितामत एव परामुत्कृष्टां, संविदं बुद्धिं. मन्यन्ते स्वीकुर्वन्तीत्यर्थः । विस्तरभयादत्र सौत्रान्तिकादीनामृजुसूत्रादिप्रकृतिकत्वपल्लवनं न क्रियते, किन्तु मत्कृतलताद्वये विस्तरेण तदुपपादनं समस्ति तदवलोकनीयं तद्विशेषाभिज्ञानार्थिनेति ग्रन्थकृदुपदिशति-एतद्विशेषेति- एतस्य-अनन्तरमुपदर्शितस्य बौद्धमतचतुष्टये ऋजुसूत्रादि. पर्यायार्थिकनयचतुष्टयप्रकृति कत्वस्य यो विशेषोऽवान्तरवैलक्षण्यं तदवगमात्मकं यत् पुष्पमदं- मधु तदर्थिना- तदभिलाषुकेन, मत्कृतलताद्वयं श्रीयशोविजयोपाध्यायनिर्मितलतानामकग्रन्थद्वयम् , परिशीलनीयं सर्वतोऽभ्यसनीयमित्यर्थः । ऋजुत्र-- नयाभ्युपगतक्षणिकात्मकपर्यायाभ्युपगन्तृत्वात् सौत्रान्तिकानामृजुसूत्रपक्षपातित्वस्य स्पष्टं प्रतीयमानत्वेऽपि वैभाषिकादीनां

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496