Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 427
________________ ३५६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । द्वयेतरयावद्भङ्गानां स्याद्वादलाञ्छितानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह " जे वयणिज्जविअप्पा संजुज्जन्तेसु होन्ति एएसु । सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥" [सम्मतिप्र० का० गा० ५३ ] ___ तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम् , अतिरिक्तसामान्यविशेषापेक्षां विना महासामान्य-ऽन्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावन्नयद्वयविनियोगरूपत्वात्, अन्यथाऽनवस्थानात् , तदिदमुक्तम् - ज्ञानस्य निरुक्कोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्यः । मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयद्वयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह- नहीति- अस्य सम्यक्त्वप्रयोजकमित्यत्रान्वयः। यदि नयद्वयालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्यं तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्च, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तेति- भङ्गद्वयं चेतरयावद्भशाश्च भनद्वयेतरयावद्भशाः, खप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभङ्गद्वयेतरयावद्भङ्गास्तेषां खप्रयुक्तभावयेतरयावद्भङ्गानाम् , भङ्गद्वयस्य- स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकाङ्क्षायां तद्विशेषणमाह- स्याद्वादलाञ्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव भङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत आह- एकतरस्यापीति सप्तानां निरुक्कभङ्गानां मध्यादेकस्यापि भङ्गस्येत्यर्थः। अतात्पर्ये तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादशद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्तार्थं सम्मतिप्रन्थस्य गाथासंवादमाह-तदाहेति । जे० इति- “य वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः। सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥" इति संस्कृतम्। तत् तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममङ्गे विशेषयोगो द्वितीयभङ्गे इत्येवं भङ्गद्वये सामान्य-विशेषयोगसम्भवेऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभायोरपि तादृश. सामान्यविशेषयोगो न सम्भवतीत्यावेदितम् । यथा महासामान्येऽतिरिक्तसामान्यं नास्ति, अन्त्यविशेषेऽनिरिक्तविशेषो नास्ति. अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम् , अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम्, तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव खत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्याद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावान्मिथ्यात्वमेवेत्याशयेनाह - अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य-विशेषानात्मकत्वस्याङ्गीकारे। अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्वसामान्यस्य पटोऽयं पटोऽयमित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्यानीकारः; एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिक्तस्य विशेषस्याजीकारः,

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496