Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
1
[
यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " तत् त्वमसि " [ ] आदिवाक्यसामर्थ्येनैव निरस्तसमस्तप्रपञ्चात्म्यैक्य सिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेर्महावाक्याश्रयणस्यावश्यकत्वम् । तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति " क्षीयन्ते चास्य कर्माणि " ] इति श्रुतेः । न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन्न विभोक्ष्येऽथ सम्पत्स्ये " [ ] इति श्रुतेः कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशास्त्रेण ज्ञानानिवर्त्यत्वाभिधानात्, ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधिपरोक्षात्वादिकस्य चैतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपञ्चस्य कल्पितत्वं कथमित्यपेक्षायामाह - तदेवमिति - तत् तस्मात्, एवम् उक्तप्रकारेण । भोग्यं स्रक्-चन्दन- वनितादिकं यदि पारमार्थिकं स्यात् तदा सन्निरूपित भोक्तृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तृत्वादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थेयमित्याह - भोक्तृत्वादेरिति । एवमिति - उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितस्वमन्तरेणानुपपन्नमिति जगतः कल्पितत्वमास्थेयमित्यतस्तत्त्वमसीति वाक्यसामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनत्वविशिष्टवर्तमानकालीनत्वविशिष्टयोर्भेदग्रहे जाग्रति सति अभेदप्रहो न भवतीति लक्षणया देवदत्तव्यक्तिमात्र प्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ- खंपदशक्यार्थयोर्विशिष्टचैतन्ययोर्भेदभ्रमे सत्यभेदज्ञानाभावतो भेदभ्रमस्य पदादनिवृत्तेर्लक्षणया तत्त्वमसीति वाक्यतोऽखण्ड चैतन्यप्रतीतिरिति तस्य महावाक्यत्वमखण्डार्थप्रतीतिजनकत्व लक्षणमा स्थेयमित्यर्थः । पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति- तदिद मिति । उत्पन्नमेवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्म राशिविनाशोत्पत्तौ विलम्बो न भवतीति दर्शितम् । ननु " नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥ " ] इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतत्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुतिं प्रमाणयति क्षीयन्ते चेति " तस्मिन् दृष्टे परावरे " इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्चासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षया तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति - सर्वोत्कृष्ट इति, तस्मिन् दृष्टे सति, अस्य - पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते विनश्यन्तीत्यर्थः । नन्वखिलकर्मान्तिर- देहधारणानुकूल प्रारब्धकर्मणोऽपि तत्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि ' इत्यत्र कर्मपदेन प्रारब्ध कर्मेतर कर्मैव विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारब्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेपहेतुमुपदर्शयति- प्रारब्धस्येति - प्रारब्धकर्मण इत्यर्थः । तत्र श्रुतिं प्रमाणयति तस्येति तस्य " तावदेव इत्यस्य स्थाने " तस्य तावदेव " इति मुद्रणं युक्तम् तस्येत्यारभ्य श्रुतिः, तस्य- तत्त्वज्ञानिनः, यावत्- यावत्कालम्, न विभोक्ष्येउपभोगप्रभवप्रारब्ध कर्म विनाशो न भवति तावदेव तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतः प्रारब्ध कर्मक्षयानन्तरम्, सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भवतीत्यर्थः । उक्तश्रुत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकेनेति - फलदानाभिमुख कर्मोदयेनेत्यर्थः । प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि । उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या । ज्ञानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योकैः । उपसंहरति- ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः । ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्वयः । ज्ञानेन शुद्धचैतन्यसाक्षात्कारेण । तदानीमेव स्वोत्पत्यनन्तरक्षण एव । अज्ञाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्तयशेषावरणशक्ति तदुक्कसर्व प्रपञ्चात्मक कार्यकारणात्मना मायाविद्याशब्दवाच्येऽज्ञाने निवर्तयितव्ये । प्रारब्धेति- प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुक्ताज्ञानानिवृत्तिः, प्रारब्धकर्मरूप प्रतिबन्धका भावसद्दकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः । तस्यां
३४०

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496