Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 414
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः। ४३ रूपान्तरमस्ति, तस्मादत्र नास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः । कि तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम् " तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण, नासीदस्ति भविष्यति ॥१॥" [ ] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एव क्रियते, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव । कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् ? कण्ठगतचामीकरन्यायेनानवाप्तत्वभ्रमात्, पुरुषार्थत्वं तु तत्रा. भिलषितत्वादेव कृतिसाध्यत्वस्य तत्र गौरवेणाप्रवेशात् । चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु तत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् । कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरि. अत्र चैतन्ये । तो ज्ञाननिवृत्तिः किंस्वरूपति पृच्छति - किन्विति । उत्तरयति- अज्ञानस्येति । तन्निवृत्तिः अज्ञाननिवृत्तिः । नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाज्ज्ञानसाध्यत्वाभावेन किं साध्यम् ? कस्यचिज्ज्ञानसाध्यस्याभावे ज्ञानानर्थक्यमापन्न मिति पृच्छति-किमिति- अस्य साध्यमित्यनेनान्वयः । उत्तरयति-नास्त्येवेति"बोधात्मकत्वबाध" इत्यस्य स्थाने "बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभावबोधलक्षणाज्ञानबाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः । उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्राचौ संवादमुपदर्शयति-तदुकमिति । तत्वमस्यादीति- 'तत्त्वमसि, अहं ब्रह्मास्मि ' इत्यादिवाक्यजन्यं यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहाविद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत् , नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तर काले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कार्येण सहाज्ञानस्यात्यन्ताभावबाध उपजायत इति स एव बाधः। उक्तमर्थ दृष्टान्त-दार्शन्तिकभावावष्टम्भेन भावयति- शुक्तिबोधेनापीति- शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्यसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिर्भवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो मात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एवं क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य ध्वंस इत्यभिधीयत इत्यर्थः । तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः । इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिन त्वज्ञानध्वंस इति भावः । स चायमिति-निरुकवाधश्चाधिष्ठानभूतब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतमा इति बोध्यम् । यदि निरुकवाधात्मकाज्ञाननिवृत्तिब्रह्मात्मिकैव तदा तस्याः सर्वदा सत्त्वान्नोत्पत्तिरिति तद्विषयकाविच्छा-प्रयत्नौ कथं स्यातामिति पृच्छति-कथं तीति। उत्तरयति-कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्तेन अरे ! तव कण्ठ एव स्थितं चामीकरं किमर्थमितस्ततस्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्वभ्रमादुक्कदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्यो भवतीत्यर्थः। ननु निरुक्काज्ञाननिवृत्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुतमोक्षश्च नित्यब्रह्मस्वरूपत्वान्न कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह-पुरुषार्थत्वं विति पुरुषेणार्यते- अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम्, साधनस्य पुरुषार्थत्वं मा प्रसासीदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वरूपमोक्षेऽपि निरुक्केच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तेच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न भवेदपि कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः । नन्वेवं चन्द्रगतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परिहरति-चन्द्रेति-"चन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् । यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकालायामाह- अप्रवृत्तिस्त्विति । तत्र चन्द्रामृतपानादौ । प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान्न चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः । ननु वेदान्तिनां दृष्टिसष्टिवाद एव प्रधानः, तत्र यदैव यस्य दर्शनं तदैव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496