Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वाच्यम् , निर्विशेषात्मबोधेऽपि “ इतिहासपुराणाद्यैर्वेदार्थमुपबृंहयेत् " [
] इत्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणाद्यावृत्तं तत्त्वधीहेतुः, दृष्टार्थत्वात् , तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमसि "[ आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते । न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । ' तत् त्वम् ' इति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इतिवद्गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् । नापि " मनो ब्रह्म" [ इत्यादिवदुपासनार्थम्, श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादव, अस्य निषेधे नमर्थेऽन्वयः, तस्य नियमविध्यत्वमित्यनेनान्वयः। अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति । इत्थं श्रवणविधेर्न नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेपहेतुमुपदर्शयति-निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाक्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् तत्प्रतिषेधार्थ वेदान्तवाक्यश्रवणं नियम्यते, अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' [
] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधिवप्रसङ्गदोषाभावादित्यर्थः । तत् किं निर्विशेषात्मज्ञानार्थ वेदान्तवाक्यश्रवणमेधैव कर्तव्यमुत तदावृत्तिरपेक्षितेत्यपेक्षायामाह-एतश्चेति- अनन्तरोपदिष्टस्वरूपं चेत्यर्थः । श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः। आवृत्तं भूयोऽभ्यस्तम् । नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि, तेन यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन तस्तद्वारा निर्विशेषात्मज्ञानं सम्भवतीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात्, यदा तु दृष्टमपि तत्त्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्यावेदनायाह- दृष्टार्थत्वादिति । तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानवानिह जन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग-शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थविशुद्धप्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति-तदेवमिति। परिपाकश्च दाळ श्रवणादीनाम् । असौ पुरुषधुरन्धरः। ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्ती स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । "स्वतः स्वभङ्गः” इत्यस्य स्थाने " स्वतस्त्वभङ्गः" इति पाठो युक्तः। श्रवणादितः परमात्मसाक्षात्कारप्रतिबन्धकापगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते, इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति । तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च, स्वाश्रयज्ञानकारणातिरिक्तभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं, तच प्रामाण्यस्योत्पत्तो प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीसाशयः। तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेणाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तयोर्जहद जहलक्षणा, तत एवाखण्डब्रह्मस्वरूपबोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति-तत्-त्वमिति पदयोरिति । परोक्षस्वेति- परोक्षत्वविशिष्ट चैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य स्वंपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रयमाणं सिंहो देवदत्त इतिवद् गौणं नेत्यर्थः । निषेधे हेतुमाह-मुख्य इति- मुख्य सामानाधिकरण्य इत्यर्थः। तस्य गौणस्य सामानाधिकरण्यस्य । सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- “ मनो ब्रह्म" [ ] इत्यत्र आरोपितब्रह्मामेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वादिविशिष्टचैतन्यलक्षणब्रह्माभेदकमपरोक्षत्वविशिष्टचैतन्य त्वंपदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्का प्रतिक्षिपति-नापीति । निषेधे हेतुमाहश्रुतहानेति-श्रुतस्य सत्त्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य, यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य. गौणसामाना

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496