Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 388
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३१७ व्यवह्रियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे । एवं प्राणादयस्तद्धर्माश्चाशनीयाः पिपासादयः तथा, श्रोत्रादयो वागा. दयश्च तद्धर्माश्च बधिरत्वा-ऽन्धत्वादयोऽध्यस्यन्ते, तथा देहस्तद्धर्माश्च स्थूलत्वादय आत्मन्यध्यस्यन्ते । तत्रेन्द्रियादीनां न तादात्म्याध्यासः, अहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमितिप्रतीतेस्तादात्म्येनाध्यस्यते, एवं चैतन्यस्याप्यहङ्कारादिषु देहपर्यन्तेष्वध्यासः स्वीकार्यः, अध्यासव्यवधानतारतम्याच्च प्रमेय. तारतम्यम्, तदुक्कं वार्तिकामृते " वित्तात् पुत्रः प्रियः पुत्रात् , पिण्डः पिण्डात् तथेन्द्रियम् । इन्द्रियेभ्यः परः प्राणः, प्राणादात्मा परः प्रियः ॥" सङ्कल्पाध्यवसायादिलक्षणा विषय स्त्वमी ॥१॥" [ इति । चैतन्येऽन्तःकरणाहकारादेरध्यासस्य निरुपाधिकत्वमुपदर्य आत्मनि सुख-दुःखादिधर्माध्यासस्य सोपाधिकत्वमुपदर्शयति- इदमेवेति-निरुक्तस्वरूपमन्तःकरणमेवेत्यर्थः । आत्मतादात्म्येनाध्यस्यमानम् आत्मनि तादात्म्येनाध्यस्यमानं सत्, अस्योपाधिरित्यनेनान्वयः । स्वधर्मेतिअन्तःकरणधर्मेत्यर्थः । स्वधर्माध्यासे खस्योपाधित्वे दृष्टान्तमाह- स्फटिक इति-जपाकुसुमं यथा खगतलौहित्यधर्मस्य स्फटिकेऽवभासे उपाधिस्तथेत्यर्थः। यथाऽन्तःकरण-तद्धर्मसुख-दुःखादीनामात्मन्यध्यासस्तथा प्राणादीनां तद्धर्माणामशनीयादीनामात्मन्यध्यासः, एवं श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां कर्मेन्द्रियाणां तद्धर्माणां बधिरत्वादीनां चात्मन्यध्यास इत्याहएवमिति । तद्धर्माश्च प्राणादिधर्माश्च । “श्चाशनीयाः पिपासादयः तथा," इत्यस्य स्थाने 'श्वाशनीयापिपासादयः, तथा' इति पाठः समीचीनः । तद्धर्माश्च श्रोत्रादिधर्माश्च । अन्धत्वादय इत्यत्रादिपदात् कुष्ठादीनां त्वगादिधर्माणां मूकत्वादीनां वागादिधर्माणामुपग्रहः। देह-तद्धर्माणामप्यात्मन्यध्यास इत्याह- तथा देह इति । तद्धर्माश्च देहधर्माश्च । इन्द्रियादीनां तादाम्यातिरिक्तसम्बन्धेनैवाध्यासो न तादात्म्यसम्बन्धेनेत्याह-तत्रेति- आत्मनीत्यर्थः । आत्मनीन्द्रियस्य तादात्म्याध्यासाभावे हेतुमुपदर्शयति- अहं श्रोत्रमित्यप्रतीतेरिति- एतच्च 'अहं चक्षुः, अहं घ्राणम्' इत्याद्यप्रतीतेरिति हेतोरप्युपलक्षणम् । देहस्तु तादात्म्येनात्मन्यध्यस्यत इति सहेतुकमुपदर्शयति-देहस्त्विति । यथा चैतन्येऽहङ्कारादीना. मध्यासस्तथा चैतन्यस्याप्यहंकारादिष्वध्यासः, सोऽयमन्योऽन्याध्यास इत्याह- एवमिति । चैतन्यमात्मस्वरूपं परमप्रेमास्पदम् , तत्र यस्याभेदाद्यध्यासस्तस्य वा यत्राभेदाद्यध्यासस्तत्रापि प्रेम भवति, किन्तु साक्षादव्यवधानेनाध्यासे उत्कृष्टं प्रेम, ततो व्यवधानतरतमभावाभ्यासिताध्यासतस्तदपकृष्टतरतमभावापन्नं प्रेम भवतीत्याह- अध्यासतारतम्यभावाच्चेति । “प्रेमयतारतम्यम्" इत्यस्य स्थाने "प्रेम्णस्तारतम्यम्" इति पाठो युक्तः । उक्कार्थे वार्तिकामृतसम्मतिमुपदर्शयति- तदुक्तं वार्तिकामृत इति । वित्तादिति-वित्तं-धनं सर्वस्यात्मनः प्रियं भवति, परमप्रेमास्पदस्यात्मनो वित्ते स्वस्वत्वसम्बन्धाध्यासात् , ततोऽप्युत्कृष्टस्वत्वाध्यासादुत्कृष्टप्रियः पुत्रो भवति, पुत्रादपि पिण्डः शरीरं स्वतादात्म्यापन्नाहङ्कारतादात्म्याध्यासादुत्कृष्टतरप्रियं भवति, तथा उक्तप्रकारेण पिण्डादप्युत्कृष्टतमप्रियमिन्द्रियं भवति, इन्द्रियेभ्योऽपि पर:- अत्यन्तोत्कृष्ट. प्रियाः प्राणा भवन्ति, उक्तेभ्यः सर्वेभ्योऽनन्तरनिर्दिष्टप्राणेभ्यः परो निरतिशयः प्रिय आत्मा भवतीत्यर्थः । आत्मनः परमप्रेमास्पदत्वं च पञ्चदश्यां तत्त्वविवेकप्रकरणेऽप्युक्तम् " इयमात्मा परानन्दः परमप्रेमास्पदं यतः । मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥" [ इदं च पद्यमित्थं व्याख्यातम्- भवत्येवं संविदो नित्यत्वं स्वप्रकाशत्वं च ततः किमित्यत आह- इयमिति-अनार्य प्रयोगः- 'इयमात्मा संविद् भवितुमर्हति, नित्यत्वे सति स्वप्रकाशत्वाद्, यन्नैवं न तदेवं यथा घटः' इत्यात्मनो नित्यसंविद्रूपत्वप्रसाधनेन सत्यत्वमपि साधितं भवति, नित्यत्वातिरिक्तसत्यत्वाभावान्नित्यत्वं सत्यत्वं तद् यस्यास्ति तन्नित्यं सत्यमिति वाचस्पतिमित्रैरुतत्वादिति भावः । आत्मन आनन्दरूपत्वं साधयति- परानन्द इति- आत्मेत्यनुषज्यते, परश्चासावानन्दश्चेति परानन्दो निरतिशयसुखस्वरूप इत्यर्थः, तत्र हेतुमाह- परेति- यतो यस्मात् कारणात् परस्य- निरुपाधि. कत्वेन निरतिशयस्य, प्रेम्णः- स्नेहस्य, आस्पदं- विषयस्तस्मात् , अत्रेदमनुमानम्- आत्मा परमानन्दरूपः परमप्रेमास्पद

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496