Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३२६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। इति, आख्यातासमानाधिकरणव्यवहितपरामर्शसमर्थसुबन्तपरामृष्टानां कर्मणां फलसंबन्धमात्रविधानो. पपत्तौ नान्यत् कल्पयितुं युक्तम् , आख्यातसमानाधिकरणो हि मासमग्निहोत्रमिति शब्दस्तत्परतन्त्रत्वान्न व्यवहितमित्यग्निहोत्रं परामृशति, यज्ञेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो व्यवहितपरामर्श समर्थ इति परमार्थः । ननु किमत्र पशुकामस्योद्भिच्चित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु भिन्नवाक्योपात्तत्वाद् विकल्पः ?,यथा- दध्यादीनामग्निहोत्रहोमे, उत स्वर्गकामस्याग्नेयादिष्विव समुच्चयः ? इति चेत् ? अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः । तत्र कथमेकवाक्यतेति विचार्यते- अर्थैकत्वाइति पाठो युक्तः, कल्पनायां तु वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पनायां पुनः, लाघवम् अतिरिक्त यज्ञादितत्फलविविदिषादिसंयोगविधिद्वयकल्पनापेक्षया वचनान्तरप्राप्तस्य यज्ञादिकर्मणः केवलविविदिषादिफलसंयोगविधिकल्पने लाघवं सुव्यक्तमेव, जीवातुः जीवनं प्रमाणसहकारीति यावत् । नन्वन्यत्रापि वचनान्तरप्राप्तस्यैव कर्मणः फलविशेष. सम्बन्धमात्रविधानं लाघवादुपेयताम्, नेत्थं चेत् किमपि विनिगमकमुपदर्शनीयमित्यत आह-आख्यातेति- आख्यातासमानाधिकरणो व्यवहितपरामर्शसमर्थश्च यः सुबन्तस्तत्परामृष्टानामित्येवमन्वयगमनिका । मासमग्निहोत्रं जुहोतीत्यादौ नेदं विनिगमकमतस्तत्र कर्मान्तरविधानमित्युपदर्शयति- आख्यातसमानाधिकरणो हीति-हि- यतः, मासमग्निहोत्रमिति शब्द आख्यातसमानाधिकरणः, जुहोतीत्याख्यातपदप्रतिपाद्यहवनाभिन्नमासाधिकरणकाग्निहोत्ररूपार्थकत्वात् तथा । कथमाख्यातसमानाधिकरण इत्यपेक्षायामाह- तत्परतन्त्रत्वादिति- जुहोतीत्याख्यातपरतन्त्रत्वात् , अत एवाग्निहोत्रमपि न व्यवहितमित्यव्यवहितस्याग्निहोत्रस्य परामर्शकं मासमग्निहोत्रमिति शब्दो न व्यवहितपरामर्शसमर्थ इति निरुक्तविनिगमकाभावान तत्र फलसम्बन्धमात्रविधानं किन्तु कर्मान्तरस्यापि विधानमित्यर्थः । प्रकृते तु निरुक्तविनिगमकसत्त्वात् फलसम्बन्धमात्र. विधानमित्याह-यज्ञनेत्यादीति-"यक्षेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो" इत्यस्य स्थाने " यज्ञेनेत्यादि. सुबन्तस्त्वाख्यातासमानाधिकरणो" इति पाठः समीचीनः, आख्यातपदमत्र विविदिषन्तीति, तत्प्रतिपाद्यं न यज्ञादि, किन्तु विविदिषेति आख्यातप्रतिपाद्यार्थाप्रतिपादकत्वाद् यज्ञेनेत्यादिशब्दस्याख्यातासामानाधिकरण्यम् , व्यवहितं यद् दर्श-पूर्णमासाभ्यां यजेतेत्यादिवचनप्रतिपाद्यं दर्शादि तस्य परामर्श समर्थोऽपीति तत्परामृष्टानां दर्शादिकर्मणां फलसम्बन्धमात्रविधानम् । इति परमार्थः एवंस्वरूपोऽत्र वास्तविकोऽर्थः । ननु तमेतमिति वचने यज्ञेन दानेन तपसेत्यनेन फलान्तरजनकतया विहितानां दर्शादियज्ञ-दान-तपसामशेषाणां परामर्शे विविदिषादिकामस्तेषामन्यतमं कञ्चनैकं यज्ञं दानं तपो वाऽनुतिष्ठन् विविदिषादिफलमासादयति किम् ?, यथाऽग्निहोत्रहोमं केनचिद् दध्यायेकेनानुतिष्ठन् तत्फलमासादयतीति विकल्पोऽत्राभिप्रेतः, किं वा स्वर्गकाम आग्नेयादिषट्कमनुतिष्ठन्नेव तत्फलमासादयति यथा, तथा विविदिषादिकामो यज्ञ-दानादिकं सर्वमनुतिष्ठन्नेव तत्फलमासादयतीति आग्नेयादिसमुच्चयवद् यज्ञ-दानादिसमुच्चयोऽभिप्रेतः ? इति प्रश्नयति-नन्विति । किमोत्यस्य विकल्प इत्यनेन समुच्चय इत्यनेन चान्वयः। उद्धिच्चित्रादिष्विवेति- “पशुकाम उद्भिदा यजेत [ ] इति “पशुकामश्चित्रया यजेत" इत्यादिभिन्नवाक्योपात्तत्वाद् उद्भिद्याग-चित्रायागादिषु पशुकामस्य यथा विकल्पः- उद्भिद्याग-चित्रायागादीनां मध्यादेकमनुतिष्ठन्नपि पशुकाम इष्टफलमवाप्नोति तथा यज्ञेन दानेन तपसेति भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्पःयज्ञादीनां मध्यादेकमनुतिष्ठन्नपि विविदिषादिकाम इष्टफलमनुभवतीत्यर्थः । विकल्पे दृष्टान्तमाह-यथेति-अत्र “यथा वा" इति पाठो भवितुमर्हति । द्वितीयपक्षमावेदयति-उतेति। आग्नेयादिष्विवेति-दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेल्यत्र दशैं- अमावास्यायां क्रियमाणं यज्ञत्रयं दर्शयाग इति कथ्यते, पूर्णिमायां क्रियमाणं यज्ञत्रयं पौर्णमासयाग इति कथ्यते, ततः षड्भ्यो दर्शपौर्णमासनामधेयेभ्यो यागेभ्यः स्वर्गकामस्य स्वर्गो भवति, न तु तन्मध्यादेकैकस्मादाग्नेयादियागात् स्वर्गफलमुपजायते, तत्र मीमांसकानामियं प्रक्रिया- दशैं क्रियमाणयागत्रयमध्यादेकैकस्माद् यागादेकमपूर्वमुत्पद्यत इति तदपूर्वत्रितयमनापूर्वमिति कथ्यते, समुदितभ्यश्च त्रिभ्यो यागेभ्य एकमपूर्वमुत्पद्यते तदपूर्व प्रधानापूर्वमुच्यते, एवं पूर्णिमायाँ क्रियमाणयागत्रयात् प्रत्येकमपूर्वत्रयमुपजायते तदपूर्वमङ्गापूर्वशब्दव्यपदेश्यम्, समुदिताच यागत्रयादेकमपूर्वमुपजायते तदपूर्व प्रधानापूर्वमुच्यते, आभ्यां च प्रधानापूर्वाभ्यां यज्ञान्तक्रियमाणदक्षिणादानजन्याजापूर्वसहकृताभ्यामेकमपूर्वमुजायते तदपूर्व परमापूर्वमुच्यते, तदेव परमापूर्व स्वर्गादिफलमुपजनयतीति स्वर्गादिफलं जनयित्वैव विनश्यतीति, एवं च स्वर्गकामस्या

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496