Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 403
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नवोपदेशः । 1 यन्तःकरणशुद्धिद्वारा विविदिषासिद्धिः । तथा च स्मृतिः- “ जपेनैव तु संसिद्ध्येत् " [ इति, संभवति चाधिकारिविशेषस्य विविदिषाद्युद्देशेन वेदानुवचनाद्यनुष्ठानमिति । न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात्, तस्याश्च साधनचतुष्टयसंपत्तिगम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तःकरणशुद्धिर्न तस्यावृत्तिरिति । अथवा " जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्य - भेदः, संभवत्समुच्चयश्चैवमुपपद्यते । यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, “ यत् करोषि " [ भगवद्गीता, अ. ९, श्लो. २७ ] इत्यादिस्मृते:, तेन सुष्ठुक्तम्- " कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् । केवलेनापि यज्ञादिक्रियाविकलेनापि । यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृतिं प्रमाणयति - तथा च स्मृतिरिति - " जपेनैव " इत्यस्य स्थाने " जप्येनैव " इत्यपि पाठः, " जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १ ॥ इति सम्पूर्ण वचनम्, मैत्र इत्यनेन मित्रस्य - सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते । यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकार विशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह - संभवति चेति- अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः । ननु " स्वर्गकामोऽग्निहोत्रं जुहोति ” इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्टितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थं सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति - " स्वर्गकामोऽग्निहोत्रवत्" इत्यस्य स्थाने " स्वर्गकामाग्निहोत्रवत् " इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्रे यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः । यज्ञाद्यनुष्ठानं हि अन्तःकरणशुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपद्येत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिद्वारनिष्पत्त्यनन्तरं च न पुनर्यज्ञाद्यनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यज्ञाद्यनुष्ठानस्येति । ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिर्जातैवेति किमर्थं भूयो यज्ञाद्यनुष्ठानमित्यत आह- तस्याश्चेतिअन्तःकरणशुद्धेश्चेत्यर्थः। साधनचतुष्टयसम्पत्तिगम्यत्वादिति - नित्यानित्य विवेक-विराग शमदमादि- मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टय सम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः, तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञाद्यनुष्ठानं विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः । तेन यज्ञाद्यनुष्ठानस्यान्तःकरण शुद्धिपर्यन्तत्वेन । यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य । तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य । न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् । प्रकारान्तरेण संभवत्समुच्चयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति - अथवेति । जातपुत्र इतिवदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्ण केशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः । यज्ञादिपदैरित्यत्रादिपदाद् दानादिपदपरिग्रहः । यज्ञादिपदैरित्यस्योपलक्ष्येत्यनेनान्वयः । शतपथविद्दितं शतपथसंज्ञक वेदशाखाविहितम्, एवंभूतं यत् प्रसिद्धं कर्मसाम्नाज्यं तदुपलक्ष्य- उपलक्षणन्यायेन तदवबोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यज्ञेन दानेनेत्यादौ वाक्यभेदो न भवतीत्यर्थः । एवम् उक्तप्रकाराश्रयणे, संभवत्समुच्चय उपपद्यते युज्यते । अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयतिद्वेति । ईश्वरार्पणबुद्धयेति यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु, न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धयैत्यर्थः । । ईश्वरार्पणबुद्धया कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति - " यत् करोषि " इत्यादिस्मृतेरिति 66 यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ १ ॥ " इति सम्पूर्ण पद्यम्, 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति । " नित्यविवेकादि " इत्यस्य स्थाने " नित्यानित्यविवेकादि " इति पाठो युक्तः । नित्यानित्य विवेकादिकं यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति स चेति- अनन्तराभिहितश्चेत्यर्थः । नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः । विमर्शाधिष्ठानम्" इत्यस्य स्थाने " विमर्शस्याधिष्ठानम् " " ३३२ ܕܙ

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496