Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थविधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । न च " यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते"[ ] तत्र च कर्मानुवादेन गुणद्वयविधानेऽप्येकवाक्यवन्नानुपपत्तिः, पूर्वत्र " अग्निज्योतिर्योतेरग्निः स्वाहा" [तैत्तरीयारण्यक ४. १०. ] इति मन्त्रवर्णप्राप्तत्वादनेः प्रजापतिमात्रविधानम् , उत्तरत्र च जातपुत्रकृष्णकेशपदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात्, तदिदमुक्तम्- " प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुणः " [ ] इति, अत्र च कर्मणीत्युपलक्षणं प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वात् , अत एव " ग्रहसंमार्टि " [ ] इत्यत्र ग्रहोदेशेनैकत्व-संमार्गयोर्विधाने वाक्यभेदः, एकोदेशेनानेकविधानवदनेकोद्देशेनैकविधानमप्य
विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः । तत्र दृष्टान्तमाह- यथेति । गुणविधौ दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः । तत्रापि प्रकरणान्तरप्राप्तक्रियायां गुणमात्रविधानस्थलेऽपि । नानेकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः। तत्र हेतुमाह-वाक्यभेदप्रसङ्गादिति । कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह- अप्राप्ता हीति-हि- यतः। अनेकविशेषणान्युपसंगृह्यन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सगृह्णन्ती सती । विशिष्टा अनेकविशेषणविशिष्टा, विधातुं शक्येति- तद्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति । प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः। तस्यां क्रियायाम् । विधिप्रत्ययावृत्तिलक्षण: यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एव विधिप्रत्ययो विद्यते, स चैकत्रवोपक्षीण इति गुगान्तरविधानाय तस्यावृत्तिरभ्यासः पुनस्तत्पठनं तल्लक्षणस्तत्स्वरूपः, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः । तत्र शङ्कामुत्थाप्यापहस्तयति-न चेति । “यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते तत्र च" इत्यस्य स्थाने “ यदग्नये च प्रजापतये च सायं जुहोति" इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च" इति पाठो युक्तः । कर्मानुवादेन सन्ध्याकालीनहवनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च । गुणद्वयविधानेऽपि अग्नि-प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व-कृष्णकेशाग्रत्वलक्षणगुणद्वयविधानेऽपि च । एकवाक्यवत् यथैकवाक्यं तथा। नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादेनानेकगुणविधाने एकवाक्यं नानुपपन्नम्। निषेधे हेतुमाहपूर्वत्रेति-यदग्नये च प्रजापतये च जुहोतीत्यत्रत्यर्थः । “ज्योतेरग्निः" इत्यस्य स्थाने " ज्योतिरग्निः" इति पाठः सम्यक् । इति एवंस्वरूपेय॑थः । अग्निज्योतिरित्यादिमन्त्रस्याग्निरूपदेवताप्रकाशनसामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् । उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च । अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाग्रत्वमिति विशेषस्य युवावस्थालक्षणस्य विधानम् , तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः । इत्येवम् उक्कप्रकारेणैकस्य विधानतः । उक्तार्थे मीमांसासम्मतिमुपदर्शयति- तदिदमुक्तमिति । प्राप्त कर्मणीति- “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥१॥" इति सम्पूर्ण पद्यम् , अत्र 'प्राप्त कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बहवोऽप्येकयत्नतो विधीयन्ते' इत्यन्वयः, अर्थस्तु व्यक्त एव । अत्र चेति-प्राप्ते कर्मणीति पद्ये चैत्यर्थः । कर्मणीत्युपलक्षणं कर्मपदेन कर्म-तद्भिन्नयोरुभयोरपि ग्रहणम् । तत्र हेतुमाह-प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूपं वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनेकविधानस्याशक्यत्वादित्यर्थः । अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वादेव । "ग्रहसंमाष्टि" इत्यस्य स्थाने "प्रहं संमार्टि' इति पाठः सम्यग, ग्रहो नाम यज्ञोपयोगी पात्रविशेषः, प्रहं समाधीत्यत्र प्रहपदोत्तरद्वितीयकवचनेन प्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्माजनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च आहे प्राप्ते एकत्व-संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न प्रहगतकस्वं

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496