Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 391
________________ ३२० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नबोपदेशः । (धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु- कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथम. ध्ययनविधेनित्यत्वमिति चेत ? काम्यत्वेऽपि धर्मा( अर्थावबोधफलकत्वेन फलतो नित्यत्वस्याबाधात. एतच्च मीमांसकमतेनोच्यते, स्वमते त्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहःकर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेहि फलाकाङ्क्षायां निरतिशयसुखात्मकोऽपि स्वर्गो यथा न फलम् , अदृष्टत्वात , एवं दृष्टोऽप्यर्थावबोधो न फलम् , अनन्तरादृष्टत्वादश्रुतत्वाञ्च, अवाप्तिस्त्वनन्तर. दृष्टा श्रुता च फलत्वेन संबध्येत्, यथाहि- फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् , एवमनन्तरदृष्टे सति न व्यवहितदृष्टं कल्प्यम् , श्रुते च सति नाश्रुतं कल्प्यम् , अर्थावबोधवादिनाप्यवाप्रङ्गीकारात्, एवं पञ्चीकरणमभिधाय तैर्भूतैरुत्पाद्यं कार्यवर्ग दर्शयति- तेरण्ड इति - तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तेस्तैः प्राणिभिर्मोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतभूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् , एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपाणां तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह-हिरण्यगर्भ इति- अस्मिन् स्थूल शरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥ अत एव अन्योऽन्याध्यासाच्चिदचिदन्थिरूपस्याध्यासस्य संसारस्वरूपत्वादेव । सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः, अत एवेत्यस्य च हेतुतयाऽन्वयः, सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुकाध्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पतेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्याद्याकाजोत्थानम् , अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः, इत्यमपञ्चीकृतपञ्चीकृतभूतादिमयचिदचिदन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति- अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिने सम्भावनापथमुपयातीति प्रष्टुरभिसन्धिः। उत्तरयति- शुण्विति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व-काम्यत्वयोर्विरोधादिति नित्याध्ययनविधिनत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते-काम्यत्वे सतीति । " स्वाध्यायोऽध्येतव्यः" [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यत्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यत्वयोर्विरोधाभावादित्याशयेनोत्तरयति-काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामतेनोक्तमित्याह- एतच्चेति। मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते, तु पुनः, अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमप्रे व्यक्तीभविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् , तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहाकर्तव्येति- अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेीति । फलाकालायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्खायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तराष्टत्वादश्रुतत्वाञ्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाचावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशयसुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टवान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा हीति । मीमांसकेनाप्यवाप्तिः स्वीकरणीयेत्याह-अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496