Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३१८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
तेनान्योऽन्याध्यासाच्चिदचिदन्थिरूपोऽयमध्यासः समूहालम्बनभ्रमवदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् । अयमेव संसारो मायाशबलाच्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापञ्चीकृत
त्वात् , यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि, यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न, तस्मात् परमानन्दरूपो न भवतीति न । नन्वात्मनि धिङ् मामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम् , कुतः परप्रेमास्पदत्वमित्याशा तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैवमिति परिहरतिमा न भूवमिति । हि- यस्मात् कारणादात्मनि विषये मा न भूवम्- अहं मा भूवमिति न, ममासत्त्वं कदापि मा भूत् , किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते- सर्वैरनुभूयते, अतो नासिद्धिरित्यर्थः । तत्प्रेम्णः परमत्वप्रतिपादनपरमिदं पद्यम्
"तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमं तेन परमानन्दताऽऽत्मनः।" [ ] तद्वयाख्यानं यथा- ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः, परत्वे भानाद् विशेषणासिद्धितोरित्याशयाह- तत्प्रेमेति, अन्यत्र- स्वातिरिक्त पुत्रादौ, यत् प्रेम तद् आत्मार्थम् , तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् , एवमात्मनि विद्यमानं प्रेमान्यार्थं न, आत्मनोऽन्यशेषत्वनिमित्तकं न भवति, किन्त्वात्मत्वनिमित्तकमेव, अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् । फलितमाह- तेनेति- तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् ॥
पति-जायादीनां सर्वेषामात्मभोगार्थत्वादात्मन एव परमप्रेमास्पदत्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमाश्रयतिपति-जायादिकं सर्व तत्तद्भोगाय नेच्छति । किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ १॥"
एतद्व्याख्यानं यथा- नन्वात्मनो भोक्तत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असङ्गत्वादात्मन इत्याशक्य तस्याः स्वानुभवसिद्धत्वान्मवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुक्रामति- पतिजायेति- " नवा पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य “आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यन्तन [ ] वाक्यसन्दर्भेण पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते, तत आत्मनो भोक्तत्वप्रसक्तिरित्यर्थः ॥
तेनेति- चैतन्येऽहकारादेः, अङ्कारादौ चैतन्यस्य चाध्यासेनेत्यर्थः। अन्योऽन्याध्यासात् परस्पराध्यासात् । चिदचिद्रन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याध्यासः, आत्मा चित् , अहङ्कारादिकमचित् , तयोप्रन्थिरूपोऽतिकठिनबन्धरूपः, चैतन्येऽहङ्कारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः, सोऽयं भ्रमद्वयात्मकः समूहालम्बनभ्रमवदवश्यमेषितव्य इत्याह- समूहालम्बनेति। अयमेव संसार चिदचिदन्थिरूपो योऽयमध्यासोऽनन्तरमुपदर्शितः स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्चकास्तीत्यपेक्षायामुत्पत्तिक्रममुपदर्शयति-मायाशबलादिति- मायासमन्वितादित्यर्थः । “चिदात्मना" इत्यस्य स्थाने “चिदात्मनो" इति पाठः समुचितः । आकाशादिक्रमेणेति- मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सञ्जातम् , तेजसो जलमुत्पन्नम् , जलात् पृथिवी समुत्पन्नेत्येवं क्रमेणेत्यर्थः । लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वावबोधनाय पञ्चदशीगततत्त्वविवेकप्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्यन्ते
" तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत् पवन-तेजो-ऽम्बु-भुवो भूतानि जज्ञिरे ॥"
क्रमप्राप्त सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह- तमःप्रधानेति- तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कारसिद्धये, तमःप्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोक्काया उपादानकारणभूतायाः सकाशादीश्वराज्ञया-ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वकसर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे- प्रादुर्भूतानि, उत्पन्नानीत्यर्थः ।
“सत्त्वांशः पञ्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्र-त्वगक्षि-रसन-घ्राणाख्यमुपजायते ॥" भूतसृष्टिमभिधाय भौक्तिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह- सत्त्वांशैरिति- तेषां वियदादीनां पञ्चभिः सत्त्वांशःसत्त्वगुणभागैरुपादानभूतैः, श्रोत्र त्वगक्षि-रसन-प्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, एकैकभूतसत्त्वांशादेकैकमिन्द्रियं जायत इत्यर्थः ।

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496