Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 387
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। तच्छ्रवणस्यार्थवादताया आवश्यकत्वात् , फलवत्ता तु तासां सत्त्वशुद्धिद्वारा श्रवणाद्यधिकारोपयोगात् , प्रमातृभेदाङ्गीकारात् तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति, तदेवं व्यवस्थितमेकानेकवा दिनां जीवस्वरूपम् । तत्रान्तःकरणमध्यस्यतेऽहमिति रजवामिव सर्पः केवलस्य तस्य साक्षिभास्यत्वात् , तत्तत्कार्याकारपरिणतस्यैव साक्षिणा भानमित्यहमाकारेण परिणतस्य तस्याभ्यासोऽयमहङ्काराध्यास इति गीयते । अयं च न सोपाधिक उपाधेरभावात् , अहमज्ञ इति स्वहङ्काराज्ञानयोरेकचैतन्याध्यासाद् दग्धृत्वायसोरेकवह्निसम्बन्धादयो दहतीतिवत् । तच्चान्तःकरणं स्मृति-प्रमाण-वृत्तिसङ्कल्पविकल्पा-ऽहंवृत्त्याकारेण परिणतं चित्त-बुद्धि-मनो-ऽहकारशब्दैमुक्तिरेव सर्वजीवमुक्तिरित्येवमक्रमेणैव मुक्त्यङ्गीकारे इत्यर्थः । एकस्यैव फलवत्त्वेऽपीति- येनोपासनेनैकजीवमुक्तिलक्षणसर्वजीवमुक्तिस्तस्यैवोपासनस्य मुक्तिरूपप्रयोजनवत्त्वेऽपीत्यर्थः । इतरेषु मुक्तिफलकोपासनव्यतिरिक्तोपासनेषु । तच्छ्रवणस्य मुक्तिरूपफलवत्त्वश्रवणस्य । यदि चान्योपासनवचनानामर्थवादमात्ररूपत्वेन न फलवत्त्वं तर्हि निष्प्रयोजनानां तेषामाचरणं प्रेक्षावद्भिरकर्तव्यपद्धतिमापद्यत इत्यत आह- फलवत्ता विति, तासाम् अन्योपासनानाम् , अन्योपासनाभिरन्तःकरण. शुद्या तदनुष्ठाता मुमुक्षुः पुरुषः श्रवणाद्यधिकारी भवति, ततश्च स मुक्तो भवतीत्येवमन्योपासनानां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् फलवत्तेत्यर्थः । ननु जीवस्यैकत्वे तत्तदुपासनानन्तरमपि भवे पुनरावर्तनमस्त्येव, एकस्य जीवस्य जीवसमष्टयभिमानिनो मुक्तौ सत्यामशेषजीवानां पुनर्भवानवतारो नान्यथेति तत्तदुपासनानन्तरं भवानावृत्तिश्रवणं कथं सङ्गतमित्यत आह-प्रमातृभेदाङ्गीकारादिति- जीवस्यैकत्वेऽपि तत्तदन्तःकरणस्याज्ञानजस्यानन्तशक्त्याकलिताज्ञानशक्तिभेदात् तत्तवृत्त्यवच्छिन्नचैतन्यलक्षणप्रमातुदस्य स्वीकाराद् विभिन्नस्य तत्तदुपासनकर्तुः प्रमातुस्तत्तत्फलोपभोगोत्तरं पुनरनावृत्त्या भवानावृत्तिश्रवणं सुसङ्गतमित्यर्थः। वा अथवा। तत्तदुपासनाफलप्रतिपादिका श्रुतिः “इमं मानवमावर्त नावर्तते" [छान्दोग्योपनिषद्, ४. १५. ६ ] इत्येवंरूपा, तत्र मानवमावर्तमित्यस्य इममिति विशेषणात् इममिति विशेषणो. पादानात् एतत्कल्पावच्छेदेन यस्मिन् कल्पे यस्य हिरण्यगर्भाधुपासनं तत्कल्पावच्छेदेन तस्य मानवभवानावृत्त्या भवानावृत्तिश्रवणमुपपन्नं भविष्यतीत्यर्थः, ब्रह्मणो दिवसस्य यावान् समयः स एक कल्पतयोच्यते, ब्रह्मदिनं क्रमिकोत्पन्नचतुदशमन्ववस्थानसमयो भवति, एकैकस्य मनोर्दिव्यैकसप्ततियुगावस्थानम्, “मन्वन्तरं तु दिव्यानामेकसप्ततिः" [ ] इति वचनात् , कृतयुगादिचतुष्टयं दिव्ययुगमेकमुच्यते, दिव्यं युगसहस्रं तु ब्रह्मणो दिनमिति वचनाच दिव्ययुगसहस्नप्रमाणं ब्रह्मणो दिनं तत्प्रमाणकश्चैककल्पस्तदवच्छेदेन तत्कल्पाधिकरणकहिरण्यगर्भायुपासनकर्तृणां भवानावृत्तिः, न पुनः सर्वथा भवानावृत्तिरिति भावः । उपसंहरति-तदेवमिति । तत्र निरुक्तस्वरूपे जीवे । अन्तःकरणमितिअहमित्येवंरूपेणान्तःकरणमध्यस्यते इत्यर्थः । उक्काध्यासे निदर्शनमाह-रज्ज्वामिवेति- रज्ज्वां यथा सर्पोऽयमित्येवं सध्यासस्तथेत्यर्थः । अहमाकारणान्तःकरणस्य जीवे किमर्थमध्यास इष्यत इत्यपेक्षायामाह- केवलस्येति- अहमाद्याकारेणापरिणतस्येत्यर्थः । तस्य अन्तःकरणस्य । “साक्षिभास्यत्वात्" इत्यस्य स्थाने “ साक्ष्यभास्यत्वात्" इति पाठो युक्तः । 'अहं सुखी, अहं दुःखी, अहं यते' इत्येवमन्तःकरणं प्रतीयते न तु केवलमिति केवलस्य तस्य साक्षिणाप्य. भानादहमित्येवंरूपेण जीवे तस्याध्यासस्तद्भानान्यथानुपपत्त्या कल्प्यते इत्यर्थः । अमुमेवार्थ स्पष्टयितुमाह- तत्तत्कार्येतितत्तत्कार्याकारपरिणतस्यैवेत्यनन्तरं तस्येति दृश्यम् , एवकारेण तत्तत्कार्याकारेणापरिणतस्य तस्य व्यवच्छेदः, तस्येत्यस्यान्त:करणस्येत्यर्थः । जीवेऽहमित्याकारेण योऽन्तःकरणस्याध्यासलक्षणोऽहङ्कारः स उपाधेरभावान्न सोपाधिक. किन्तु निरुपाधिक एवायमित्याह-अयं चेति। अन्तःकरणस्य जीवेऽहमित्याकारेणाध्यासतोऽहङ्कारस्वरूपनिष्पत्तिस्तस्याङ्कारस्थाज्ञानस्य चैकचैतन्ये. ऽध्यासादहमज्ञ इति प्रतीतिरुपपद्यत इत्याह- अहमज्ञ इति स्विति । उभयोरेकस्य सम्बन्धात् कार्यान्तरं भवतीत्यत्र दृष्टान्तमाहदग्धृत्वेति । एकस्यवान्तःकरणस्य चित्तबुद्धिमनोऽहङ्कारशब्देन व्यवहियमाणत्वं कार्यभेदादुपदर्शयति- तच्चान्तःकरणमिति । स्मृतीति-स्मृत्याख्यवृत्तिरूपेण परिण मन्तःकरणं चित्तमिति व्यवहियते, प्रत्यक्षानुमानादिप्रमाणवृत्तिरूपेण परिणतमन्तःकरणं बुद्धिरित्यभिधीयते, सङ्कल्पविकल्पादिवृत्तिरूपेण परिणतमन्तःकरणं मन इति गीयते, अहमाकारवृत्तिरूपेण परिणतमन्तःकरणमहार इत्येवं व्यपदिश्यते, अन्तःकरणस्य निरुकचतुष्टयरूपत्वं संवदतीदं वचनम्-मनो बुद्धिरहङ्कारश्चित्तं करणमिष्यते

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496