Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः ।
३११
चैतन्यमीश्वरः, अज्ञानोपहितं च जीव इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य इममेव दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एवेश्वरज्ञानवशादुपादानं निमित्तं च, दृश्यं च सर्व प्रातीतिकम् , जडात्मकमायालक्षणाज्ञानोपहितचैतन्यस्वरूपत्वेऽपीश्वरस्य शुद्धचैतन्यधर्मः स्वयंप्रकाशत्वाऽपरिच्छिन्नत्वादिको निर्बाधमुपतिष्ठत इति जीवादयं विशिष्ट इति । अज्ञानप्रतिबिम्बितमिति- अज्ञानलक्षणमायाप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इति स मायाधर्मेर्जडत्वाक्षिभिः संसृज्यत इति । जीवेश्वरविभागे प्रकारान्तरमुपदर्शयति- अज्ञानानुपहितमिति- यद्यपि एतन्मते एकमुक्ती सर्वमुक्तिरिति अज्ञानविगमे अज्ञानानुपहितं शुद्धचैतन्यमवतिष्ठते, तदानीमीश्वरावस्थानं भवितुमर्हति, तथापि अज्ञानसद्भावकाल एव जीवेश्वरविभागो विचारमारोहति, तदानीमेवाज्ञानानुपहितत्वविशिष्टं भवदेव शुद्धचैतन्यमीश्वरः, अज्ञानविगमे त्वेकस्यैव शुद्धचैतन्यस्य भावात् तस्य विभागाभावात् तदनीं सदपि शुद्धचैतन्यमज्ञानाभावादेव तदुपहितं तदनुपहितं वेति भक्तव्यकोटि नाटीकत इति नेश्वरोऽपि तदानीमित्यभिसन्धिः। अज्ञानोपहितं चेति- चकाराच्छुद्धचैतन्यमनुकृष्यते, अज्ञानोपहितत्वे न शुद्धचेतन्यत्वमिति न तस्यानुकर्षः, चैतन्यमानं तु न पूर्वोपात्तमिति कथं तस्याप्यनुकर्ष इति न प्रेरणीयम् , यतः पूर्वप्रकारे बिम्बत्वं प्रतिबिम्बत्वं वा यचैतन्यस्य विशेषणतया विवक्षितं तद्रहितत्वमेवात्र शुद्धपदेन विवक्षितम् , पूर्वपक्षे बिम्बप्रतिबिम्बभावकल्पना समस्ति, न चास्मिन् कल्पे सेति पूर्वकल्पादत्र लाघवम् । " इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य" इत्यस्य स्थाने " इति च मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः" इति पाठो युक्तः, उक्तस्वरूप एवैकजीववादनामकः प्रधानो वेदान्त इति तदर्थः । इममेव उक्त स्वरूपवादमेव । दृष्टिसृष्टिवाद येव यदैव वस्तूनां दृष्टिदर्शनं यस्य जीवस्य तदेव तद् वस्तु सत्त्वमनुमति दर्शनाभावकाले नास्त्येव किञ्चिदिति प्रतिपादको वादो दृष्टिसृष्टिवादस्तम् । आचक्षते वेदान्तसिद्धान्तरहस्याभिज्ञाः कथयन्ति । एतद्वादोपपादनं मधुसूदनसरस्वतिनाऽद्वैतसिद्धावित्थं कृतम्
"शुक्तिरूप्य-खप्नादिवद् दृष्टिसृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः, अथ केयं दृष्टिसष्टिः ? दृष्टिरेव सृष्टिरिति वा १, दृष्टिव्यतिरिक्तसृष्ट्यभावो वा २, दृष्टिव्यतिरेकेण सृज्याभावो वा ३, दृष्टिसामग्रीजन्यत्वं वा ४, दृष्टिसमानकालीनसृष्टि ५, दृष्टिसमानसत्ताकसृष्टि ६, सदसद्विलक्षणत्वं वा ७, त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा ८, अज्ञातसत्त्वाभावो वा ९, ज्ञातैकसत्त्वं वा १०, आये- वृत्तिरूपा, चैतन्यरूपा वा दृष्टिरभिमता, प्रथम चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः, द्वितीये सर्वदाऽपि सृष्ट्यापत्तिः, न द्वितीयः- चैत्रेण सृष्टो मया दृष्ट इति लक्षण्येन व्यवहारानुपपत्तेः, न तृतीयः- ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात्, न चतुर्थ:- एकसामग्रीप्रसूतत्वेन घटादेदृष्ट्यभिन्नत्वेनानन्तरोक्तदोषात् , न पञ्चमः- शान्दादिज्ञानसमानकालोत्पन्नघटादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च, न षष्ठः- उभयसत्त्वेऽ. प्युपपत्तेः सिद्धसाधनात, न सप्तमः- अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः, नाष्टमः- त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसष्टिपक्षे तद्वति जगति तद्वहिर्भावानुपपत्तेः, न नवमः- तुच्छसाधारण्यात्, न दशमः- सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरापत्तश्चेति चेत् ? न-दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्वा. भावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा दृष्ट्यन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् , तथा च न सुखाद्यंशे सिद्धसाधनं तद्वदन्यत्रार्थान्तरं वा। ननु " जीव ईशो विशुद्धा चित् तथा जीवेशयोभिदा। अविद्या तच्चितोयोगः षडस्माकमनादयः॥१॥" [
] इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यविवरणादिप्रन्थेन च विरोध इति चेत् ?- अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च, तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्ते करविरोधः, प्रत्युताकरेषु दृष्टिसृष्टिरुपपादितैव । नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेः, ब्रह्मसाक्षात्कारार्थ श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुकेति चेत् ? न-स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तेः; न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वाप्रवाक्य-तन्मीमांसातुल्यतापत्तिः, विषयबाधाबाधाभ्यां विरोधोपपत्तेः, अत एव- तृप्त्यर्थ भोजने परप्रत्यायनार्थ शब्दादौ प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम्, स्वाप्नव्यवहारवदुपपत्तेः। अथैवं घटादेः स्वज्ञानात् पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् इदं रजतमिति ज्ञानात् प्रागसत्त्वेन संप्र

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496