Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३०६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
सम्भवात्, न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाज्ञानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडतादात्म्यापत्त्या; न चाज्ञानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. ऽनाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहङ्काराध्यासो युज्यते । न चाभासे प्रमाणाभावः,
न्तराभासात्, एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाज्ञानेऽपि
जा लामाला आदश
TOE TE
तद्रूपेणाहकारेण समं सादृश्यस्य सम्भवेन तद्बलाच्चैतन्ये निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह- आभासतादास्यापत्त्या चेति-अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्वेन सादृश्यापने चैतन्येऽहङ्कारतादात्म्यारोपलक्षणाहकाराध्याससम्भवादित्यर्थः। नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यं निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्मवत्त्वं वाच्यमित्यनवस्थापत्तिरपरिहार्येत्याशय प्रतिक्षिपति-न चेति । आमासाध्यासेऽपि अनादिभूताज्ञाने चैतन्यामासाध्यासेऽपि । तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् । अनवस्थापत्तिः अवतरणोपदर्शित. प्रकारेणानवस्था प्रसभ्यत इति । निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात् , अनादेर्न किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः । अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये वाह-जन्याध्यास पवेति- एवकारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः । नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मणेत्येतावताऽपि जडत्वेनाहङ्कारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहङ्काराध्यासो निरूपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाद्यज्ञाने चैतन्यस्याभासः कल्पनीय इति अनादिभूताज्ञाने चैतन्याभासस्यैवाभावान्न चेतन्याभासतादात्म्यापन्नं चैतन्यं जीव इत्याशङ्का प्रतिक्षिपति-न चेति- अस्य सुवचेत्यनेनान्वयः । निषेधे हेतुमाह-जाड्येनेति। हि यतः, सादृश्यम् अहङ्कारेण समं चैतन्यस्य सादृश्यम् । जाड्येन जाड्यात्मकधर्मेण । वाच्यं वक्तव्यम् । तच जाज्यं च। जड़तादाम्यापत्या जडेन केनचित् सह तादात्म्यं कस्यच्चिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् । ननु तदर्थमेवाज्ञानाध्यास: स्वीक्रियते, चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत आह-न चेति- अस्या 'अध्यस्तम्' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्येनाध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहङ्कारसादृश्यं तस्याहङ्काराध्यासप्रयोजकं भवेन चैवमित्याशयः। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ! तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वतवादो व्याहन्येतेत्याशयेन पृच्छति-किन्त्विति । उत्तरयति- अहमक्ष इतीति- अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तत्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहकाराध्यासप्रयोजकमहङ्कारसादृश्यं चैतन्ये घटत इत्यर्थः । अतोऽस्माद्धेतोः । अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादिर्यश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः । जाड्यापत्त्या चैतन्ये जाड्यापत्त्या । सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहङ्कारस्य सादृश्ये सति । अहङ्काराध्यासो युज्यते चैतन्येऽहङ्काराध्यासो घटत इत्यर्थः । अनादिभूताज्ञाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति । आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तदृष्टान्तेनाज्ञानेऽपि यच्चैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह- आदर्श मुखमितीति-- प्रीवास्थं यन्मुखं तस्य प्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुखं सष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्वापेक्षयाऽव्यापकेऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः । नन्वादर्श मुखान्तरं तथादर्शनात् क्लप्तं न त्वज्ञाने चैतन्याभास इत्यत आह-एकत्रेति- एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496