Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३०८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
स्यापरोक्षत्वापत्तेः, मुखं त्वधिष्ठानपरोक्षमिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः । न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात् , आसत्तेविंशदावभासप्रतिबन्धकत्वेऽपि तत्रादर्श सन्निधानस्योत्तेजकत्वेन दोषाभावात् । आदर्शादिनाऽभिहतचक्षुषो मुखाभिमुख विजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् । ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि
इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदनः प्रत्यक्षवेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात् , रजताकारवृत्त्यवच्छिन्न चतन्य-रजतावच्छिन्न चैतन्ययोर्मेदात् , रजतस्य च प्रमातृसत्तातिरिक्तसत्ताकत्वादित्यर्थः । आदर्श मुखान्तरोत्पादानभ्युपगमेऽपि मुखं त्वधिधानमिन्द्रिय सन्निकर्षादपरोक्षमिति तद्गतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्षमित्यादर्शे मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्याह- मुखं विति- " मुखं त्वधिष्ठानपरोक्षं" इत्यस्य स्थाने "मुख त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः । अत एव इन्द्रियसन्निकर्षान्मुखस्यापरोक्षत्वादेव । मुखस्येन्द्रियासनिकृष्टस्वाशङ्का प्रतिक्षिपति- न चेति । तत्र हेतुमुपदर्शयति- कतिपयेति । तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् । नन्वादर्श सन्निधानस्थले स्वमुखस्येन्द्रिय सन्निकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रिय सन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्श सम्मुखस्थेऽप्यत्यन्तासत्तिीवास्थमुखे इन्द्रियस्य समस्त्येवेति न तस्य विशदप्रत्यक्षं किन्त्वादशस्थमुखान्तरस्यैवेत्यादर्शे मुखान्तरस्थोत्पत्तिरवश्यमभ्युपेयेत्यत आह- आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः । अविशदप्रत्यक्षं मुखस्येन्द्रियात्यन्तसन्निहितस्यादर्शसन्निधानकालेऽपि भवत्येवे यत उक्तम्-विशदेति । तत्र विशदावभासिप्रत्यक्षं प्रति अत्यन्तेन्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिवध्यप्रतिबन्धकभावे । उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम् , प्रकृते विशदावभासिप्रत्यक्षं प्रति आदर्शसन्निधानाभावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकोभूताभाषप्रतियोगित्वेनादर्शसन्निधानस्योतेजकत्वमिति आदर्शसन्निधान काले निरुक्तपतिबन्धकस्यासत्त्वेनेन्द्रियात्यन्तसन्निहितस्यापि मुखत्य विशदावभासिप्रत्यक्षसम्भवादित्यर्थः । चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यासन्ता. सतिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वनावयवसंयोगनिबन्धन संयोगेनैव, यथाऽग्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वागावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसंयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति । तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्यादर्शस्थत्वस्य चानिर्वचन यस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यैवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तस्कल्पने गौरवे वा मुखत्य संसर्गोत्पत्तिरेवास्तु, ततोऽप्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तसंसर्गोत्पत्तिा न भवेन्न चैवमिति मुखाभावाज्ञानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते- नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः । तत्र च आदर्शे च । तत्संसर्गेतिमुखसंसर्गेत्यर्थः । एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्तेर्वा भावेनापि । मुखोत्पत्तिमुखसंसर्गोत्पत्त्योर्यद् विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखनेवादशै मुखभिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्षं प्रति कारणत्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम् - मुखं यद्यपरोक्षमिति । अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादशस्थमतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी, यद्बलादादर्शाधिकरणकत्वेन मुखस्यादर्श मुखमिति प्रतीतावभासनभित्याशयेनाह- तर्हि तत्संसर्गस्थेति- अस्य स्वीकर्तव्यत्वादियनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमु संपर्ग एव आदर्शऽत्रभासत इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षत्वानुरोधेन स्वीकर्तव्यत्वादित्यर्थः । यदि च नापरोक्षमिति- अग्रावयवावच्छिन्न चक्षुःसंयोगस्यैव विशदप्रत्यक्ष प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्न वक्षुस्संयोगस्याभावात् तदपरोक्षं न भवति यदीत्यर्थः। तीति- आदर्श

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496