Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३०३ जीवान्तरयामित्वानुपपत्तेः । कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वाज्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् । एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसगृहीतं तात्पर्यतोऽभेदात् ।
अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम् , तदेवेश्वरोपाधिः, तच्च व्यापकमिति तदुपहितेश्वरस्यापि व्याप. कत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषित.
Ansin
चैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-अज्ञानप्रतिबिम्बितमित्यत्रेति-घटकत्वं त्रत्प्रत्ययार्थः, तथा चाज्ञानप्रतिबिम्बितमित्यस्याविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिबिम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिबिम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः । वेदान्ते यच्चैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति । "ईश्वरश्रवियं तु शुद्धमिति" इत्यस्य स्थाने " ईश्वर इति च, ब्रह्म तु शुद्धमिति" इति पाठः सम्यग, तथा च स च निरुक्तस्वरूपः साक्षी पुनः । उक्तशक्तिद्वयप्रतिबिम्बितः आवरण-विक्षेपशक्तिद्वयप्रतिबिम्बितः सन् जीव इति जीवसाक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरङ्गप्रतिबिम्बितत्वस्यापि दर्शनात् , एतावांस्तत्र विशेषः- जीवे ईश्वरे च शक्तिप्रतिबिम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुकोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्ध चैतन्यमित्यर्थः। एते नेत्यस्योपसङग्रहीतमित्यनेनान्वयः। बुद्धिपतिबिम्बितम् अन्तःकरणप्रतिबिम्बितम् । कथमुपसङ्गहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात उक्तमतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः । अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं निरूक्तशक्तिपरम्, बुद्धिप्रति. बिम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति ।
वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अज्ञानावच्छिन्नमिति । तदभिप्रायमुद्घाटयति-तेषामिति- वाचस्पतिमिश्राणामित्यर्थः । वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्वयः, परमार्थतश्चैतन्यमेकमेव, चैतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीयं जडं च नास्तीति सजातीय-विजातीयभेदशून्यमित्यर्थः। अनादिसिद्धेति- अनादिसिद्धं न केनचित् कदाचित् कुत्र. चिदुत्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाध्यमानत्वात् , नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्त्वकिञ्चिदधिष्ठानकप्रतीत्यविषयत्वलक्षणासत्त्वाभावोभयवत्त्वलक्षणानिननीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तजीव इत्यर्थः, “अज्ञानं चेश्वरः" इत्यस्य स्थाने " अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः । इति एवम् , द्वैविध्यं द्विविधत्वं, प्रतिपद्यते भजति । अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमित्यपेक्षयामाह- अज्ञातत्वमज्ञानविषयत्वमिति । तदेव अज्ञातत्वमेव विषयतयाऽज्ञानमेवेति यावत् । तच्च अज्ञानं च । इति उपाधेरज्ञानस्य व्यापकत्वाद्धेतोः। तदुपहितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि । ननु विवरणाचार्यैरवच्छेदवादे यो दोष उपदर्शितस्तद्दोषदुष्टत्वेनेदं वाचस्पतिमतं नोपादेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वरयोरुभयोरप्यवच्छिन्न चैतन्यरूपत्वे घटावच्छिन्नाकाशो

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496