Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 373
________________ ३०२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। D काशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्बदर्शनात् ; प्रतिबिम्बस्यापि च चिद्रूपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् । न च घटावच्छिन्नाकाशवदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु, किं प्रतिबिम्बत्वेनेति वाच्यम् , तथा सति जीवभावेनावच्छिन्नस्य पुनरवच्छेदान्तरायोगात्, घटाकाशादी तथादर्शनाद् ब्रह्मणः सर्वनियन्तृत्वानुपपत्तौ " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयति " [ बृहदारण्यकोपनिषद् ३, ७, २२] इति श्रुतिव्याकोपप्रसङ्गात् , प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनाद् द्विगुणीकृत्य वृत्त्युपपत्तेर्जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति न दोषः । अस्मिन् पक्षे बिम्बचैतन्यं नेश्वरः, बिम्बास्यापि प्रतिबिम्बान्तरद्विगुणीकृत्य वृत्त्ययोगेन प्रतिबिम्बात्मकप्रतिबिम्बनं सम्भवत्येवेति । विशालरूपेणेति- एतेन शास्त्रदृष्ट्या भवतु जलापेक्षयाधिकप्रमाणश्चन्द्रस्तथापि लोकदृष्ट्याऽविशालस्यैव तस्याविशालरूपेणैव प्रतिबिम्बनं न तु ब्रह्मण इत्याशङ्काशङ्गुरप्युद्धतः, साधनक्षत्राकाशस्य विशालरूपस्यैव विशालरूपेण प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु भवतूपदर्शितदृष्टान्तबलाद् ब्रह्मणोऽपि प्रतिबिम्बनम् , किन्तु जलाशयगतस्य चन्द्रप्रतिबिम्बस्य न चन्द्रत्वं बिम्बादन्यदेव प्रतिबिम्बमिति बिम्बगतासाधारणधर्मस्य प्रतिबिम्बे न सम्भव इति कथं चिद्रूपब्रह्मप्रतिबिम्बरूपस्य चिद्रूपत्वमित्यत आह-प्रतिबिम्बस्यापीति-जीवश्चैतन्यरूपतया स्वसंवेदनप्रत्यक्षेणानुभूयते, शास्त्रमपि तस्य चैतन्यरूपत्वमनुशास्तीति प्रत्यक्ष शास्त्राभ्यां सिद्ध जीवस्य चैतन्यरूपत्वं नान्यत्रादर्शनमात्रेणापनेयमित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः, यथा योऽप्यस्ति आकाशोऽप्यस्ति, तयोरवच्छेद्यावच्छेदकभावमात्रतो घटावच्छिन्नाकाश इति व्यवहियते तथाऽविद्या-चैतन्ययोरवच्छेद्यावच्छेदकभावमात्रतोऽविद्यावच्छिन्नचैतन्यस्य जीवत्वमस्तु किमतिरिक्तबिम्बप्रतिबिम्बभावकल्पनेनेति शङ्कार्थः । प्रतिक्षेपहेतुमुपदर्शयति- तथा सतीति- अविद्यावच्छिन्नत्वस्यैव जीवत्वस्वरूपस्वे सतीत्यर्थः । जीवभावेन अविद्यावच्छिन्नत्वलक्षणजीवत्वेन । अवच्छिन्नस्य अवच्छेद्यभावं प्राप्तस्य चैतन्यस्य । पुनः अवच्छे. दान्तरायोगात् अन्यावच्छिन्नत्वासम्भवात् , अस्य श्रुतिव्याकोपप्रसङ्गादित्यत्रान्वयः। एकनावच्छिन्नस्यावच्छेदासम्भवे दृष्टान्तमाह-घटाकाशादाविति । तथादर्शनात् अन्यावच्छेदासम्भवस्य दर्शनात्, न हि घटाद्यवच्छिन्नत्वविशिष्टाकाशस्य पटाद्यवच्छिन्नत्वं दृश्यते । अन्यानवच्छेदे यदनिष्टं तदुपदर्शयति- ब्रह्मण इति- जीवभावेनावच्छिन्नस्य ब्रह्मणोऽन्यानवच्छिन्नत्वान्नान्यनियन्तृत्वम् , तत्रस्थस्यैव तन्नियन्तृत्वम् , जीवभावेनावच्छिन्नं तु जीव एव तिष्ठति नान्यत्रेत्यतः सर्वनियन्तृत्वानुपपत्ती सत्याम् , “यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमर्यात" इत्यस्य स्थाने “ यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति पाठो युक्तः । इति एवंस्वरूपेत्यर्थः । प्रतिबिम्बवादे यथा ब्रह्मणः सर्वनियन्तृत्वोपपत्त्योक्तश्रुत्यव्याकोपस्तथा भावयति-प्रतिबिम्बपक्षे त्विति निरवच्छिन्नस्य शुद्धाकाशस्य सर्वव्यापकत्वाजले शुद्धाकाशस्य सत्त्वे सत्येव प्रतिबिम्बाकाशस्य सत्त्वं दृश्यत इति शुद्धभावेन प्रतिविम्बभावेन च द्विगुणीभूयाकाशस्तत्र वर्तते, यत्र ब्रह्मप्रतिबिम्ब जीवो वर्ततेऽविद्यायां तत्रैव जीवावच्छेदेषु सत्सु ब्रह्मणोऽपि शुद्धस्य सर्वब्यापकस्यावस्थितितो नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति सर्वनियन्तृत्वोपपत्त्या निरुक्तश्रुतिव्याकोपो न भवतीत्यर्थः । अस्मिन् पक्षे प्रतिबिम्बपक्षे । कथं बिम्बचैतन्यं नेश्वर इत्यपेक्षायामाह-बिम्बस्यापीति- “प्रतिबिम्बान्तरद्विगुणीकृत्य" इत्यस्य स्थाने "प्रतिबिम्बान्तरे द्विगुणीकृत्य" इति पाठः सम्यग्, 'यो यत्र बिम्बरूपेण तिष्ठति स तत्र प्रतिबिम्बरूपेणापि तिष्ठति' इत्येवं द्विगुणीकृत्य-द्विगुणो भूत्वा, बिम्बस्य प्रतिबिम्बान्तरे- भिन्नप्रतिबिम्बे, वृत्त्ययोगेन वृत्त्यसम्भवेन, "प्रतिविम्बात्मकजीवान्तरयामित्वानुपपत्तेः" इत्यस्य स्थाने "प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः” इति पाठः सम्यग, प्रतिबिम्बात्मकस्य जीवस्यान्तर्यामित्वं बिम्बस्येश्वरस्य न स्यात् । तर्हि किंस्वरूपतयेश्वरस्याभ्युपगमे तस्य जीवान्तर्यामित्वोपपत्तिरित्याकाङ्कायामाह-कार्योपाधिभूतस्येति- कारणोपाधिमूलाऽविद्या, कार्योपाधिस्तूलाविद्येति तूला विद्यारूपस्येत्यर्थः । शकिद्वयस्य विक्षेपशक्तिरावरणशक्तिश्चेत्येवं शक्तिद्वयस्य । व्यापकतया सर्वत्रावस्थितत्वेन । तत्प्रतिबिम्बयोर्जीवेश्वरयोरपीतिअत्र विक्षेपशक्तिरूपकार्योपाधिप्रतिबिम्बमीश्वरः, आवरणशक्तिरूपकार्योपाधिप्रतिबिम्बं जीव इत्येवं शक्तिद्वयप्रतिबिम्बितचैतन्यरूपयोर्जीवेश्वरयोरपीत्यर्थः। जीवान्तर्यामित्वश्रुतेः ईश्वरस्य जोवान्तर्यामित्वप्रतिपादिकायाः “यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति श्रुतेः । न च ज्ञानप्रतिबिम्बितं चैतन्यं जीव इतीदानी परित्यक्तः पक्षः शक्तिप्रतिबिम्बित

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496