Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३००
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तथाहि- एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धाजीवेश्वरभावो न तत्त्वान्तरमस्ति । अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तञ्चैकेनैवोपपत्तावनेककल्पनानवकाशादेकमेवेत्येके । बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलाज्ञानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिश्च, कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन.
तथाहीत्यादिना । बिम्बप्रतिबिम्बमात्र इति-दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमानं मुखं प्रतिबिम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च ग्रीवास्थमेव स्वस्वरूपव्यवस्थितं बिम्बत्वधर्माकान्तम्, दर्पण लक्षणोपाधि. सम्बन्धाभावे च बिम्बप्रतिबिम्बभावानाक्रान्तमेव केवलं मुखमिति यथेत्यर्थः। एवं तथा । उकोपाधिसम्बन्धात् अज्ञानलक्षणोपाधिसम्बन्धात् । न तत्त्वान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेति वस्तुतस्तस्याभावान्न ब्रह्मतत्त्वातिरिकतत्त्वरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्त्वादन्यत् तत्त्वमस्ति । अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ज्ञानविरोधिभावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-अज्ञानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । तदज्ञानमेकमने वेति जिज्ञासायामके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुपदर्शयति- तच्चेति- मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । एकेनैवाशानेन उपपत्ती अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ। अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् । एकमेवेत्यत्र तदित्यस्यान्वयः । इति एवम् । एके आचार्या अभ्युपगच्छन्ति । अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यैकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्धस्तदानीमेवान्यो मुक्त इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेत्यनेकमेवाज्ञानमभ्युपेयमियेवमन्ये वेदान्तिमतानुयायिन आचार्या उररी कुर्वन्तीति तन्मतं दर्शयतिबद्धमुक्तेति । 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्त्यन्ये इत्यन्वयः फलितः। कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति-- मूलाज्ञान एवेत्यर्थः । मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूपयन्तीत्यर्थः। शक्तिद्वयं नाममा दर्शयति-विक्षेपेति-रावणेत्यस्य स्थाने रावरणेति पाठो युक्तः, एवमग्रेऽपि, तथा च अज्ञाने विक्षेपशक्त्या मायाशब्दः प्रवर्तते, आवरणशक्त्या अविद्याशब्दः प्रवर्तते इति । क्रमेण तदुभयखरूपं लक्षयति- कार्येति- अज्ञानं यया शक्त्या - भिनवकार्य जनयति सा कार्यजननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपप्रहणं ज्ञानस्य प्रतिबध्नाति सा तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, आवरणशक्तेरपि असत्त्वापादका-ऽभानापादकशक्तिभ्यां वैविध्यं ग्रन्थान्तरे उपवर्णितम्, तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि ग्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्त्वं गृह्णन्नपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमीग् वस्त्वित्येवं प्रहीतुं न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्त्वापादकावरणशक्तिरज्ञानस्य परोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थंस्त्ररूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षज्ञाने समुत्पन्ने सतीदं वस्त्वित्थमेवेति विशेषतो ग्रहणं भवति, न तदानीं कीदृगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षज्ञानतोऽसत्त्वापादकशक्तेरभिभवान्नाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्षज्ञानतोऽभानापादकशकेरभिभवान्नाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः । निरुक्तशक्तिद्वयमेव दृष्टान्तदान्तिकभावसङ्गमनेन भावयति- यथेति । अवस्थारूपस्य मूलाज्ञानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत् , मूलाज्ञानं शुद्धचैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरूपं तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमावृणोति रज्ज्वादावेव च

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496