Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
२८५
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात् , ततः प्रतिष्ठादिविधिजनितः प्रतिभागतोऽतिशयविशेषः कश्चित् स्थापनानिक्षेपो निरुच्यतामित्याकाङ्क्षायां " सन्ता तित्थयरगुणा" इत्यादिगाथायामेव व्याख्यानान्तरं सूचितं, पक्षानन्तरं परिष्कुर्वन्नाह
यद्वा प्रतिष्ठाविधिना, स्वात्मन्येव परात्मनः ।
स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः ॥ १०२ ॥ नयामृत०-यद्वेति । यद्वा- पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनःपरमगुणवतत्रिभुवनभर्तुः, ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सर्वक्रियाणां तत्फलानां चोद्देश्यसम्बन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनात् , परात्मन इत्युपलक्षणं स्वभावस्य, आहत्य हि प्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते, परम्परया तु तन्मूलपरमात्मानुध्यानविषयवचनाद्यप्रवर्तकत्वसम्बन्धस्मारितः, तच्चप्रवृत्तावपि एवंस्वरूपाशयेन पूजाविधिविंशिकावचने पूजाविधिविकल्पानां प्रवृत्तावपि, किन्तु प्रतिष्ठेति- प्रतिष्ठासामान्य न किञ्चित् करोतीत्यत्र पूजाविधिविकल्पानां तात्पर्याभावादित्यर्थः । अन्यथा पूजाविधिविकल्पानां प्रतिष्ठासामान्यस्याकिञ्चिकरत्वे तात्पर्याभ्युपगमे। प्रतिष्ठति- सूत्रे यः प्रतिष्ठाविधिः- अनेन विधिना जिनप्रतिबिम्बं स्थापयेदित्याकारकस्तस्य वैयर्थं स्यादित्यर्थः । उपसंहरति-तत इति- तस्मात् कारणादित्यर्थः । “प्रतिभागतो" इत्यस्य स्थाने प्रतिमागतो" इति पाठो युक्तः, तथा च प्रतिष्ठादिविधिना प्रतिमायां कश्चिदतिशयविशेष उपजायते, स एव च सफलत्वात् स्थापनानिक्षेप इत्येवं निरुच्यताम्- कल्प्यतामित्याकाङ्क्षायां सत्यामित्यर्थः । " व्याख्यानान्तरं सूचितं, पक्षानन्तरं" इत्यस्य स्थाने "व्याख्यान्तरसूचितं, पक्षान्तरं" इति पाठो युक्तः, व्याख्यानान्तरं च “ यद्वा तेषां गुणानामिदमध्यात्मम्" इत्यादिग्रन्थेनोपदर्शितं प्राक्, पक्षान्तरं प्रतिष्ठाविधिना प्रतिमायां किमपि न भवतीति पक्षाद् विभिन्नः पक्षः-प्रतिष्ठाविधिना प्रतिमायां स्थाप्यगणाध्यारोपो भवतीत्येवंस्वरूपस्तम् ।
विवृणोति- यद्वेतीति । यद्वेत्यस्य पक्षान्तरे इत्यर्थकथनम् । प्रतिष्ठाविधिना सूत्रोक्तप्रतिष्ठाविधिना, प्रतिष्ठाकारयितुरिति पूरणम् । स्वात्मन्येव प्रतिष्ठाकारयितृपुरुषात्मन्येव । परात्मन इत्यस्य विवरणं-परमगुणवतस्त्रिभुवनभर्तुरिति- एतच्च जिनबिम्बप्रतिष्ठामधिकृत्य। 'समापत्तिः स्थापना' इति मूले उक्तम् , तत्र समापत्तिः किंस्वरूपेत्यपेक्षायामाह- ध्यानतारतम्ये चेति- स्वात्मनि परमात्मनो ध्यानं समापत्तिः, ध्यानस्य च तरतमभावो, भवतीति ध्यानतारतम्ये च सतीत्यर्थः, यदि ध्यानमेकरूपमेव स्यात् तदा तदात्मकसमापत्तेरनेकरूपतयोपवर्णनं न सङ्गतमतो ध्यानस्याप्यनेकरूपत्वमित्यावेदनाय 'ध्यानतारतम्ये च' इत्युक्तम् , तात्स्थ्ये ति- प्रतिष्ठाकारयित्रात्मस्थितत्वं परमगुणवतत्रिभुवनभर्तः समापत्तिः स्थापना स्यादित्यर्थः । तदञ्जनत्वेति- प्रतिष्ठाकारयित्रात्मत्वेन परमात्मनो व्यापनत्वेत्यर्थः । ननु प्रतिष्ठाविधान प्रतिबिम्बे क्रियते कथं तत्रत्या स्थापना स्वात्मनीत्यत आह-निश्चयत इति-निश्चयनयत इत्यर्थः । तत्फलानां सर्वक्रियाफलानाम्, उद्देश्यसम्बन्धित्वेनेति- या क्रिया यदुद्देश्येन क्रियते सा क्रिया तत्फलं च तत्सम्बन्धित्वेनैव व्यवहियत इति प्रतिष्टाविधिना स्थापना प्रतिमामुद्दिश्यैव क्रियत इति स्थापनातत्फलयोरुद्देश्यप्रतिमासम्बन्धित्वेन व्यवडियमाणयोरपि निश्चयनयतः स्थापनादिक्रियाकर्तृसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनादिति स्वात्मनि परमात्मनस्तास्थ्यतदजनत्वरूपा समापत्तिरेव स्थापनेत्यर्थः । परमात्मन इति यदुक्तं तत् स्वभावस्याप्युपलक्षणम् , तेन प्रतिष्ठाविधिना प्रतिष्ठाकारयितरि स्वभावः स्थाप्यते इत्याह-परमात्मन इत्युपलक्षणं स्वभावस्येति । अत्र हेतुमाह-आहत्य हीति। हि यतः, आहत्य साक्षादेव, प्रतिष्ठया प्रतिष्ठाविधिना, कारयितरि प्रतिष्ठाकारयितरि, स्वभाव एव परमात्मनः स्वभाव एव । ननु परमात्मनः स्वभावो यदि स्मृतिपथमुपगच्छेत् तदा तत्स्थापनं न्याय्यं स्यादित्यत आह-परम्परया वितिप्रतिष्ठामूलं यत् परमात्मानुध्यानविषयवचनं तस्य यत् तीर्थकरे आद्यप्रवर्तकत्वं तद्रूपो यः प्रतिमया समं तीर्थकरस्वभावस्य

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496