Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 360
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पाषाणत्वादिना भेदप्रत्यक्षे सति स्वरसतो नोदयतीत्याहार्य एव सम्पादनीयः, आहार्यत्वं चेच्छाजन्यत्वम्, इच्छा चेष्टसाधनताज्ञानसाध्ये तीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिः कल्पनीयः । तथा चाहार्य भगवदध्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्वप्रयोजकेच्छा जनकज्ञानजनक विशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व - मित्युक्तं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्त्या लक्षणादिना वा प्रतिष्ठाप्रयुक्तातत्र काष्ठत्व - पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते सति च तस्मिन् प्रतिमायां भगवदभेदज्ञानमनाहार्यरूपं न सम्भवति, अनाहार्य तद्भेदज्ञानस्यानाहार्यतदभेदज्ञानं समानधर्मिकं प्रति प्रतिबन्धकत्वादतो बाधकाले आहार्यज्ञानमेव सम्पादयितुं शक्यमित्याह - काष्ठ-पाषाणत्वादिनेति । स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः । नोदयति नोत्पद्यते, अत्रापि स चेत्यस्यान्त्रयः । आहार्यत्वं किमित्यपेक्षायामाह - आहार्यत्वं चेच्छाजन्यत्वमितिसमानविषयक प्रत्यक्षाऽनुमितिसामग्र्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न त्वनुमितिरिति समानविषयकानुमितिं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका एवं भिन्नविषयकानुमितिप्रत्यक्षसामग्योः सत्योर्भिन्नविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्षं प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकानुमितिसामग्रीतः समानविषय कानुमितिरुपजायत इति तां प्रतीच्छा कारणम्, एवं विभिन्नविषयकानुमितिसामग्रीसत्त्वेऽपि विभिन्नविषयक प्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्ष सामग्रीतो विभिन्नविषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम्, तथा च तादृशानुमितिप्रत्यक्षयोरिच्छाजन्यत्वेऽपि नाऽऽहार्यत्वमतो नेच्छाजन्यत्वमात्रमाहार्यत्वम्, किन्तु बाघकालीनेच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि खविरोधिधर्मितावच्छेदककस्वप्रकारकज्ञानमाहार्यमितीच्छाजन्यत्वाघटितमप्याहार्यलक्षणं सम्भवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् । इच्छा चेष्टसाधनताज्ञानसाध्येति- इच्छा द्विविधा - फलेच्छा उपायेच्छा चेति, तत्र फलेच्छां प्रति फलज्ञानं कारणम्, उपायेच्छां प्रति चेष्टसाधनताज्ञानं कारणम्, प्रतिमायां भगवदभेदाध्यारोपात्मकज्ञानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखाभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् किन्तु सुख-दुःखाभावान्यतरात्मक फलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताज्ञानसाध्ये - त्यर्थः । इति एतस्माद्धेतोः । इष्टसाधनताज्ञानसम्पादनाय प्रतिमायां भगवदभेदारोपे इष्टसाधनताज्ञानसम्पादनाय, प्रतिमायां भगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तये इति यावत् । इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादृशविधिवाक्यं प्रतिमायां भगवदभेदाध्यारोपस्येष्टसाधनत्वं बोधयितुं समर्थं तादृशं विधिवाक्यं कल्पनीयमित्याशयेन कल्पनीयविधिस्वरूपमुल्लिखति- प्रतिष्ठितां प्रतिमामिति । तथा च निरुक्तविधिकल्पनया प्रतिष्ठितप्रतिमागतभगवदभेदाध्यारोपस्येष्टसाधनत्वबोधने तत्प्रभवेच्छाजन्यत्वेन निरुक्ताभेदारोपस्याहार्यत्वव्यवस्थितौ च । आहार्येतिआहार्यो यो भगवतोऽभेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनत्वादिनेत्यर्थः, आदिपदात् तद्दर्शनत्व-तद्वन्दत्वादीनामुपग्रहः । फलविशेषहेतुत्वे फलविशेषं प्रति निरुक्तप्रतिमापूजनादीनां कारणत्वे सति । आहार्यत्वेति- प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्य यदाहार्यत्वं तत्प्रयोजिका येच्छा प्रतिष्ठित प्रतिमायां भगवदभेदाध्यारोपो जायतामित्याकारिका, तज्जनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकम्, तज्जनकं प्रतिष्ठित प्रतिमा विशेष्यकभगवदभेदप्रकारकज्ञानम्, तन्निरूपितविशेष्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तदवच्छेदककुक्षौ - तदवच्छेदकशरीरे प्रविष्टत्वेने - त्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफलं प्रति प्रयोजकत्वम् । यदपि प्रतिष्ठितं पूजयेदिति विधिः कल्पितश्चिन्तामणिकुद्भिस्तत्राप्युक्तदिशैव फलहेतुतेत्याह- प्रतिष्ठितं पूजयेदित्यत्रापीति । कप्रत्ययस्य प्रतिष्ठितमित्येतदुद्घटक क्तप्रत्ययस्य, खण्डशः शक्त्या प्रयुक्ते आहार्ये आरोपविषये च तप्रत्ययस्य पृथगेव शक्तिस्तथा, वा अथवा, लक्षणादिना प्रयुक्तहार्यारोपविषये कप्रत्ययस्य लक्षणादिना । प्रतिष्ठेति - सूत्रबोधितसविधिप्रतिष्ठया प्रयुक्तो जनितो यः प्रतिमायां भगवतो - Sमेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजनत्वादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्वादिनैवेत्येवकारेण प्रतिष्ठाकालीन यावदस्पृश्य ३७ २८९

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496