Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः।
२८३
तच्चायुक्तम्- लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव तद्धेतुत्वौचित्यालक्षणगौरवापेक्षया कार्यकारणभावगौरवस्य च महादोषत्वात् , किश्च स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहारादिना शुद्धताप्रतिसन्धानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः सङ्गच्छते ?, न च तत्र निरवद्यकर्मयुक्ततया अगृहीतासंसर्गकगुणसङ्कल्पेन पृथगेव निर्जराहेतुत्वाददोषः, तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धहेतुताया एव युक्तत्वात् प्रतिमावन्दनादुभयाभावापत्तेः, न च सत्त्वशुद्धिविधया कारणतायामयमेव प्रकारः, अव
वद्विशेष्यकत्वमेव निरवद्यक भाववद्विशेष्यकत्वापेक्षया लघुभूतं प्रागुपदर्शितमिति तदनुसारेण सावद्यकर्माभाववद्विशेष्यकत्वेन गुणसङ्कल्पस्य निर्जराहेतुत्वमेव युक्तम् , अन्यथा निरवद्यक भाववद्विशेष्यकत्वं गुरुभूतं विपर्यासलक्षणमापद्यतेत्यत आह-लक्षणगौरवापेक्षयेति- तथा च लक्षणगौरवमेव सह्यं न तु कार्यकारणभावगौरवमिति कार्यकारणभावलाघवानुरोधेन गुरुभूतं विपर्यासलक्षणमेवादरणीयमित्याशयः । सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन हेतुत्वं प्रकारान्तरेण दूषयतिकिश्चेति । स्थापनास्थलीयभावे स्थापनास्थलीयमनःसंकल्पविशेषलक्षणभावे । जातीति- जात्युपाध्यन्यतरकृतो यो विशेषस्तद्भिनविशेषस्याभावे सतीत्यर्थः । यथोक्तरूपेणैव हेतुत्वे सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन रूपेणैव भावस्य कर्मनिर्जराहेतुत्वेऽभ्युपगम्यमाने । मायाच्छादितदोषे मायया कपटेनाच्छादितोऽदर्शनतां नीतः स्वगतो दोषो येन स मायाच्छादितदोषस्तस्मिन् , इदं च साधावित्यस्य विशेषणम् । आलयविहारादिना सूत्रबोधितालयावस्थान-समयोचितविहाराद्याचरणेन । शुद्धताप्रतिसन्धानदशायां शुद्धोऽयं साधुरिति वन्दनकर्तृप्रतिसन्धानकाले । वन्द्यमाने साधी वन्दनकर्तुर्या निर्जरोत्पत्तिः सा कथं सङ्गच्छते? काक्का न कथञ्चित् सजता स्यात् , यतस्तत्र गुणसङ्कल्पलक्षणभावस्य सावद्यक भाववद्विशेष्यकगुणसङ्कल्पत्वलक्षणनिर्जराकारणतावच्छेदकधर्माकान्तत्वं नास्तीति । ननु मायाच्छादितदोषे साधौ गुणसङ्कल्पविशेषलक्षणभावस्य न सावधकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन निर्जराहेतुत्वं, किन्तु निरवद्यकर्मयुक्ततयाऽगृहोतासंसर्गगुणसङ्कल्पत्वेन, एवं च मायाच्छदितदोषे साधौ निरवद्यकर्मयुक्ततयाऽसंसर्गस्तथापि स न गृहीत इति निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वस्य तत्र भावात् तेन रूपेण निर्जरां प्रति कारणत्वसम्भवेन ततो निर्जरोत्पत्तिः सङ्गच्छत एवेत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र मायाच्छादितदोषे साधौ, भावस्येति शेषः 'सङ्कल्पेनेति स्थाने 'सङ्कल्पत्वेने ति पाठो युक्तः । निषेधे हेतुमाह-तथा सतीति तत्र निरवद्यकर्मयुक्त तयाऽगृहीताऽसंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति हेतुत्वे सतीत्यर्थः । तुल्यन्यायतयेति- निरवद्यकर्मयुक्त एव साधौ केनचित् स्वोत्प्रेक्षितकारणादिनाऽशुद्धताभ्रमे सत्यपि लोकानुवृत्तिमात्रेण वन्द्यमाने खीयश्रद्धाप्राबल्याद् बन्धोत्पत्तिरेव भवति न निर्जरोत्पत्तिः, तत्र भावस्य सावद्यकर्मवद्विशेष्यकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वे बन्धोत्पत्तिर्न स्यात् , तस्य साधोः सावद्यकर्मवत्त्वाभावात् , अतः सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेनैव बन्धं प्रति हेतुत्वं वाच्यम्, तथा हेतुतायां च निरुतसाधौ गुणसङ्कल्पस्य सावद्यकर्मयुक्तत्वेनाऽगृहीतासंसर्गकगुणसङ्कल्पत्वलक्षणबन्धकारणतावच्छेदकधर्माकान्तत्वाद् भवति ततो बन्धोत्पत्तिः, एवं च जिनप्रतिमायां न सावद्यं कर्म नवा निरवयं कर्मेति कर्मद्वयाभावे तत्र भावस्य गुणसङ्कल्पविशेषरूपस्य न निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वम् , यतस्तत्र निरवद्यकर्मयुक्तताया अभावेन निरवद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति निर्जराकारणतावच्छेदकनिरुक्तधर्मानाक्रान्तात् तस्मान्न निर्जरोत्पत्तिः, एवं तत्र भावस्योक्तस्वरूपस्य न सावद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसकल्पत्वम्, यतस्तत्र सावद्यकर्मयुक्तताया अभावेन सावद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति बन्धकारणतावच्छेदकनिरुक्तधर्मानाकान्तात् तस्मान्न बन्धोत्पत्तिरित्येवं प्रतिमावन्दनादुभयाभावापत्तेरित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः। अयमेव प्रकारः निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति कारणत्वम् , सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वमित्येव कार्यकारणभावकल्पनप्रकारः। अवश्चकयोगविधया अवञ्चक:- वञ्चकत्वविकलो यो योगस्तद्विधया- तत्प्रकारेण, अवञ्चकयोगश्च त्रिविधः, तद्यथासद्योगवश्चकः क्रियावश्चकः, फलावश्वकश्च, तत्स्वरूपं चेदम्-" सद्भिः कल्याणसम्पन्नदर्शनादपि पावनैः । तथा दर्शनतो योग

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496