Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 352
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २८१ तीर्थकरे-अर्हतीति, इयं च प्रतिमा, तेषां- नमस्कुर्वताम् , इदमध्यात्म- समापत्त्यादिफलकानुभूयमान. तीर्थकरगुणस्मृत्यालम्बनम् , यद्वा तेषां-गुणानाम्, इदम् , अध्यात्मम् , अध्यारोपविषयः, तटस्थेन स्मृतौ योग(ग्य )जीवानुसमापत्त्यसिद्धेः । न च तासु प्रतिमासु सावद्या-सपापा क्रिया, इतरेषु- पार्श्वस्थादिषु ध्रुवा, सेति योज्यते, ततः समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् ध्रुवेति योगः, ‘एवं सति प्रतिमायामुभयक्रियाभावप्रसञ्जितोभयफलाभावस्तदालम्बनकस्थाप्यगुणसङ्कल्परूपमनःशुद्धेबलवत्तयैव निराक्रिय. माणः पार्श्वस्थादिवन्दनेऽपि मनःशुद्धेबलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ?' इत्याशङ्काशेषः ' उभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वा उत्कृष्टगुणाध्यारोपशुभसङ्कल्प. तीर्थकरगुणा इत्यस्य तीर्थकरत्वेन प्रतीयमानस्य गुणा इति विवरणम् । तीर्थकरे इत्यस्य विवरणम्- अहंतीति । इयं च प्रतिमेति प्रक्रान्तत्वाल्लभ्यते, तेषामित्यस्य विवरणं-नमस्कुर्वतामिति । इदमध्यात्ममित्यस्य विवरण- समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनमिति- स्वात्मन्येव परात्मनः स्थापना-अहमेव परात्मैवं स्वरूपो बोधः, तदादिफलिका याऽनुभूयमानतीर्थकरगुणस्य स्मृतिस्तस्या आलम्बनमियं प्रतिमेत्यर्थः, तीर्थकरप्रतिमां नमस्कुर्वतां तटस्थानां समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनं नमस्कृतिक्रियाकर्माभूताऽहत्प्रतिमा भवति, यतोऽहत्प्रतिमादर्शनेन सिद्धान्तोक्तिजन्यशाब्दानुभवविषयस्य तीर्थकरगुणस्य फलं नमस्कुर्वतामवश्यमेव भवतीति । तेषामिदं त्वध्यात्ममित्यत्स्य व्याख्यानान्तरमुपदर्शयति- यद्वेति । तेषामित्यस्य विवरणं-गुणानामिति । अध्यात्ममित्यस्य विवरणम् - अध्यारोपविषय इति-भावजिनगतगुणा जिनप्रतिमायामारोप्यन्ते, इयं प्रतिमा तीर्थकरगुणवतीत्यारोपाकारः। पूर्वोपदर्शितोऽर्थः कथं नेत्यपेक्षायामाह- तटस्थेनेति-स्थाप्यस्थापकभिन्न जिनप्रतिमां नमस्कुर्वता पुरुषेणेत्यर्थः, स्मृतौ अनुभूयमानतीर्थकरगुणस्मृतौ, “योग(ग्य )जीवानुसमापत्त्यसिद्धेः" इत्यस्य स्थाने “ योगजजीवात्मसमापत्त्यसिद्धेः” इति पाठो युक्तः, योगजा योगाभ्यासजनिता या योगिनो जीवस्य परात्मना सहकतालक्षणा समापत्तिस्तस्या असिद्धः, अतः प्रथमं व्याख्यानमुपेक्ष्येदं व्याख्यानमातमित्याशयः । उत्तरार्द्ध विवृणोति-न चेति- अस्य क्रिययाऽन्वयः । सावद्येत्यस्य विवरण- सपापेति । इतरेधित्वस्य फलितार्थकथनं-पार्श्वस्थादिष्विति । ध्रुवा केत्यपेक्षायामाह-ध्रुवा सेति योज्यते इति । ततः योजनातः । समनुज्ञा सपापक्रियानुमतिः, अस्य ध्रुवेत्यनेन योगमुल्लिखति-सावधेति- सावधक्रियायुक्तपार्श्वस्थादीनां प्रणामे कृते सति तद्दता सावधक्रियाप्यभिनन्दिता भवतीति सावद्यक्रियानुमतिस्तत्प्रणामकतुः, सा च सावध क्रियाफलिका ध्रुवेति द्रव्यलिङ्गिस्वरूपा भावसाधुस्थापना बलवदनिष्टानुबन्धावत्याशयः । एवं च सतीति- "एवं च सति' 'इत्याशङ्काशेषः, आचार्यस्तत्रैव निराकृतः' इत्येवमन्वयोऽत्र बोध्यः। एवं सति तीर्थकरप्रतिमासु सावद्या क्रिया नास्ति पार्श्वस्थादिषु सावद्या क्रिया विद्यते इति व्यवस्थितौ सत्याम् । प्रतिमायामितिप्रतिमायां सावद्या क्रिया नास्ति निरवद्याऽपि क्रिया नास्तीत्येवमुभयविधक्रियाऽभावतः प्रसञ्जितो यः शुभफलस्याशुभफलस्य चाभाव इत्येवमुभयफलाभावः, अस्य 'निराक्रियमाणः' इत्यनेनान्वयः, तथा च स तदालम्बनकः- तीर्थकरप्रतिमालम्बनको यः स्थाप्यगुणसंकल्पः- स्थाप्यस्य तीर्थकरस्य ये गुणास्तेषामारोपलक्षणः संकल्पस्तद्रपा तदात्मिका या मनःशुद्धिस्तस्या बलवत्तयैवअतिप्राबल्येनैव निराक्रियमाणः- प्रतिमालम्बनकस्थाप्यगुणसङ्कल्परूपमनश्शुद्धितः शुभफलस्यावश्यम्भावादशुभफलस्याभावेऽपि शुभफलस्य सद्भावेन फलद्वयाभावो न सम्भवतीत्येवं निराक्रियमाणः, अस्य 'प्रगल्भते' इत्यनेनान्वयः । पार्श्वस्थादिवन्दनेऽपीत्यपि नातीर्थकरप्रतिमावन्दनस्यानेडनम् । दोषाभावमिति- पार्श्वस्थादेः सपापक्रियत्वेऽपि तद्वन्दनकर्तुमनश्शुद्धिबलवत्तरेत्यतो दोषो न भवतीति दोषाभावमित्यर्थः, अस्य ' साधयितुम्' इत्यत्रान्वयः, 'गुणोदयं च' इत्यत्रापि 'मनःशुद्धबलवत्तयैव ' इत्यस्यान्वयः। इत्याशङ्काशेषः एवंस्वरूपोऽवशिष्ट आशङ्काभागः, अस्य 'निराकृतः' इत्यनेनान्वयः । उभयविकले एव सावद्यक्रियानिरवद्यकियोभयरहिते एव जिनप्रतिबिम्बे, आकारमात्रतुल्ये भावजिनेन सममाकारमात्रेण सदृशे, वा अथवा, कतिपयगुणान्विते भावजिनगता ये कतिपये गुणास्तैरन्विते युक्ते, “ उत्कृष्टगुणाध्यारोपशुभ" इत्यस्य ३६

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496