Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
२८२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
रूपतामास्कन्दन निर्जराहेतुः, अन्यत्र वसावशुभसङ्कल्परूपत्वेन निरवद्यकर्माभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रत्वात् , सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वा अनन्तकेशावह ' इत्यभि. प्रायेणाचार्यैस्तत्रैव निराकृतः, तथाहि"जह सावज्जा किरिया णस्थि य पडिमासु एवमियरावि । तयभावे णस्थि फलं अह होइ अहेउगं होइ" ॥ कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होन्ति पडिमा उ॥ जइवि य पडिमा उ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे ण य पडिमासूभयं अस्थि ।। णियमा जिणेसु उ गुणा पडिमाओदिस्स जे मणे कुणइ । अगुणे उ वियाणतो कं नमइ मणे गुणं काउं । जह वेडंबगलिंग जाणंतस्स णमओ हवइ दोसो। गिद्धसमिय णाऊण वंदमाणे धुवं दोसो" ।
[ आवश्यके गा० ११४५-४६, ४७, ४८, ४९. ] इति ॥ १०१ ॥ नन्वेवं स्थापनास्थले सावद्यकर्माभाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वमित्यागतम् , स्थाने “ उत्कृष्टगुणाध्यारोपः शुभ" इति पाठो युक्तः, भावजिनगतो य उत्कृष्टगुणस्तस्य जिनप्रतिबिम्बे य आरोपः स शुभसङ्कल्परूपतां- शुभसङ्कल्पात्मकताम् , आस्कन्दन प्राप्नुवन् , निर्जराहेतुः कर्मक्षपणकारणं भवतीति शेषः । अन्यत्र तु द्रव्यलिङ्गे पार्श्वस्थादौ पुन:। असौ उत्कृष्टगुणाध्यारोपः। अशुभसङ्कल्परूपत्वेन अशुभसङ्कल्पात्मकत्वेन, इदमनन्तक्लेशावहत्वे हेतुः, तथा च द्रव्यलिङ्गिनि पार्श्वस्थादौ उत्कृष्टगुणाध्यारोपोऽशुभसङ्कल्पात्मकत्वेनानन्तक्लेशावह इत्यर्थः, वा अथवा, पार्श्वस्थादावुत्कृष्टगणाध्यारोपो विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहः । ननु पार्श्वस्थादावुत्कृष्ट गुणाध्यारोपो यदि विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहस्तर्हि जिनप्रतिमायां द्वयोरपि निरवद्यक्रिया-सावधक्रिययोरभावे सति तत्रोत्कृष्टगुणाध्यारोपोऽपि निरवद्यक भाववजिनप्रतिमाविशेष्यकत्वाद् विपर्यासलक्षणसमनुगत इति सोऽप्यनन्तक्लेशावहः स्यादित्यत आह-निरवद्यकर्माभाववद्विशेष्यकत्वस्येति, गौरवेण सावद्यकर्मवद्विशेष्यकत्वापेक्षया गुरुभूतत्वेन, अतन्त्रत्वात् विपर्यासत्वेऽप्रयोजकत्वात् , तथा च पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य निरवद्यकर्माभाववद्विशेष्यकत्वेन यदि विपर्यासत्वं स्वीक्रियेत तदा निरवद्यकर्माभाववद्विशेष्यकत्वेन जिनप्रतिमायामप्युत्कृष्टगणाध्यारोपो विपर्यासः स्यात्, यदा तु निरवद्यकर्माभाववद्विशेष्यकत्वप्रयुक्तं विपर्यासत्वं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य नेष्यते कुतस्तद्बलाजिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य विपर्यासत्वं प्रसज्यत इति, तर्हि किं प्रयुक्तं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यास इत्यपेक्षायामाह- सावद्यकर्मवद्विशेष्यकतयैवेति- सावद्यकर्मवान् पार्श्वस्थादिस्तद्विशेष्यकतयैवेत्यर्थः, जिनप्रतिमा च न सावद्यकर्मवती, अतस्तत्रोस्कृष्टगुणाध्यारोपस्य सावद्यकर्मवद्विशेष्यकत्वाभावान्न विपर्यासलक्षणसमन्वय इति न तेनानन्तक्लेशावहत्वं जिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य किन्तु सावद्यकर्मवद्विशेष्यकत्वेन पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहत्वमित्याशयः । इत्यभिप्रायेण उपदर्शितस्वरूपाभिप्रायेण । आचार्यः सूरिभिः । तत्रैव वन्दनकनियुक्तावेव । निराकृतः अपहस्तितः पूर्वोपदर्शिताशङ्काशेषः । निरुक्ताशङ्काशेषनिराकृत्युपदर्शकं वन्दनकनियुक्तिगतगाथाकदम्बकमुपदर्शयति-तथाहीति । जहा इति-" यथा सावद्या क्रिया नास्ति च प्रतिमासु एवमितराऽपि। तदभावे नास्ति फलम् अथ भवति अहे तुकं भवति ॥ काममुभयाभावस्तथापि फलमस्ति मनोविशुद्धया । तस्याः पुनर्मनोविशुद्धः कारणं भवन्ति प्रतिमास्तु ॥ यद्यपि च प्रतिमास्तु यथा मुनिगुणसङ्कल्पकारणं लिङ्गम् । उभयमप्यस्ति लिङ्गे न च प्रतिमासूभयमस्ति ॥ नियमाजिनेषु तु गुणाः प्रतिमा उद्दिश्य यो मनसि करोति । अगुणे तु विजानन् कं नमति मनसि गुणं कृत्वा ॥ यथा विडम्बकलिङ्गं जानतो नमतो भवति दोषः । निध्वंसमिति ज्ञात्वा वन्दमाने ध्रुवं दोषः ॥५॥ इति संस्कृतम् ॥ १०१ ॥ ___व्यधिकशततमपद्यमवतारयति-नन्वेवमिति । एवम् उक्तप्रकारेण । 'द्विशेष्य' इत्यस्य स्थाने 'द्विशेष्यक ' इति पाठो युक्तः। भावस्य सङ्कल्पविशेषरूपस्य । तच्च उत्तप्रकारेण निर्जराहेतुत्वं च। अयुक्तत्वे हेतुमाह-लाघवेनेति- सावद्यकर्माभाववद्विशेष्यकत्वापेक्षया लाघवेनेत्यर्थः । तद्धेतुत्वौचित्यात् गुणसंकल्पस्य निर्जराहेतुत्वौचित्यात् । ननु विपर्यासलक्षणं सावद्यकर्म

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496