Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१९३
कत्वादिना तदक्षा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात्, न च पूर्वोक्तरीत्यानुभ. वजनकत्वस्याप्यव्यभिचारः, 'इदं पदमेतदर्थानुभवजनकम्' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् । .
. न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पनत्वव्याप. कानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्यः त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि भाने न लक्षणोच्छेद इति तूतप्रायम्, न च
............
anrn...
इत्यभिप्रायस्थले । व्यभिचारदर्शनात् तत्र प्रथमत ' एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् 'एतदर्थज्ञानमैतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजनकम्' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभवजनकत्वज्ञानाभावेऽपि देवदत्तपदादु देवदत्तरूपार्थविषयकानुभवभावेन व्यतिरेकव्यभिचारदर्शनात्, एवं च पद्मत्वप्रकारकपद्मविषयकानुभवजनक पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पड्कजपदस्य पद्मरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्यात् , किन्तु ततो व्यतिरिकैव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते. किन्तु व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिमहाहितसंस्कारादेव फलबलकल्प्योरोधितात पनत्वोरस्थितिरिति ।
ननु यदि पङ्कजपदस्य न पद्मत्वेन रूपेण पद्मरूपार्थे शक्तिः किन्तु पद्मवनियतशक्तिग्रहाहितसंस्कारमात्रादेव पद्म. स्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थे या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिमहाहितसंस्कारात् पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पकजपदासम्बदस्य संस्कार. मात्रोपस्थितस्य , पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादीनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्यादित्याशकय प्रतिक्षिपति-न चेति- अस्य — वाच्यम्' इत्यत्रान्वयः । पङ्कजपदावयवशक्तेर्यथा पद्मत्वनियतत्वं पङ्कजनिकर्तरि पद्मे पद्मत्वस्य सत्त्वात् तथा पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम्' इत्यस्य विशेषणम् । शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्त्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शक्तिस्मरणे तत्संस्कारोद्धोधोऽवश्यमपेक्षितव्यः शक्तिस्मरणाचार्थस्मरणं तदैव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्य. थेति संस्कारप्राकव्यस्य संस्कारोबोधस्वभावस्थावश्यमर्थोपस्थितावुपजीव्यत्वेन पङ्कजपदस्य पद्मत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वनियतावयवशक्तिमहाहितपद्मत्वविषयकात् संकारादुरोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्भवति, द्रव्यत्वादीनां चोकशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिपहाहितो नवा ततः प्रकटितः स इति 'पङ्कज. मानय' इत्यत्र सस्कारमांत्रोपस्थितस्य पनत्वस्यैवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्ब. न्धोपगमेऽपीति-शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः । ननु पङ्कजपदस्य न पद्मत्वे शतिर्नवा लक्षणाऽ. थापि पद्मत्वस्य प्रकारविधयाऽन्वयबोधे भानं यदि तदा 'गङ्गायां घोषः' इत्यत्रापि गङ्गापदस्य गङ्गातीरे लक्षणात्मक. सम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवाल्लक्षणोच्छेद इत्यत आह - “घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम्, न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रे,तरघटत्वेन घटे घटपदस्य शत्यभावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भ.नमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकाय प्रकारीभूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मणो गङ्गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तद्भानाथ गहातीरे गहापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः। उक्तप्रायमिति-'अथ लाक्षणिकमननुभावकमेव' इत्यादिग्रन्थेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्कमित्यत उक्तप्रायमित्युकम्, 'भाने न' इत्यत्र 'प्रकारस्यापि' इत्यपेः 'भाने' इत्यनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उत्कोऽर्थः स्पष्टमेवावभासत इति । ननु

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496