Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
नयामृत ० - आत्मत्वमिति । आत्मत्वमेव जीवपदप्रवृत्तिनिमित्तम्, पारिणामिकभावस्य कालत्रयानुगत्वेन सत्यत्वात्, औदयिकभावस्य चौपाधिकत्वेन कालत्रयाननुगतत्वेन च तुच्छत्वात्, इति अयं सर्वसङ्ग्रहनयः सिद्धसाधारण्यं भवस्थतौल्यं निरस्य जीवत्वसाघमे न प्रतिभूः, सर्वत्र तुल्यजीवत्वात् एवम् 'एको व्यवहारतो जीवोऽन्यश्च निश्चय [तः] ' इति विभागकरणमसमीक्षिताभिधानमेवापद्येत, सर्वसङ्ग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परेणेष्यत एव तदुक्तं द्रव्यसङ्ग्रहे
" मग्गण-गुणठाणे हि य चउदस य हवंति तह असुद्धगया । विष्णेया संसारी सब्वे सुद्धा उ सुद्धणया ॥ १३ ॥” इति न च संसारिचैतन्यस्य सङ्ग्रहनयेन शक्त्या शुद्धचैतन्यनिश्चयेऽपि व्यक्त्या शुद्धचैतन्यस्य सिद्ध. एव निश्चयान्न साधारण्यमिति शङ्कनीयम्, सङ्ग्रहस्य शक्तिग्राहकत्वेन व्यक्तिमाहकताया व्यवहार एव विश्रान्तेः, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् ॥ ४९ ॥
२०९
एकोनपञ्चाशत्तमपद्यमवतारयति नन्विति । तेन पर्यायार्थिकनयेषु शुद्धनिश्चयात्मकेनैवम्भूतनयेन । अस्मदुक्तानुपपतावपि सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तस्यानुपपत्तावपि । तदुपपादयिष्यामः ' सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तमुपपादयिष्यामः, द्रव्यार्थिकेषु शुद्ध निश्चयात्मकेन सङ्ग्रहेण सिद्धो जीव इत्युपपद्यत एवेत्यर्थः ।
" आत्मत्वमेव " इत्ये कोनपञ्चाशत्तमपद्यं विवृणोति - आत्मत्वमितीति । 'जीवत्वम्' इति मूलस्य 'जीवपदप्रवृत्तिनिमित्तम्' इति विवरणम् । कथमात्मत्वमेव जीवपदप्रवृत्तिनिमित्तं न तु प्राणधारणलक्षणं जीवनं यज्जीवपदव्युत्पत्तिनिमित्तमित्यपेक्षायामाह - पारिणामिकभावस्येति - आत्मश्वं जीवस्य पारिणामिको भावस्तस्य कालत्रयेऽप्यात्मनि सत्वेन सत्यत्वात् प्रागधारणलक्षणं जीवनं च जीवस्यौदयिको भावस्तस्यायुष्कर्म लक्षणोपाधिप्रभवस्योपाधिकत्वेन यदेवायुकर्मात्मनि सम्बद्धं तदैव तस्यात्मनि सत्त्वमिति कालत्रयाननुगतत्वेन तुच्छत्वादित्यस्मात् कारणादात्मत्वमेव सत्यतया जीवपदप्रवृत्तिनिमित्तं तुच्छत्वाच्च न जीवनं जीवपद प्रवृत्तिनिमित्तमित्यभ्युपगन्ता सर्वसङ्ग्रहनयः सिद्धसाधारण्यं निरस्य जीवत्वे न प्रतिभूः । 'सिद्धसाधारण्यम्' इत्यस्य विवरणम् - भवस्थतौल्यमिति । 'जीवत्वे' इत्यस्य विवरणम्- 'जीवत्वसाधने' इति । प्रतिभूरित्यस्य साक्षीत्यर्थः । कथं न प्रतिभूरित्यपेक्षायामाह - सर्वत्रेति जीवपदप्रवृत्तिनिमित्तमात्मत्वं यथा सिद्धे वर्तते तथा भावस्थेऽपि तेन सिद्धे जीवत्वसाधने भवस्थेऽपि जीवत्वं सिद्धयत्येव, तथा च सिद्ध एव निश्चयतो जीव इति न स्यात्, आत्मत्वं यदि सिद्धं एव वर्तेत न तु भवस्थे तदा स्यात् तेन सिद्धमात्रवर्तिना सिद्धस्यैव जोवत्वसाधनं सर्वसम्प्रहतः, न चैवमित्यर्थः । आत्मस्वस्य जीवपदप्रवृत्तिनिमित्ततया सर्वसङ्ग्रहनयाभिमतस्य सिद्धे संसारिणि च सत्त्वेन ततो जीवपदव्यपदेश्यत्वमात्ममात्र एवेति निश्चयत एव सर्वे आत्मानो जीवा इति व्यवहारनिश्चयाभ्यां जीवविभागकरणनपि दिगम्बरस्यासमीक्षिताभिधानमेव स्यादित्याह - एवमिति । निश्चयनये यदि संसारिणां जीवपदव्यपदेश्यत्वं नोपपद्येत तदा व्यवहारतस्तेषां जीवपदव्यपदेश्यत्वोपपत्तये विभागकरणमुपपद्येत, न चैवम् दिगम्बराभिमतेन सर्वसङ्ग्रहलक्षणनिश्चयनयेनैव सर्वेषां जीवपदव्यपदेश्य त्वोपपत्तेरित्याह- सर्वसङ्ग्रह एव हीति । तेन च सर्वसङ्ग्रहेण च । निरुपरागं कर्मोपाधिरूपोपरागमुक्तम्, यद्यपि संसारी कर्म - मलदिग्व एव व्यवहारतः, तथापि शुद्धद्रव्यग्राहिसर्वसप्रहृतः सोऽपि वस्तुगत्या कर्मनलविमुक्त एवेत्याशयः । उक्तार्थे द्रव्यसङ्ग्रहवचनसंवादमाद्-तदुकमिति । मग्गण० इति - " मार्गणा-गुणस्थानैश्च चतुर्दशभिश्च भवन्ति तथा अशुद्धन यात् । विज्ञेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयात्" ।। इति संस्कृतम् । 'न च' इत्यस्य 'शङ्कनीयम्' इत्यनेनान्वयः, संसारिचैतन्यमपि संसारदशायां कर्मावृततयोपलभ्यत इति व्यक्तयाऽशुद्धं कर्ममलापगमे शुद्धं तद्भविष्यतीति शक्त्या सङ्ग्रहस्वरूपनिश्चयनयेन शुद्धचैतन्यत्वं निश्चीयते, सिद्धे तु व्यक्तया शुद्धचैतन्यस्य निश्चयाद् व्यक्तया शुद्धचैतन्यरूपत्वस्यात्मत्वस्य जीवपद प्रवृत्तिनिमित्तस्य न सिद्धसंसारिसाधारण्यमिति शङ्कितुर्दिगम्बरानुयायिनोऽभिसन्धिः । निषेध हेतुमुपदर्शयति-संग्रहस्येतिशक्तिरूपेण शुद्धं चैतन्यं सर्वदाऽवतिष्ठत इति शक्तिर्दव्यम्, व्यक्तिस्तु न त्रिकालानुगामिनीति पर्यायरूपाऽशुद्धद्रव्यरूपा वा
२७

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496