Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२६७
भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोक्तो बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नयनलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात् , ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या ॥ ८६ ॥ तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयनाह
एकद्रव्येऽप्यात्मनामा-कृति-कारण-कार्यता।
पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते ॥ ८७॥ नयामृत०-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिधायकं पदम् , आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तद्रूपेणाभिव्यक्तिः, एताः पुरस्कृत्य-मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेण, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाष्ये दिष्टाः-प्रतिपादिताः, तथा च तद्गाथा"अहवा वत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कज्जावनं तयं भावो॥"
[विशेषावश्यकभाष्ये गा० ६० ] इति, तारशभावं घटाकारत्वलक्षणभावम् । “घटोपयुक्तभ्यश्च" इत्यस्य स्थाने “घटोपयुक्त" इति पाठो युक्तः । यथाऽग्न्युपयुक्तस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽग्न्युपयुक्तपुरुषेणापि दहनकार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसङ्गलक्षणबाधकान्न भावघटत्वमित्याशङ्कत-अग्न्युपयुक्तस्येति । तत् तत्कार्यकारित्वलक्षणबाधकम् । अन्यत्रापि घटपरिज्ञानोपयुकस्य भावघटत्वेऽपि। समाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्तमेवेत्यर्थः । परं किन्तु । अयुक्तत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहनाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः । तत्र हेतुमाह-भस्मेति-भस्माच्छादितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्यभिचारादित्यर्थः । बाह्यघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्य वस्तुनो ज्ञानाकारत्वाज्ज्ञानरूपत्वमेवेत्यभ्युपगन्तृयोगाचारमत एव घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेश: स्यादित्याशङ्कते-शाना. द्वैतेति । समाधत्ते-किं तत इति-भवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाश्रितानां छिन्नमित्यर्थः । " यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् ॥ ८६ ॥
सप्ताशीतितमपद्यमवतारयति-तदेवमिति । अवतारितं योजितम् । एकस्मिन्नवेत्यनन्तरं वस्तुनीति दृश्यम् । तत् निक्षेपचतुष्टयम् । विवृणोति-एकद्रव्येऽपीतीति। विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टयविवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायक घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नाद्याकारलक्षणं संस्थान तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रूपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः । एताः आत्मनामाऽऽकृति-कारण-कार्यताः । पुरस्कृत्येत्यस्य विवरणं-मेलयित्वेति । पक्षान्तरेणत्यस्य विवरणं-भिन्नपक्षाभिप्रायेणेति । ते इत्यस्य विवरणं नामादयश्चत्वारोऽपि निक्षेप। इति । दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति । तदाथा महाभाष्यगाथा । अहवा० इत्ति-" अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः । कारणता तस्य द्रव्यं कार्यापन्नं तकत् भावः ॥"

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496