Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 346
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २७५ सादृश्येतरसम्बन्धनिमित्तकत्वमपहायेन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रवं वाच्यम् , तच्च न स्थापना. व्यावृत्तमिति नाम्ना स्थापनासङ्ग्रहो युक्त एवेति भावः ॥ ९५॥ इदं कैश्चिन्मतं तच्च, भाष्ये दूषितमुच्चकैः। नाम्नैव द्रव्यनिक्षेपेऽप्येवं सङ्ग्रहसम्भवात् ॥ ९६ ॥ नयामृत-इदमिति । इदं कैश्चिदाचार्यैर्मतम्-अङ्गीकृतम् , तच्चोच्चकैर्महता प्रबन्धेन भाष्य एव दूषितम् , एवम्- उपचारविषयत्वस्यैव नामार्थत्वे, द्रव्यनिक्षेपेऽपि- द्रव्यनिक्षेपविषयेऽपि, नाम्नैवनामपदार्थतयैव सहसम्भवात् ॥ ९६ ॥ भावप्रवृत्तिताप्रयोजकसम्बन्धभेदान्नाम-द्रव्ययो/दो भविष्यतीत्याशङ्कायामाह परिणामितया द्रव्यं, वाचकत्वेन नाम च । भावस्थमिति भेदश्चेन्नामेन्द्रे दुर्वचं ह्यदः ॥ ९७ ॥ नयामृत-परिणामितयेति । परिणामितया द्रव्यं भावे सम्बद्धम् , नाम च वाचकत्वेन वाच्य-वाचकभावेन सम्बद्धमित्येवं नाम-द्रव्ययोर्भेदश्चेत् , अदो नियामकं नाम्नेन्द्रे गोपालदारके दुर्वचं तस्य भावावाचकत्वात् ॥ ९७ ॥ यदि च नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थवसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं सति मुख्यार्थवैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं भवेत् , तदा गौणीलक्षणाया असङ्ग्रहापत्तेरित्यर्थः । तथा च उक्तदोषभयान्मुख्यार्थसादृश्ये मुख्यार्थवैसादृश्ये वा निमित्ते आग्रहाभावे च । तच्च इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं च। न स्थापनाव्यावृत्तं स्थापनायां न वर्तते इति न, किन्तु स्थापनासाधारणम् , इति एतस्माद्धेतोः। नाम्ना नामनिक्षेपेण, स्थापनासाहः स्थापनानिक्षेपस्य सङ्ग्रहणम् ॥१५॥ षण्णवतितमपद्यं विवृणोति- इदमितीति-इदमनन्तरमभिहितं 'सङ्ग्रहनये स्थापनानिक्षेपस्य नामनिक्षेप एवान्तरर्भावः' इत्येवं स्वरूपम् । कैश्चित् अनिर्दिष्ट नामकैः, कैरित्यपेक्षायामाचार्यैरिति । मतमित्यस्य विवरणम्- अङ्गीकृतमिति । तञ्च निरुताचार्यमतं च । उच्चकैरित्यस्य विवरणं- महता प्रबन्धेनेति । भाष्य एवेति-मूले भाष्ये इत्येनावन्मात्रस्योपादानेऽपि यदवकारस्याप्युपादानं तेनेदं ज्ञापितं भवति- अतिशयितप्रज्ञभाष्यकारेण महता प्रबन्धेन खण्डितोऽर्थो न केनापि व्यवस्थापयितुं शक्य इति तत्र नास्माकं दूषणान्तरोपदर्शनेन किमपि कृत्यमिति न तत्खण्डनेऽस्माभिलेखनी व्यापार्यत इति । भाष्योक्तदूषणमेवोद्भावयति-एवमिति- अस्य विवरणम्- उपचारविषयत्वस्यैव नामार्थत्वे इति । द्रव्यनिक्षेपेऽपीत्यस्य विवरणं-द्रव्यनिक्षेपविषयेऽपीति । नाम्नैवेत्यस्य विवरणं-नामपदार्थतयैवेति, तथा च साहनये नामनिक्षेप-भावनिक्षेपाभ्यां द्वैविध्यमेव निक्षेपस्याभिमतं न तु नामद्रव्यभावभेदेन निक्षेपस्य त्रैविध्यमित्येवमङ्गीकरणीयं स्यात्, न च तथाऽजीकृतमिति युक्तिरितं तदाचार्यमतमित्याशयः ॥ ९६॥ सप्तनवतितमपद्यमवतारयति-भावेति- "भावप्रवृत्तिता" इत्यस्य स्थाने "भाववृत्तिता" इति पाठो युक्तः, भावे वाचकतासम्बन्धेन नाम वर्तत इति नानो भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धो वाचकतालक्षणः, द्रव्यं भावरूपेण परिणमते इति परिणामितालक्षणसम्बन्धेन द्रव्यं भावे वर्तते इति द्रव्यस्य भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धः परिणामितालक्षणः, यद्यपि परिणामिता परिणामिनि वर्तते न तु परिणामे, तथापि परिणामितायाः संसर्गतानियामकः सम्बन्धो निरूपकतालक्षणोऽत्र विवक्षितः, निरूपकतासम्बन्धेन च परिणामित्वं परिणामे वर्तत इत्येवं भाववृत्तिताप्रयोजकयोः सम्बन्धयोभैदानाम-द्रव्ययोमिनिक्षेपद्रव्यनिक्षेपविषययोर्भेदो भविष्यतीत्येवस्वरूपाशङ्कायामुत्तरमाहेत्यर्थः । विवृणोति-परिणामितयेतीति। भावे सम्बद्धमिति भावस्थमिति मूलस्य विवरणम् । वाचकत्वेने त्यस्य विवरणं-वाच्यवाचकभावेनेति । सम्बद्धमित्यत्र 'भावे' इत्यस्यानुकर्षेण सम्बन्धः। अदः एतत् । किमित्यपेक्षायां नियामकमिति। "नानेन्द्रे" इत्यस्य स्थाने

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496