Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२५७
कल्पितत्वमेवेति वाच्यम् , एवं सति सर्वविशेषणानामेकधर्माकाङ्क्षाविधुरत्वेन वाक्यभेदप्रसङ्गात् , न च नयवाक्यानां प्रत्येकं निराकाङ्कत्वेऽप्यवयवानां न्याय इव स्याद्वादे वाक्यैकवाक्यत्वं सर्वत्रैवोपपादयि. ज्याम इत्यपि साम्प्रतम्, एकैकस्य शतभेदत्वेन सर्वत्रैकरीतेरभावाद् विशिष्टवैशिष्ट्यबोधस्य दुरपलापत्वात् , एवमपि नैगमे प्राच्यभेदातिशायकविशेषणस्याकल्पितत्वध्रौव्याचेति किमतिपल्लवितेन ॥ ८४ ॥ ___ तदेवं मतान्तरेण द्रव्याथिके नामादिनिक्षेपत्रयमेवेति समर्थितम् , अथ भाष्यकारमतेनैव "णामाइतियं दवट्ठिअस्स भावो अपज्जवणयस्स" [विशेषावश्यकभाष्यगाथा-७५ ] इति मङ्गलवादीयभाष्यप्रतीकस्य "भावं चिय सहणया सेसा इच्छंति सबणिकेवे" [विशेषावश्यकभाष्यगाथा ] इत्यप्रेतनवचनेन सहाविरोधं समर्थयन्नाह___ घटोपयोगरूपो वा, भावो द्रव्यार्थिकेऽमतः।
तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥ ८५ ॥ नयामृत०-घटोपयोग इति । वेति पक्षान्तरे, घटोपयोगरूपो भावो द्रव्यार्थिकेऽमत:-अनिष्टः, हेतुमुपदर्शयति- एवं सतीति- पर्यायनयानां शुद्धपर्यायविधावेव तात्पर्याभ्युपगमे सतीत्यर्थः । सर्वविशेषणानामितियदि व्यवहारादिनयप्रभववाक्यैर्व्यवहारादिनयविषयतत्तत्पर्यायात्मविशेषणविशिष्टात्म कसामान्यविषयकशाब्दबोधो भवेद् भवेत तदा विशेष्यस्यात्मसामान्यस्यैकत्वात् तन्निष्ठाविशेष्यताद्वारा सर्वपर्यायस्वरूपविशेषणनिष्ठविषयत्वानां परस्परनिरूप्य-निरूपकभावलक्षणाकासासद्भावात् साक्षात् परम्परया वा परस्परनिरूप्य-निरूपकभावापन्नविषयताकैकबोधजनकत्वलक्षणमेकवाक्यत्वं नयवाक्यानाम्, यदा तु सङ्ग्रहप्रभववाक्यजबोधस्य न व्यवहारादिनयतस्तत्तत्पर्याय कदम्बारुषितसामान्यविषयकबोधस्वरूपे पर्यवसानं किन्तु व्यवहारादिनयप्रभववाक्यैरशुद्धतत्तत्पर्यायविषयकबोधानामेवाविर्भावस्तदा निरुक्ताकालाभावात् साक्षात् परम्परया वा निरूप्य-निरूपकभावानापन्नविभिन्न विषयताकबोधजनकत्वलक्षणवाक्यभेदस्यैव प्रसङ्गादित्यर्थः । न च इत्यस्य ' साम्प्रतम्' इत्यनेनान्वयः। अवयवानां प्रतिज्ञा हेतूदाहरणोपनय-निगमनखरूपाणां पञ्चानामवयवानाम्, न्याय इवेति-नीयते-प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्याय इति व्युत्पत्त्या निरुक्तपञ्चावयवसमुदाय एवं न्यायस्तत्र यथाऽवय. वानां वाक्यैकवाक्यत्वं तथेत्यर्थः । स्याद्वादे सप्तनयवाक्यसमूहलक्षणस्याद्वादे, वाक्यैकवाक्यत्वं नयवाक्यानां निरुक्तवाक्यैकवाक्यत्वम् । निषेधे हेतुमाह- एकैकस्येति- प्रत्येकं व्यवहारादिनयानां शतविधत्वेन तैः सम्भूयैकविधबोधस्यो. त्पादयितुमशक्यत्वेन प्रत्येकं, सर्वत्र सर्वनयवाक्ये, एकरीतेः बोधनियमनविधाया एकस्या अभावादित्यर्थः । विशिष्टवैशिष्ट्यबोधस्य दुरपलापत्वादिति- अनुभूयमानस्य समस्तनयवाक्येनैकस्य विशिष्टवैशिष्ट्यबोधस्य पर्यायनयानां शद्धपर्यायविधायकत्वाभ्युपगममात्रेणापलपितुमशक्यादित्यर्थः । एवमपि स्वविषये अन्यनयार्थविशेषणस्य कल्पितत्वाभ्युपगमेऽपि । नैगम इति- नैगमनये सर्वनयात् प्रथमप्रवृत्तौ तस्य यः प्राच्यभेदः प्राथमिको भेदस्तस्योत्तरोत्तरनैगमभेदादतिशायक वैलक्षण्यप्रयोजकं यद् विशेषणं यद्विशिष्टसामान्यादि विषयकत्वेनान्यविशेषणविशिष्टसामान्यादिविषयकादुत्तरोत्तरनैगमप्रभेदात् स व्यावृत्तो भवति, अन्यथा सर्वस्य नैगमजातीयस्य सामान्य विषयकस्य विशेषविषयकस्य वा सामान्यविषयकनगमत्वेन विशेषविषयकनगमत्वेन वा समानस्वरूपत्वेऽवान्तरवलक्षण्यं न स्यादिति तस्य विशेषणस्य सविषयेऽन्यनयार्थविशेषणत्वाभावेनाकल्पितस्यावश्यकत्वेन तत्र प्रधानोपसर्जनभावस्याकल्पितत्व-कल्पितत्वाभ्यामुपपादयितुमशक्यत्वेन विशेष्यविशेषणभावत एवोपपत्तेरित्यर्थः ॥८४ ॥
पञ्चाशीतितमपद्यमवतारयन्नाह-तदेवमिति । तत् तस्मात् , एवम् अनन्तरोपवर्णितप्रकारेण, अन्यत् स्पष्टम् । विवृणोति-घटोपयोगेतीति। "घटोपयोग इति" अस्य स्थाने "घटोपयोगेति" इति पाठो मूलप्रतीकानुकूलः । मूले वाशब्दः पक्षान्तरार्थक इत्यावेदनायाह-वेति पक्षान्तरे इति । अमत इति मूलस्य विवरणम्- अनिष्ट इति ।

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496