Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
कालीनतद्भावानुवृत्त्या घृतघटन्यायेन ज्ञशरीरद्रव्यघटः, येन शरीरेण न तावदिदानी घटपदार्थं जानाति किन्त्वनेनैव कालान्तरेण ज्ञास्यति स भव्यशरीरद्रव्य घटः, तद्व्यतिरिक्तद्रव्यघटो मृद्रूपः कण्ठत एवोक्तः, अयं च द्रव्यपदार्थो द्विधा प्रयुज्यते, अप्राधान्येन योग्यतया च, अप्राधान्येन यथाऽङ्गारमर्दको द्रव्याचार्य इति, योग्यतया यथा मृत्पिण्डो द्रव्यघटः सुश्रावको द्रव्यसाधुः साधुश्च द्रव्यदेव इत्यादि, योग्यता च यद्यप्यैकमविक-बद्धायुष्काऽभिमुखनामगोत्रभेदेन त्रिविधैव अनुयोगद्वारसूत्रे नयभेदेन व्याख्याता, कायोत्सर्गनियुक्ती द्रव्यकायनिरूपणप्रस्तावे"जंतु पुररकडभावं दवियं पच्छाकडं च भावाओ । तं होइ दबदवियं जह भविउंदव्वदेवाई ॥ १॥"
[ आवश्यकभाष्ये गा० २३३ ] इत्यत्रापि चातीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेशप्रसङ्गात् स्वयमुट्टङ्कय पुरष्कृतपश्चात्कृतभवद्वय एवायुःकर्मसव्यस्पर्शनोद्भावनेन निरस्तः, तथाहि"दुहओऽणन्तररहिया जइ एवं तो भवा अणन्तगुणा। एगस्स एगकाले भवा ण जुजन्तिऽणेगा(उ)॥"
[आवश्यके गा० १५३६ ] व्याख्या-" दुहओ "त्ति-वर्तमानभवे स्थितस्योभयत एष्यकाले अतीतकाले, अणन्तररहिअ त्तिअनन्तरौ एष्यातीतौ, अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि, जइत्ति- यदि तस्योच्यते, तो त्ति- एवं सति, भवा:- तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेतर" असुब्वत" इति भाष्यप्रयोगदर्शनादुक्तानुशासनस्य प्रायिकत्वादिति बोध्यम् । तत्र नोआगमतस्त्रिविधेषु द्रव्यघटेषु मध्ये । भव्यशरीरद्रव्यघटमुपदर्शयति-येन शरीरेणेति । अनेनैव तेन शरीरेणैव । तद्वयतिरिक्तति- ज्ञशरीर-भव्यशरीरव्यतिरिक्तत्यर्थः । अप्रधाने योग्येऽपि च द्रव्यपदं प्रयुज्यत इत्यप्राधान्य योग्यत्वाभ्यां द्रव्यपदार्थस्य द्वैविध्यमुपदर्शयति- अयं चेति । अप्रधानस्वरूपद्रव्यपदार्थमुदाहरति--अप्राधान्येन यथेति । अङ्गारमर्दको द्रव्याचार्य इत्यत्र द्रव्यपदमप्रधानार्थकम् , तथा चोक्तवाक्यात् अङ्गारमर्दकोऽप्रधानाचार्य इति प्रतीयते । योग्यतया द्रव्यपदार्थमुदाहरति- योग्यतया यथेति । मृत्पिण्डो द्रव्यघट इत्यत्र द्रव्यपदं योग्यार्थे प्रयुक्तम् , तथा चोक्तवाक्यान्मृत्पिण्डो घटयोग्यः- घटात्मकपर्यायरूपेण कदाचित् परिणस्यते मृत्पिण्ड इत्येवं प्रतीयते । सुश्रावक इति सूत्रविहितश्रावकाचारपरिपालनपरायणः सुश्रावकः, स च साधुपर्यायं कालान्तरे आसादयिष्यतीति द्रव्यसाधु:- साध्वात्मकपर्यायरूपेण भवितुं योग्य इत्यर्थः । साधुश्च द्रव्यदेवः य इदानीं सूत्रविहितसाधुसमाचारी सम्यगातिष्ठति साधुः, स कालं कृत्वा देवो भविष्यतीति कृत्वा द्रव्यदेव इत्युच्यते, यः साधुरन्तरभव एव न देवरूपेणोत्पत्स्यते किन्तु भवद्वयादिव्यवधानेन देवो भविष्यति सोऽपि द्रव्यदेव इत्युच्यते, तत्रानुयोगद्वारसूत्रोपवर्णितत्रिविधयोग्यताऽसम्भवतः कथं द्रव्यदेवतेति शङ्कया भवद्वयादिव्यवधानेनापि तद्भवनस्वभावे तद्योग्यता - सम्भवतीति तथाविधस्यापि द्रव्यसाधुतोपपद्यते इत्यभिप्रायकसमाधानेन च बुधजनानन्दकरं विचारं प्रस्तौति-योग्यता चेति-योग्यता च त्रिविधैव व्याख्यातेति सम्बन्धः । यद्यपीति-तथापी. यमित्याधुत्तरग्रन्थस्थिततथापीत्युक्तिसापेक्षयं यद्यपीत्युक्तिः । जं तु० त्ति- “यत् तु पुरस्कृतभावं द्रव्यं पश्चात्कृतं च भावतः । तद् भवति द्रव्यद्रव्यं यथा भवितुं द्रव्यदेवादि ॥ इति संस्कृतम् । "प्रसङ्गात्" इत्यस्य स्थाने "प्रसङ्गः" इति पाठो युक्तः, अस्य 'निरस्तः' इत्यनेनान्वयः। निरसनप्रकारमेव भावयति-तथाहीत्यादिना । दुहओ०त्ति"उभयतोऽनन्तररहितौ यद्येवं ततो भवा अनन्तगुणाः । एकस्यैककाले भवा न युज्यन्तेऽनेके तु॥” इति संस्कृतम् । उक्तगाथाविवरणमुपदर्शयति-दुहओ त्तीति । उभयत इत्यस्य फलितकथनम्- एष्यकाले अतीतकाल इति-भविध्यत्काले भूतकाले च । केन रहिताविति न ज्ञायत इत्यत आह-वर्तमानति-प्रकरणाद् वर्तमानभवभावेन रहिताविति गम्यते, “वर्तमानभवभावतररहिता" इत्यस्य स्थाने “वर्तमानभवभावेन रहिता" इति पाठः सम्यग् । इटा

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496