Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 331
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । इत्यनेन यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात्, अस्तु वा तत्राभिप्रायकी स्थापनैव, भवतु वा वैज्ञानिको भावनिक्षेप एव, गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्ति विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् एतच्च विपश्चितमलङ्कारचूडामणिवृत्तावस्माभिः, तत् किं शक्तिलक्षणान्यतरवृत्तेरपेक्षित (?) शब्द सङ्केतविषयत्वमेव नामलक्षणम्, 'स्थितमन्यार्थे ' इत्यत्रानेकार्थवाच्यव्यावृत्तये ' अशक्यार्थे ' इति करणाच्छक्यस्य ' पर्यायानभिवेयं च' इत्यनेन लक्ष्यस्य च व्यावृत्तौ तात्पर्यात्, ओमिति चेत् ? तर्हि रूपसत्यादिविषये अतिव्याप्तिः, तस्य द्रव्यनिक्षेपविषयत्वेन २६० चतुष्टयातिरिक्तनिक्षेपकल्पनायाः । दोषाभावात् निक्षेपेयताक्षतिप्रसङ्गस्येष्टापत्तिरूपतया दोषत्वाभावात् निक्षेपानन्त्यस्यैवेष्टत्वादिति भावः । निक्षेपाश्चत्वार एवेत्यभ्युपगमेऽपि नामनिक्षेप भिन्नप्रसिद्धनिक्षेपविषय एवायमिति न निक्षेपेयत्ताक्षतिरित्याहअस्तु वेति । तत्र गङ्गातीरे । अभिप्रायिकी शैत्य-पावनत्वादिप्रतिपत्तिप्रयोजनाभिप्रायेण गङ्गायां घोष इति प्रयोक्तुगङ्गातीरे गङ्गाया या असद्भूतस्थापना तदभिप्रायविषयः, स्थापनैव स्थापनानिक्षेप एवेत्यर्थः । अथवा गङ्गापदशक्यार्थस्य गङ्गाजलप्रवाहस्याभेदाध्यवसाय एव गङ्गातीर इति गङ्गातीरं गङ्गैवेति कृत्वा भावनिक्षेप एव तत्रेत्याह- भवतु वेति । वैज्ञानिकः वस्तुतो गङ्गातीरस्य गङ्गात्वाभावेऽभेदाध्यवसायतो गङ्गात्वं तत्रेति विज्ञानकृतः । कथं विज्ञानकृतो भावनिक्षेपस्तत्राश्रीयत इत्यपेक्षायामाद- गङ्गापदेनेति गङ्गातीरं यदि गङ्गापदेन गङ्गाभिन्नतयाऽभिव्यक्तं स्यात् तदैव गङ्गागतस्य शैत्यपावनत्वादिधर्म सम्बन्धस्याभिव्यजनं तत्र भवेन्नान्यथेत्यतस्तत्र गङ्गापदेन गङ्गाभेदाभिव्यञ्जनमावश्यकमित्येतस्मात् कारणाद् गङ्गायां घोष इत्यत्र नामनिक्षेप एवेत्यर्थः । उक्तार्थस्य विशेषतोऽवगतयेऽस्मत्कृताऽलङ्कारचूडामणिवृत्तिरवलोकनीया विचक्षणैरित्यावेदनाय श्रीयशोविजयोपाध्याया आहुः - एतच्चेति । अस्माभिः श्रीयशोविजयोपाध्यायैः । अत्र परः पृच्छति - तत् किमिति । “रपेक्षित" इत्यस्य स्थाने "रुपेक्षैत्र ?” इति पाठो युक्तः, यदि लक्ष्येऽपि गङ्गातीरे न नामनिक्षेपप्रवृत्तिः, शक्ये तु नामनिपक्षे प्रवृत्तिरनभ्युपगतैवेत्येतस्मात् कारणात् किं शक्तिलक्षणान्यतरात्मिका या पदस्य वृत्तिस्तस्या उपेक्षैव किमित्यर्थः । एवं सति नामनिक्षेपलक्षणं यत् पर्यवसितं तदाह- शब्दसङ्केतविषयत्वमेव नामलक्षणमिति । ननु शब्दसङ्केतः शक्ये लक्ष्ये चेति शब्दसङ्केतविषयत्वस्य शक्य लक्ष्ययोः सत्त्वादुक्तलक्षणस्य तयोरतिव्याप्तिरित्यत आहस्थितमन्यार्थ इत्यत्रेति- नामलक्षणप्रतिपादकपद्ये यत् ' स्थितमन्यार्थे ' इति वचनं तत्रेत्यर्थः । अनेकार्थवाच्य व्यावृत्तये अनेकार्थो यो गत्रादिशब्दस्तस्यैकार्थभिन्नो यो वाच्यो द्वितीयोऽर्थस्तस्य तस्मिन् वा नामलक्षणस्य व्यावृत्तये व्यवच्छेदाय; यदि स्थितमन्यार्थ इत्येव स्यात् तदा गोपदं गोभिन्नवाण्यादिलक्षणेऽर्थे स्थितं गोरूपराक्यार्थे नामनिक्षेपो भवेत्, शब्दसङ्केतविषयत्वस्य तत्र सत्त्वादतस्तद्व्यावृत्तये 'अन्यार्थे ' इत्यस्य स्थाने ' अशक्यार्थे ' इति करणाच्छक्यस्य गोरूपार्थस्य, अस्य ' व्यावृत्तौ ' इत्यत्रान्वयः । गङ्गायां घोष इत्यत्र गङ्गापदमशक्यार्थे तीररूपार्थ एव स्थितमिति तीरे तस्य नामनिक्षेपत्वव्यावृत्तये स्वाह-पर्यायेति पर्यायलक्षणवाक्यघटकेन पर्यायानभिधेयं' इत्यनेन वचनेन लक्ष्यस्यगङ्गातीररूपार्थस्य व्यावृत्तौ नामनिक्षेपत्वव्यावृत्तौ निरुक्तनामलक्षणकर्तुस्तात्पर्यादित्यर्थः । तत्रोत्तरमाशङ्कते - ओमिति चेदिति - अत्र स्वीकारार्थक 'आँ' इति शब्दः, तथा च शक्ति-लक्षणान्यतरवृत्तेरुपेक्षा भवदाशङ्कितं नामलक्षणं शक्यलक्ष्यव्यावृत्तये लक्षगघटकमशक्यार्थ इति वचनं च स्वीक्रियत एवेति तदर्थः । प्रष्टोकोत्तरं दूषयति- रूपेति - " रूपसत्यादिविषये " इत्यस्य स्थाने " रूपवत्याद्य सत्यादिविषये " इत्येवं पाठो भवितुमर्हति; अन्यादृशो वा पाठो यद्यत्र स्यात् तदा साङ्गत्यमञ्चतीति विचारणीयं सुधीभिः, 'रूपवत्याद्य सत्यादिविषये ' इति पाठं समालम्ब्य व्याख्यायते - यद्य प्याकृतावपि शब्दस्य शक्तिरिति शक्यव्यावतर्कविशेषणत एव स्थापनाया आकृतिरूपाया व्यावृत्तिः भावे तु शक्तिरस्त्येवेति तत एव भावस्यापि व्यावृत्तिः, जातिस्त्वनुगतत्वाद् द्रव्यमेत्रेति जातौ शक्तेः स्त्रीकाराज्जातिरूपत्वाद् द्रव्यस्यापि शक्यत्वमिति शक्यव्यावर्तकविशेषणतो द्रव्यस्यापि व्यावृत्तिः, तथापि कल्पितरूपवत्यादिसंज्ञकनायिका वर्णनात्मकनायिकाख्यायिकाया असत्यादिविषये कल्पितादिनाम कनायिका. तद्भामायात्मकविषये तद्वचनस्य नामनिक्षेपत्वं स्याद् यतस्तादृशार्थे व्यवहार: पथानवतीर्णे न शक्तिर्नापि लक्षणा रूपवत्यादिशब्दस्यातः शक्य- लक्ष्यभिन्नः सोऽर्थ इति निरुक्तनाम निक्षेपलक्षणस्य तत्रातिव्याप्तिरित्यर्थः । ननु तस्य लक्ष्यत्वात् तत्रातिव्याप्तिरूपता न लक्षणसमन्वयस्येत्यत आह- तस्येति- रूपवत्यादिविषयस्ये

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496