Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
२२७
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नयामृत-तमिति । अतिशुद्धौ त्वेती-नेगम-व्यवहारनयौ, तं-प्रस्थकम् , उत्कीर्णनामानंप्रस्थकपर्यायवन्तम् , प्रस्थकमाहतुः, उत्कीर्णनाम्नो द्रव्यादविशेषादिति भावः । सङ्ग्रहनयस्तु चितम्शासादितप्रस्थकपर्यायम्, मितम्-आकुट्टितनामानम् , मेयं-धान्यविशेषमारूढं च प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासनहान्नैगमोपदर्शितार्थसङ्कोचकत्वेन स्वनाम्नोऽन्वर्थसिद्धेः, अयं हि विशुद्धत्वात् कारणे कार्योपचार कार्याकरणकाले प्रस्थकं च नाङ्गीकुरुते, न च तदा तस्य घटाद्यात्म
अतिशुद्धौ तु नैगम-व्यवहारनयौ निष्पन्नप्रस्थकपर्यायवन्तमेव प्रस्थकं कथयतः सङ्ग्रहस्तु मापनक्रियाविष्टमेव निष्पन्नप्रस्थकपर्यायवन्तं प्रस्थकं कथयतीत्यावेदकं पञ्चषष्टितमपद्यं विवृणोति-तमितीति । एताविति मूलस्य विवरणम्-नैगमग्यवहारनयाविति-एतच्छब्दस्य प्रकान्तपरामर्शकत्वात् । तच्छब्दस्यापि प्रकृतार्थपरामर्शकत्वात् तमिति मूलत्य विवरणम्-प्रस्थकमिति-तस्यैव प्रकृतत्वात् । उत्कीर्णनामानमिति- उत्- उपरि, कीर्णम्- अयश्शलाकादिनोल्लिखितम् , नाम - प्रस्थकेति संज्ञा यस्य स उत्कीर्णनामा, तमुत्कीर्णनामानमिति, प्रस्थकपर्यायवत्तयोत्पन्नेऽपि काष्ठ दिद्रव्यविशेषे यावन्न प्रस्थकोऽयमित्यापामरसाधारणप्रत्ययोत्पत्तिस्तावन्न ततो लौकिकपरीक्षकाणां प्रस्थकमितधान्यादिक्रयविक्रयादिव्यवहारोऽसन्दिग्धतया समुल्लसतीत्युत्कीर्णनामत्वमावश्यकम्, यश्च काष्ठद्रव्यादिपर्यायविशेषः कूटव्यवहारिणा प्रस्थकपर्यायानात्मकोऽ. प्युत्कीर्णपर्यायसंज्ञो नैतावता वस्तुतः स प्रस्थक इत्यतः 'उत्कीर्णनामानम्' इत्यस्य फलितविवरणम्-प्रस्थकपर्यायवन्तमिति- एवम्भूतं द्रव्यविशेष प्रस्थकम् , आहतुः कथयत इत्यर्थः । नाममात्रस्य शब्दस्वरूपस्य प्रस्थकपर्यायापनकाष्ठद्रव्याद् भिन्नत्वेऽपि उत्कीर्णनानः प्रस्थकपर्यायस्य द्रव्यादभिन्नत्वादित्थमभिधानमित्याह-उत्कीर्णनाम्न इति । सहमन्तव्योपदर्शकमुत्तरार्द्ध विवृणोति-सड़हनयस्त्विति । चितमिति मूलस्य विवरणम् - आसादितप्रस्थक पर्यायमिति । मितमिति मूलस्य विवरणम् - आकुट्टितनामानमिति- उत्कीर्णनामानमित्यस्य य एवार्थः स एवास्यापि, प्रयोजनमपि पूर्वप्रदर्शितमेव । 'मेयं धान्यविशेषमारूढंच' इत्यस्य स्थाने तथा मेयारूढं धान्यविशेष. समारूढंच' इति पाठो युक्तः, अत्र मेयारूढमिति मूलस्य घान्यविशेष समारूढमिति विवरणम् । समुच्चयार्थकस्य तथाशब्दस्य समुच्चयार्थकश्चशब्दो विवरणम् । मेयारूढमित्यत्र मेय आरूढोऽयं स मेयारूढ इति बहुव्रीहिः मेयश्च मातुं योग्यो धान्यविशेषः, तथा च तद्विवरणस्य 'धान्यविशेषसमारूढम्' इत्यस्य धान्यविशेषकर्तृकारोहणकर्मेत्यर्थः। आसादितप्रस्थकपर्याय आकुट्टितनामा च प्रस्थको नैगमेऽपीति तन्मात्राभ्युपगमे सङ्घहस्य नैगमादू विशेषो न स्यादिति नैगमाभ्युपगमतः सङ्ग्रहाभ्युपगमे विशेषख्यापनायोकम् 'मेयारूढम्' इत्याह- मेयारूढपदेनेति । तदनारूढस्य मेयकर्तृकारोहणाकर्मीभूतस्य, आरोहणं च प्रकृते मध्यदेशमभिव्याप्य संयोगलक्षणावस्थानमेव, तत्कर्तृत्वं च तत्प्रतियोगित्वम् , तत्कर्मत्वं च तदनुयोगित्वम् , अन्यद्रव्याधिशिष्टस्य प्रस्थकपर्यायानापन्नद्रव्येण सह समानस्वभावस्य, यथा प्रस्थकपर्यायानात्मकं न धान्यमानविशेषावधारणलक्षणकार्यकुर्वद्रपात्मकं तथा धान्यविशेषासमारूढं प्रस्थकपर्यायापन्नद्रव्यमपीति । असहात समहणाभावात् । तथा च नैगमोपदर्शितार्थसोचकत्वेन नैगमनयेनोपदर्शितो यः प्रस्थकवाच्य आसादितप्रस्थकपर्यायोत्कीर्णनामकद्रव्यविशेषरूपोऽर्थः स मेयारूढो मेयानारूढश्च, तन्मध्यान्मेयारूढ एव प्रस्थको न मेयानारूढ इत्येवं सोचकारित्वेन समहनयस्य सङ्ग्रह इति यन्नाम तस्यान्वर्थत्वस्य सङ्गृह्णाति सङ्कोचयतीति साह इति निरुक्तिलभ्यार्थत्वस्य सिद्धः, 'अयम्' इत्यस्य 'नाङ्गीकुरुते' इत्यनेनान्वयः। अयं समहनयः । हि यतः। कारणे प्रस्थकमितधान्यादिमापनकार्यस्य परम्परया स्वरूपयोम्ये मापनकार्यकुर्वद्रूपानात्मके छेदन-तक्षणोरिकरणोल्लेखनादिक्रियायोग्यकाष्ठे । कार्योपचारं प्रस्थकपर्यायात्मक कार्योपचारम् । आसादितप्रस्थकपर्यायऽपि कार्याकरणकाले प्रस्थ मापन कार्याकरणकाले । प्रस्थकंच प्रस्थकेति नामव्यपदेश्यं च । नाङ्गीकुरुते न स्वीकरोति । ननु मापनकार्याकरणकाले आसादितप्रस्थकपर्यायेऽपि प्रस्थकात्मकत्वानजीकारे घटाद्यात्मकत्वं स्यादित्याशय प्रतिक्षिपति-न चेति । तदा प्रस्थक. कार्याकरणकाले। तस्य आसादितप्रस्थकपर्यायस्य । यो यन्नामव्युत्पत्तिनिमित्तार्थक्रियां करोति स तदर्थक्रियाकरणकाल एव तदात्मक इत्यभ्युपगन्त्रेवम्भूतनयमते जलाद्याहरणलक्षणचेष्टाकरणकाल एव घटादेरपि घटाद्यात्मकत्वस्य स्त पर्यायापन्नस्य मापनक्रियाऽकरणकाले यथा न प्रस्थकात्मकत्वं तथा तदानीं जलायाहरणलक्षणचेष्टात्मकार्थक्रियाकारित्वा

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496