Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 312
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २४१ विनय वैयावृत्त्यादिशुभवीर्योल्लासाधानेन सम्यक्त्वहेतुर्भवतीति ॥ ७५ ॥ भुङ्क्तेऽन्यः कुरुते चान्यो, गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य, पुंसां मिथ्यात्वकारणम् ॥ ७६ ॥ नयामृत०-भुते इति । यत्र-कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रादिनयवृत्ती, अन्य एव क्षणः कुरुते, अन्य एव च भुके, स्वरसत एव प्रतीत्योत्पद्यमानानां क्षणानामुपकार्योपकारकभावरहित्येन गुरुः शिष्यश्च यत्र नास्ति । अस्य निश्चयनयस्य, देशना पुंसां भवति प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः, तदुपजीविनां क्षणिकज्ञानवादिनां ब्रह्मवादिनां च मते सुतरामेव प्रवृत्तिमूलव्यवहारोच्छेदकत्वान्मिध्यात्वम् , ये हि यावत् । स्थिरात्मद्रव्ये सति तत्र क्रियाया विहितक्रियायाः फलं स्वर्गादि, अक्रियाया निषिद्धक्रियायाः फलं नरकादि सम्भवति, यो यत् कर्म करोति स तत्कर्मफलं मुझे इत्यस्य घटमानत्वात् क्रियाऽक्रियाफलयोरीचित्यमित्यर्थः । निरुकनये गुरुशिष्यादिसङ्गतिमुपादयति-धर्मेति- धर्म गृणात्युपदिशतीति व्युत्पत्त्या शिष्यं प्रति धर्मानुशासकतया धर्मोपदेशकत्वेनैकस्य गुरुभावोऽन्यस्य तु शिक्ष्यते इति शिष्य इति व्युत्पत्त्या उद्देश्यं यद् धर्मानुशासनलक्षणफलं तद्योगित्वादिना तद्वत्त्वादिना शिष्यभाव इत्येवं गुरुशिष्यादिसङ्गतिः सम्भवति । अतः सा व्यवहास्य देशना सम्यक्त्वहेतु. र्भवति । कथं सम्यक्त्वहेतुत्वं तस्या इत्याकालानिवृत्तये उक्त विनयेत्यादि-विनय-वैयावृत्त्यादि यच्छुभं तदनुकूलत्य वीर्योलासस्याधानेनोत्पादनेनेत्यर्थः ॥ ५ ॥ निश्चयदेशनाया मिथ्यात्वकारणत्वस्योपपादकं षट्सप्ततितमं पद्यं विवृणोति- भुत इतीति। यत्र यस्मिन् निश्चयनये। कथम्भूते इत्याकालायां तद्विवरणं-कक्षीकृतेत्यादि-कक्षीकृतः स्वीकृतः ‘यत् सत् तत् क्षणिकम्' इत्येवं रूपः क्षणिकत्वपक्षो येन स कक्षीकृतक्षणिकत्वपक्षः, एवम्भूनो य ऋजुसूत्रादिनयस्तद्वत्तौ- तन्मार्ग, यदा यत् कर्म यत् करोति तदेव तद् विनश्यति नोत्तरकालं तदनुवर्तत इति । अन्य एव फलभोक्तृतो भिन्न एव, क्षणस्थायित्वात् । क्षणः क्षण. स्वरूपः। कुरुते हितमहितं वा कर्म करोति, अन्य एव च कर्मकर्तुः क्षणिकाद् भिन्न एव च, भुले अन्यकर्तृककर्मफलं भुते, एवं चास्मिन् नये क्रियाऽक्रियाफलौचित्यं न सम्भवति । यश्च बहुवित्तव्ययायाससाध्यं कर्म करोति स उत्तरकालभावि तत्कर्मफलमभिलषति, तदभिलाषेणैव विहितकर्मणि प्रवृत्तिर्भवति, यदि च क्षणिकोऽहं नोत्तरकाले स्थास्यामि, अत एव तत्फलभोगोऽपि मम न स्यादेव तर्हि किमर्थमहमेतत् कर्म कुर्यामिति जानन् न कश्चित् तत्र प्रवर्तेत, एवं यथेष्टमभक्ष्यभक्षणा-ऽगम्यागमनादिकर्मकरणेऽपि तत्कर्तुम क्षणिकस्योत्तरकालमस्थायित्वादेव कृतस्य निषिद्धस्य कर्मणोऽनिष्ट फलं न भविष्यतीति किमिति निषिद्धकर्मकरणतो विरमामि यथेष्टमाचरामीति जानन् न कश्चिन्निषिद्धकर्मणो निवर्ततेत्येवं प्रवृत्तिनिवृत्तिनियमव्याहतिरेव स्यादित्याशयः । गुरुशिष्यादिसङ्गतिरपि नास्मिन्नये इत्याह- स्वरसत एवेति-स्वभावत एवेत्यर्थः । प्रतीत्योत्पद्यमानानाम् उत्तरोत्तरक्षण कुर्वदूपात्मकपूर्वपूर्वक्षणमपेक्ष्य जायमानानां क्षणानां क्षणिकानाम्, उपकार्योपकारकभावरहित्येन धर्मानुशासनफलसम्पादनेनोपकार्यः शिष्यः, धर्मानुशासकत्वेनोपकारको गुरुरित्येवं शिष्य-गुर्वोर्य उपकार्योपकार कभावस्तद्राहित्येन, यो हि क्षणो धर्मस्वरूपाभिज्ञो भवति स धर्मस्वरूपाभिज्ञतत्क्षणकुर्वद्रूपात्मक पूर्वक्षणादेव तत्सन्ततिपतितान्न तु धर्मानुशासकगुरुक्षणाद् भिन्नसन्ततिगतादित्याशयः। एवं च कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रनयवृत्तौ यत्र गुरु शिष्यश्च नास्ति अयमस्य गुरुरयमस्य शिष्य इति न सम्भवति, यमुपदिशति स उपदेशकाल एवं वर्तते न तत्रानुशासनफलम् , यस्य च तत् फलं न तमुपदिशति, एवममुं धर्मानुशासनेनानुगृह्णामीति यस्येच्छा स नोपदेशकाले वर्तत इति स न धर्मानुशासको यश्च धर्मानुशासको न तस्य निरुक्तच्छेत्येवमपि न गुरुशिष्यसङ्गतिरस्मिन्नय इत्याशयः । उत्तरार्द्ध सङ्गमयति- अस्येति- यत्पदेनानन्तरमेवाभिहितस्य । निश्चयस्पेति मूलमधृत्वैव तद्विवरणं-निश्चयनयस्येति । "प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः" इत्यस्य स्थाने "प्रवृतिमूलव्यवहारोच्छेदनाद् मिथ्यात्वहेतुः" इति पाठो युक्तः । कथमेवमवधारणीयमित्या झाझानिवृत्तये स्वाह- तदुरजीविनामिति- निश्चयनयोपजीविनामित्यर्थः । ३१

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496