Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 295
________________ २३४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वेदानां प्रामाण्यम्, न तु प्रामाणान्तराविषयेऽपि, लक्षणार्थविधयैवानादिमीमांसासंप्रतिपत्तेरित्युच्यते तीसति विशेषतो बाधके कर्मधारयविधयैव वेदानां प्रामाण्यम् , न तु प्रमाणान्तराविषयेऽपि तत्पुरुपादिविधया, तथैवानादिमीमांसासंप्रतिपत्तरित्येव कल्पयित्वा किमिति न स्वचेतः सन्तोषयसि ? बहुव्रीहितस्तत्पुरुषस्य बलत्वे त्वयाप्यस्या एव रीतेरनुसतव्यत्वात् , न च बहुव्रीहेः सर्वपदार्थानां लाक्षणिकत्वादेव दौर्बल्यम् , एकपदलक्षणयापि बहुव्रीहेस्तत्र तत्रापादितत्वादिति पक्षपातमात्रमेवेति दिक् । एवम्भूतस्य नयस्य मते देश-प्रदेशनिर्मुक्तं- देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः। न च विन्ध्यहिमवदादिभावाभावावच्छेदकतया आकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैव तेनानभ्युपगमात् । व्यवहारस्तु कल्पितेनापि वस्तुना निर्वहतीति न ततः परमार्थसिद्धिरिति भावः ॥ ६१ ॥ अत्र समभिरूढनयाकूतमुत्प्रेक्ष्य शब्दनयानुसारिणो दूषयन्ति-अथेति । न तु प्रमाणान्तराविषयेऽपीति- प्रमाणान्तरविषये शब्दानामनुवादकत्वादेव न प्रामाण्यमित्यतः प्रमाणान्तराविषयेऽपीत्युक्तम् , एवमग्रेऽपि । 'लक्षणार्थविध इत्यस्य स्थाने 'लक्ष्यार्थविधया, तथैवा' इति पाठो युक्तः, तथा च प्रमाणान्तराविषयेऽथें स्वशक्यार्थप्रतिपादकत्वेनैव वेदानां प्रामाण्यम् , प्रमाणान्तराविषयेऽप्यर्थे लक्ष्यार्थप्रतिपादकत्वेन वेदानां न तु प्रामाण्यमित्यर्थः। कथं न तथा प्रामाण्यमित्यपेक्षायामाह-तथैवेति- उत्तप्रकारेणेवैत्यर्थः । अनादिमीमालासंप्रतिपत्तेः अनादिवृद्धाप्तपरम्परोपनीतप्रमाणपरिशोधितयुक्तिसिद्धाभ्युपगमात् । कर्मधारयविषयैव कर्मधारयसमासरूपत्वेनैव । वेदानां समासस्वरूपवेदवाक्या. नाम् , तेन समासानात्मकवेदवाक्यानां कर्मधारयानात्मकत्वेनान्यथैव प्रामाण्येऽपि न क्षतिः । न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया' इत्येकं वाक्यम् , तथा च समासात्मकवेदवाक्यानां प्रमाणान्तराविषयेऽप्यथें कर्मधारयातिरिक्ततत्पुरुषादिसमासात्मकत्वेन न तु प्रामाण्यमित्यर्थः । इयं रीतिस्त्वयाऽप्याश्रयणीयैत्र, कथमन्यथा तत्पुरुष-बहुव्रीहिसमासयोक्षिणिकपदघटितत्वाविशेषेऽप्यसति बाधके तयोरुभयोरपि सम्भवे तत्पुरुषसमासात्मकत्वेन वाक्यस्य प्रापाण्यं न तु बहुव्रीहिसमासात्मकत्वेनेत्यभ्युपगमस्तवापि स्यादित्याह- बहुव्रीहित इति । 'बलत्वे' इति स्थाने 'बलवत्त्वे' इति पाठो युक्तः । ननु बहुव्रीहौ सर्वपदानां लक्षणा, तत्पुरुषे त्वेकस्यैव पूर्वपदस्य लक्षणेति तत्पुरुषापेक्षया बहुव्रीहेदौर्बल्यमित्याश प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- एकपदलक्षणयाऽपीति । - प्रस्तुतविषये एवम्भूतनयाभिमतप्रतिपादकमुत्तरार्द्ध विवृणोति- एवम्भूतस्येति । 'नयस्य मते' इति पूरणम् । देश-प्रदेशनिर्मुक्तमिति मूलस्य विवरणम्-देश-प्रदेशकल्पनारहितमिति, अस्य फलितकथनम्- अखण्डमेवेति । यद्यखण्डमेव वस्तु सत् तर्हि तत्र देश-प्रदेशप्रतीतेरनुभूयमानाया अपलाप: स्यादित्यत आह-देश-प्रदेशकल्पना विति-तथा च तत्र देश-प्रदेशप्रतीतिरनुभूयमाना न नाम नास्ति, किन्तु सा भ्रमरूपत्वान्न देश-प्रदेशसाधिकेति । तन्मते एवम्भूतनयमते । ननु यद्या माशादेवस्तुनो देश-प्रदेशौ न ससस्तहि कथमेकस्मिन्नेवाकाशे विरुद्धयोहिमवत्-तदभावयोर्विन्ध्य तदभावयोः सत्त्वम् , देशसद्भावे त्वेकदेशावच्छेदेन विन्ध्यसद्भावो हिमाचलाभावश्च तदन्यदेशावच्छेदेन हिमाचलसद्भावो विन्ध्याचलाभावश्चेत्येकत्राप्याकाशे देशरूपावच्छेदकभेदेन विन्ध्य-तदभावयोहिम-तदभावयोः सत्त्वोपपत्ति रित्यवच्छेदकनयाऽऽकाशादिदेश कल्पनमावश्यकमित्याशङ्कां प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-परेणेति- सर्व वस्तु खस्मिन्नेव प्रतिष्ठितं न त्वस्मिन्नन्यस्य सत्त्वम् , आधाराधेयभावश्च सम्बन्धे सति भवति, अन्यस्य त्वन्येन समं सम्बन्ध एव नास्ति, तथा च गगनेन समं विन्ध्यादेः सम्बन्धाभावाद् गगनादौ विन्ध्य-तदभावौ वर्तेते इत्येव नेष्यते, कुतस्तदवच्छेदकतया देशसिद्धिरिति भावः । तेन एवम्भूतनयेन। ननु यद्याकाशादावन्यस्मिन्न विन्ध्यादिः समस्ति तर्हि 'दक्षिणस्यां दिश्याकाशे विन्ध्याद्रिवर्तते, उत्तरस्यां दिशि गगने हिमाचलो वर्तते' इत्येवं विभिन्नदेशावच्छेदेन विन्ध्यादिमत्त्वव्यवहारो न निर्वहेदित्यत आह-व्यवहारस्त्विति । वस्तुना देश-प्रदेशादिमदाकाशादिवस्तुना। ततः व्यवहारतः ॥१॥

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496