Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
२२३
इति नीयम्, निषादस्य वेदान्तराध्ययनप्रसङ्गात् । यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा पीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्त विद्याप्रयुक्तेर कल्पना निषेधविधौ सङ्कोचाभावादिति ।
अत्र शब्दनयानुसारिणो नव्याः- तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लृप्तत्वेन गौरवानवकाशात्, अथ शक्यसम्बन्धरूपलक्षणाज्ञाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेर्न लक्षणाज्ञानहेतुः कल्प्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात्, न चैवम्, तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति यदि च साक्षात्परम्परा साधारण सम्बन्धेन शक्तिज्ञानमेव शाब्दबोध सामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरवमुद्भावयितुमपि शक्यम्, सम्बन्धगौरवस्यादोषत्वात् । अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह - यदि चेति । 'कर्मधारयेऽपि स्यात्' इत्यस्य स्थाने 'कर्मधारयेऽपि लक्षणा स्यात्' इति पाठो युक्तः । षष्ठीसमास पत्र निषादानां स्थपतिर्निषादस्थपतिरिति षष्ठीतत्पुरुषसमास एव । तस्य युकत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्मण क्षत्रिय-वैश्यजातीयान्यतमस्यैवेत्यर्थः । अप्राप्तविद्याप्रयुक्तेः सङ्करजातीयत्वेन शूद्रे निषादे तस्कर्तृकयागोपयोगि मन्त्राध्ययनं लक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य 1 अकल्पनात् निषादकर्तृकयागान्यथानुपपत्त्या यत् कल्पनं तस्याभावात् । तथा च निषेधविधौ स्त्रीशूद्रौ नाधीयेतामित्यत्र । सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागो ग्युक्तमन्त्राध्ययनातिरिक्ताध्ययनपरत्वाभावात् ।
अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमहतयोपस्थितानां नव्यानां साम्प्रतनयानुसारिणामाकूतमुद्घाटयति- भत्रेति । ' तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य पक्षपातमात्रमेवेति दिकू' इत्यन्तं तदाशयप्रकटनम् । विशेषणज्ञानविषयेति - विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वमिति शक्यसम्बन्धरूपलक्षणाज्ञानं शक्तिविषय सम्बन्धज्ञानम्, तत्र विषये शक्तेर्विशेषणत्वेन शक्तिविशिष्टबुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तेर्ज्ञानस्य हेतुत्वमिति लक्षणाज्ञानस्य शाब्दबोधहेतुत्वेऽपि तद्वारा शक्तिज्ञानस्य हेतुत्वमावश्यकमेव, तथा च निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषय कशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम्, निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषाद सम्बन्धिनि लक्ष गाssवश्यकीति तज्ज्ञानं शक्तिज्ञानं चौकशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणाज्ञानहेतुः ' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः । यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छन्दा. वधारणं तस्य प्रमातृसहस्रस्य निषाद सम्बन्धि धरतिबोधस्य, प्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र शाब्दबोधहेतुत्वकल्पन मावश्यकमेवेति समाधत्ते - भवेदेवमिति - लक्षणाज्ञाने विशेषणज्ञानविषया कारणतया क्लृप्तस्य शक्तिज्ञानस्यैव शाब्दबोधहेतुत्वं न तु लक्षणाज्ञानस्येति तदा स्यादित्यर्थः । न चैवमिति षष्ठीसमासेन कस्यचित् प्रमातुर्बोधो न भवत्येवेति न चेत्यर्थः । तादृशत्रोध सहस्त्रस्यापि षष्ठीतत्पुरुष समासतयाऽवधारितवाक्यप्रभवशाब्दबोध सहस्रस्यापि यक्षणिकार्थविषयकस्य । तत्पुरुषे पूर्वग्दस्य शक्यसम्बन्धरूपलचणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वकल्पने यद् गौरवं तदपि वास्तीत्याह यदि बेति- शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयतासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम्, यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र स्वविषयसम्बन्धित्वलक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञावस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाङ्गीक्रियते, किन्तु साक्षात्परम्परासाधारण सम्बन्धसामान्येन शक्तिप्रकारकज्ञानत्वेन शक्तिज्ञानस्योपस्थितिसामान्यद्वारैकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षगाविषयत्वमपि शक्तिलक्षणो भयसाधारणान्यतरत्वादिना सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तत्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः ।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496