Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२०१
स्मरणं जन्यते, तत्रासत्तिवशेन ' विशेष्ये विशेषणम्' इति रीत्या पङ्कजनिकर्तृत्व-पद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः, यद्वा पङ्क-जनि-कर्तृत्वादीनां प्रत्येकपदोपस्थितानां प्रथमस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मवस्यानन्तरमानयनान्वय इत्यागृह्यम् ; न चैकस्य पङ्कजपदस्य पद-वाक्यभावविरोधः, समु. दायापेक्षया पदत्वम् , अवयवापेक्षया च वाक्यत्वमित्येवमविरोधात् ; न च गवादिपदेऽपि योगरूढे (ढिः), 'डो' प्रत्यये शक्यवधारकाभावानियतैकप्रकृतिकत्वेनावापोद्वापकल्पनासम्भवात् , अनुशासनं तु रेखा. गवयेन सत्यगवयज्ञानवत् साधुत्वाद् व्याख्यानमात्रपरम् ; न च धेन्वादिपदेऽप्येवं स्यात् , जानु-दानु
पदुमद्वयविषयकम् । भवतु मिलितविषयकमेकं स्मरणं योगरूढिप्रतिसन्धानलक्षगसहकारिसहकृतात् पङ्कजपदादेवमपि कथमेक. देव पकजनिकर्तत्वविशिष्टपमान्वयबोध इत्यपेक्षायामाह-तत्रेति-मिलितगोचरैकस्मरणे सतीत्यर्थः । आसत्तिवशेन पङ्कजेत्येकपदोपस्थाप्यत्वलक्षणासत्तिबलेन । विशेष्य इति-विशेष्ये आनयने कर्मताद्वारा पद्मस्य तत्र कर्तुस्तत्र जनेस्तत्र पकजस्यान्वय इत्येवं ' विशेष्ये विशेषणं तत्रापि विशेषणान्तरम्' इति रीया पङ्कजनिकर्तत्वविशिष्टपद्मत्वविशिष्ट नयनस्यैकदैवान्वयबोधः सम्भवति, यतो विशिष्टवैशिष्ट्यबोध एवं विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वम्, प्रकृतान्वय. बोधोऽपि यदि विशिष्टवैशिष्ट्यावगाहिबोधः स्यात् तदा विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र कारणत्वं भवेदिति पङ्कजनिकर्तत्वविशिष्टपद्मत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयो निरुक्तपद्मत्वप्रकारकस्मरणरूप इति निरुक्तपद्मत्वविशिष्टे पङ्कजपदसल्केतप्रतिसन्धानाभावान्निरुक्तपद्मत्वप्रकारकस्मरणाभावे निरुक्तशाब्दबोधो न भवेदपि, 'विशेष्ये विशेषणम्' इति रीत्या निरुतबोधाभ्युपगमे तु स बोध उपलक्षितवैशिष्ट्यावगाह्येव, तत्र च न विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वं किन्तु विशिष्टबुद्धिरूपं तं प्रति विशेषणज्ञानमेव कारणम् , मिलितगोचरमेक स्मरणं च विशेषणज्ञानं भवत्येवेति तत उक्तरीत्याऽन्वयबोधः स्यादेवेत्यर्थः। अथवा पङ्कजपदसन्निविष्टानामुपपद -धातु-प्रत्ययपदानां प्रत्येकशक्त्योपस्थितानां पङ्क-जनिकर्तृत्वानां प्रथमं पकजनिकर्तेत्येवमन्वयबोधस्तदनन्तरं समुदाय शक्त्योपस्थितेन पद्मत्वविशिष्टेन समं पक्कजनिकर्तुरभेदेनान्वयबोधस्तदनन्तरं पङ्कजनिकर्तत्वविशिष्टपद्मस्य कर्मत्वरूपद्वितीयार्थद्वाराऽऽनयनान्वयबोध इत्येवमभ्युपगमेऽपि न किञ्चिदनुपपन्न मित्याह-यद्वेति । तेन समं पङ्कजनिकर्तत्वविशिष्टेन समम्। 'पद्मत्वस्य' इयनन्तरम् 'अन्वयबोध' इत्यस्यानुकर्षण सम्बन्धः। 'आनयनान्वयः' इत्यस्य पद्मत्वविशिष्टस्य कर्मत्वद्वाराऽऽनयनेन सममन्वयबोध इत्यर्थः । नन्वेकस्यैव पकजपदस्योपपद-धातु-प्रत्ययैः प्रत्येकं स्वस्वशक्त्युपस्थितार्थानामन्वयबोधजनकत्वेन वाक्यत्वं समुदायशक्त्या च पद्मरूपैकार्थोपस्थितिमात्रजनकत्वेन पदत्वमित्येवं पदत्व-वाक्यत्वयोरेकस्मिन् समावेशो विरोधान्न संभवतीत्याशय प्रतिक्षिपतिन चेति । पदत्व-वाक्यत्वयोरेकापेक्षयैकत्रावृत्तित्वमेव विरोधो न त्वपेक्षाविनिर्मोकण कत्रावृत्तित्वम् , पक्कजादे च समुदायापेक्षया पदत्वमवयवापेक्षया च वाक्यत्वमित्येकापेक्षयकत्रावृत्तित्वलक्षणस्य विरोधस्यापेक्षाभेदेनैकत्र सत्त्वेऽपि न हानिरिति निषेधहेतुमुपदर्शयति-समुदायापेक्षयेति । ननु गोपदेऽपि गमिधातु-डोप्रत्ययाभ्यां गमनकर्तृत्वान्वयबोधकत्वस्य समुदाय शक्त्या गोरूपार्थोपस्थितिजनकत्वस्य च सम्भवेन योगरूढिः स्यादित्याशय प्रतिक्षिपति-न चेति । निषेधे हेतुमाहडोप्रत्यय इति डोप्रत्ययस्य कर्तरि शक्तिरित्येवं निश्चयकारणं नास्ति, 'गमेड?' [पा० उगा० २२५] इत्यनेन गमिधातुत एव डोप्रत्ययस्य विधानमिति नियतकप्रकृतिकत्वेन गोपदसाधुत्वार्थमेव डोप्रत्ययविधानम्, न तु डोप्रत्ययसद्भावे गमनकर्तरूपार्थप्रत्ययभावः, डोप्रत्ययमावे गमनकर्तरूपार्थप्रत्ययाभाव इत्येवमन्वय-व्यतिरेकलक्षणावापोद्वापकल्पनायाः शक्तिपाहिकाया अभावात् , यतः पदे गमिधातु स्ति, अथ च डोग्रत्यय इत्येवं गमिधातोरभावे डोप्रत्ययसद्भावे गमनातिरिक्कार्यकर्तत्वाव.. बोधस्यादर्शनेन डोप्रत्यये कर्तृत्वे शक्त्यवधारणासम्भवादित्यर्थः । यदि डोप्रत्ययस्य न कर्तृत्वरूपार्थे शक्ति, तर्हि किमर्थ, गमिधातुतो डोप्रत्ययविधानमित्यपेक्षायामाह-अनुशासनं विति-गवयानभिज्ञस्य सत्यगवयस्वरूपावगतये यथा गवयाकृति रेखया दर्शयते ततो रेखागवयेन सत्यगवयस्वरूपमवगच्छति पुरुषस्तथा गमिधातुतो डोप्रत्ययविधानतो गोपदसाधुत्वमात्रा.. वगतिर्भवति, तदर्थमेव तु "गमे?" इति गौरिति व्याख्यानमात्रम्, अर्थाद् धातुप्रत्ययार्थसमाश्रयणेन गौरित्यस्य गच्छतीति गौरिति व्याख्यानमात्रपरं प्रकृतिप्रत्ययविभागसमाश्रयणम् , न तु वस्तुगत्या गमनकर्तेति गोपदात् प्रतीयते,
२६

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496