Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 210
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १७७ इह " कुम्भाकुम्भ० " इत्यादिगाथापश्चार्द्धन षट् भङ्गाः साक्षादुपात्ताः, सप्तमस्तु आदिशब्दात् , तद्यथा-कुम्भः १, अकुम्भः २, अवक्तव्यः ३, उभयत्ति- संश्वाऽसंश्च' इत्युभयम् ४, ' सन्नवक्तव्यः' इत्युभयम् ५, तथा 'असन्नवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सन्नसन्नवक्तव्यः' इति ७; अत्रोभयपदस्य समभिव्याहतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रै विध्याद् आवृत्त्या त्रिविधोभयबोध इति न्यायमार्गः, सामान्यशक्तावप्युभयपदादेकदेव समभिव्याहारमहिना त्रिविधविशेष प्रकारको बोध इत्यनभवमार्गः ॥ तदेवं स्याद्वाददृष्टसप्तभेदं घटादिकमर्थं यथा वचनाद् वाक्यस्वाभाव्यादेव स्यात्पदमेवकारश्च भङ्गमात्रे समनुगच्छतः, तथा च स्यादयं कुम्भ एव इति प्रथमो भगः, स्यादयमकुम्भ एवेति द्वितीयो भङ्गः, इत्येवं दिशा सप्त भङ्गा अत्र ज्ञेयाः । चतुर्थ - पञ्चम- षष्ठभङ्गा उभयधर्मसम्मेलन. समुद्भवा इति 'कुम्भा कुम्भा ऽवत्तवोभयरूवाइ' इत्यत्रोभयपदत: प्रकटिता भवन्तीत्याह- उभयतीति - सामान्यतः सप्तभङ्गी 'स्यादस्ति, स्यान्नास्ति' इत्येवं दिशैव प्रवर्तते, तदनुसन्धानेन 'सँचाऽसँश्व' इत्युभयमित्याद्युक्त्या चतुर्थादिभङ्गामेडनम् , प्रकृताभिप्रायेण तु 'कुम्भश्चाकुम्भश्च' इत्युभयम् , 'कुम्भोऽवक्तव्यः' इत्युभयम्, तथा 'अकुम्भोऽवक्तव्यः' इत्युभयमित्येवमुल्लेखो बोध्यः, सप्तमभङ्गोल्लेखस्तु 'सन्नसन्नवक्तव्यः' इत्यस्य स्थाने 'कुम्भोऽकुम्भोऽवक्तव्यः' इत्येवं ज्ञेयः। ननु 'कुम्भा-ऽकुम्भा-ऽप्रत्तवोभयरूवाइ' इत्यत्रैकस्यैवोभयपदस्य श्रूयमाणत्वेन तस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तत्वेन ततः कुम्भत्वा-ऽकुम्भत्वोभयप्रकारकबोधस्य चतुर्थभङ्गजन्यतयाऽभिप्रेतस्य कुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य पञ्चमभङ्गजन्यतयाऽभिप्रेतस्याकुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य वा षष्ठभङ्गजन्यतयाऽभिप्रेतस्यैकस्यैवोत्पादः स्यादेकस्य समभिव्याहारस्यकविधबोधजनन एवं सामादित्यत आह- मत्रोभयपदस्येति । समभिव्याहारत्रैविध्यादिति- कुम्भा ऽकुम्भोभयेति कुम्भा-ऽवक्तव्योभयेति अकुम्भाऽवतव्योभयेत्येवं समभिव्याहार• विध्यादित्यर्थः। ननु सकृदुचरितः शब्दः सकृदेवार्थ गमयतोति नियमादुभयपदस्थ सकृदुच्चरितस्य कुम्भाकुम्भोभयादिसमभिव्याहारेज्वेक एव कश्चित् समभिव्याहारो न तु समभिव्याहारत्रैविध्यमिति कथं त्रिविधोभयबोध इत्यत आहआवृत्त्येति- उभयपदस्य त्रिवारमुच्चारणं क्रियत इत्युच्चारणभेदादुभयपदानि त्रीणि संवृत्तानीति समभिव्याहारत्रैविध्यात् त्रिविधोभयबोधो न्यायमार्गपरिनिष्ठित इत्यर्थः । उभयपदस्य सामान्यत उभयत्वावच्छिन्न एव शक्तिः, न तु समभिव्याहृतपदार्थतावच्छेदकद्वय प्रकारकबुद्धिविषये एवमपि समभिव्याहारमहिम्ना सामान्यशकादप्युभयपदात् कुम्भाउकुम्भोभयत्वप्रकारकस्य कुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्याकुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्य चैकदैव बोधस्यानुभवबलादभ्युपगमविषयत्वमित्याह-सामान्यशक्तावपीति । सप्तभङ्गयर्पणाद् विशेषिततरत्वं शब्दनयस्य ऋजुसूत्राद् यत् प्रकान्तं तन्निगमनपरां विशेषावश्यकोक्किं प्रश्नाति--तदेवमिति। तत् तस्मात् । एवं 'स्यात् कुम्भः, स्यादकुम्भः' इत्येवं प्रकारेण । स्याद्वाददृष्टसप्तभेदम् अनन्तधर्मात्मकवस्त्वभ्युपगमपरस्याद्वादप्रमाणराजाकलितकुम्भत्वा-ऽकुम्भत्वादिसप्तविध. धर्मविशिष्टम् । यथाविवक्षितं स्वपर्यायापेक्षया कुम्भत्वेन विवक्षितं परपर्या यापेक्षयाऽकुम्भत्वेन विवक्षितमित्येवं विवक्षामनतिक्रम्य तत्तद्धर्माकलितम्। एकेन केनापि भड़केन यदा सत्त्वधर्मावलम्बनेन ऋजुसूत्रः स्यादस्तीति भङ्गेन घर्ट प्रतिपादयति तदाऽसत्त्वधर्मावलम्बनेन शब्दनयः स्यान्नास्तीति द्वितीयभङ्गेनासत्त्वधर्मवत्तया विशेषिततरं घटं प्रतिपद्यते द्वाददृष्टसप्तवर्मवत्तयैव घर किमिति न प्रतिपद्यते शब्दनयः ? एवमपि ऋजुसूत्रात् स्वपर्यायापित. कुम्भत्वैकधर्मालिङ्गितघटाभ्युपगमप्रवणाद् विशेषिततरत्वं शब्दनयस्य स्यात् , एवं सति सप्तभयर्पण दिति हेतुरपि विशे. षिततरत्वे सम्यगुपपद्यते. एकभनेन विशेषिततरवे तु सप्तभनय कदेशकमार्पणस्यैव सप्तभायर्पणत्वेन विवक्षायामपचारेण तदुपपादनं स्यादिसत आह-नयत्वादिति - यदि स्याद्वाददृष्ट सप्तभेदमेव घटादिकं सम्पूर्णया सप्तमाया प्रतिपादनतो विशेषिततरं घटमसौ शन्दनयः स्त्रीकुर्यात् तदा प्रतिधर्म सप्तधर्मप्रतिपादकमसावशेषधर्माकलितवस्तुविषयकं प्रमाणमेव भवेन तु वस्त्वंशग्राहकनयरूपः स्यादतो नयत्वान्यथानुपपत्त्य केनैव केनापि भङ्गेन विशेषिततरं घटादिकं शब्दनयः प्रतिपद्यत इत्यर्थः । यद्भङ्गविषयीभूतधर्मवतया घटादिकमसावभ्युपगच्छति तद्धर्माविशेषितमेव घटादिकमृजुसूत्रोऽभिमन्यत इत्येतावताऽस्यर्जुसूत्राद् विशेषिततरवस्तुमाहित्वेन ततो विशेषिततरत्वमप्युपपद्यत एव, भङ्गसप्तकप्रवृत्तौ सत्यामेव यद्भग

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496