Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/003102/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सदृशं पवित्रमित मिह विद्यते। IIIIIIIIIII न हि ज्ञानेन Tanthan माणिकचन्द-दिगम्बर-जैन ग्रन्थमाला। चारित्रसारः। CHAY Sheerantemirenal DER ile Persation Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ माणिकचन्द-दिगम्बरजैनग्रन्थमाला, नौवाँ पुष्प । श्रीमचामुण्डरायविरचितः चारित्रसारः। जयपुरनगरनिवासिपण्डितइन्द्रलालसाहित्यशास्त्रिणा पण्डितउदयलालकाशलीवालेन च संशोधितः । प्रकाशिकामाणिकचन्द-दि० जैनग्रन्थमाला-समितिः। भाद्र वीर नि० २४४३। विक्रमाब्द १९७४। Page #4 -------------------------------------------------------------------------- ________________ प्रकाशक नाथूराम प्रेमी, मंत्री, माणिकचन्द्र ग्रन्थमाला, हीराबाग, पो० गिरगांव-बम्बई । मुद्रकचिंतामण सखाराम देवळे, मुंबईवैभव प्रेस, सर्व्हट्स् ऑफ इंडिया सोसायटीज होम, सँढर्ट रोड, गिरगांव, बंबई। Page #5 -------------------------------------------------------------------------- ________________ माणिकचन्द-ग्रन्थमाला। पूर्वप्रकाशित ग्रन्थ। १ लघीयस्त्रयादिसंग्रह । इसमें भट्टाकलंकदेवकृत लघीयस्त्रय सटीक, आचार्य अनन्तकीर्तिकृत लघु सर्वज्ञसिद्धि और बृहत्सर्वज्ञसिद्धि तथा अकलंकदेवकृत स्वरूपसम्बोधन, इन चार ग्रन्थोंका संग्रह छपा है । मूल्य ।) २ सागारधर्मामृत सटीक । पं० आशाधरकृत मूल और स्वोपज्ञ टीका सहित । मूल्य ।) ३ विक्रान्तकौरवीय नाटक । कवि श्रीहस्तिमल्लकृत । मू०१८) ४ पार्श्वनाथचरित । महाकवि वादिराजसूरिकृत सुन्दर काव्य । मूल्य ॥) ५ मैथिलीकल्याण नाटक । कवि श्री हस्तिमल्लकृत । मू० ।) ६ आराधनासार सटीक । मुल गाथा श्रीदेवसेनाचार्यकृत और संस्कृत टीका श्रीरत्नकीर्तिदेवकृत । मूल्य।)। ७ जिनदत्तचरित्र । आचार्य गुणभद्रकृत । मूल्य ।)॥ ८ प्रद्युम्नचरित्र । आचार्य महासेनकृत काव्य । मू०॥) मिलनेका पता-- श्रीजैनग्रन्थरत्नाकर कार्यालय, हीराबाग, पो० गिरगांव-बंबई। Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ नमो निग्रंथगुरुभ्यः। श्रीमच्चामुंडरायप्रणीतः। चारित्रसारः। e: मंगलाचरणम् । अरिहननरजोहननरहस्यहरं पूजनार्हमहन्तम् । सिद्धान्सिद्धाष्टगुणान् रत्नत्रयसाधकान् स्तुवे साधून् । श्रीमजिनेन्द्रकथिताय सुमंगलाय लोकोत्तमाय शरणाय विनेयजतोः । धर्माय कायवचनाशयशुद्धितोऽहं स्वर्गापवर्गफलदाय नमस्करोमि ।। धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते । धर्मेणैव समाप्यते शिवसुखं धर्माय तस्मै नमः ॥ धर्मान्नास्त्यपरः सुहृद्भवभृतां धर्मस्य मूलं दया । धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म ! मां पालय ।। १ मोहनीयज्ञानदर्शनावरणान्तरायनष्टारम्। २ ' शरणं गृहरक्षित्रो' इत्यमरः। ३ अनाखिलकारकसमावेशः। Page #8 -------------------------------------------------------------------------- ________________ चारित्रसारे सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । सम्यग्दृष्टीनां चत्वारो वंदना प्रधानभूताः, अर्हतः सिद्धाः साधवो धर्मश्चेति । तत्राईसिद्धसाधवो नमस्कारेणोक्ताः । धर्म उच्यते । आत्मानमिष्टनरेंद्रसुरेंद्रमुनींद्रमुक्तिस्थाने धत्त इति धर्मः । अथवा संसारस्थान्प्राणिनो धरते धारयतीति वा धर्मः । स च सागाराऽनगारविषयभेदाद्विविधः । तत्र सागारधर्म उच्यते । दार्शनिकवतिकावपि सामायिकप्रोषधोपवासश्च । सचित्तरात्रिभुक्तिव्रतनिरतौ ब्रह्मचारी च ॥ आरंभाद्विनिवृत्तः परिग्रहादनुमतस्तथोद्दिष्टः । इत्येकादशनिलया जिनोदिताः श्रावकाः क्रमशः ॥ व्रतादयो गुणा दर्शनादिभिः पूर्वगुणैः सह क्रमप्रवृद्धा भवति । तत्र दार्शनिकः संसारशरीरभोगनिर्विणः पंचगुरुचरणभक्तः सम्यग्दर्शनविशुद्धश्च भवति । जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्ग्रथलक्षणे मोक्षमार्गे श्रद्धानं सम्यग्दर्शनम् । तस्य सम्यग्दर्शनस्य मोक्षपुरपथिकपाथेयस्य मुक्तिसुंदरीविलासमणिदर्पणस्य संसारसमुद्रगर्तावतमन्नजनदत्तहस्तावलंबनस्यैकादशोपासकस्थानप्रासादाधिष्ठानस्योत्तमक्षमादिदशकुलधर्मकल्पपादपमूलस्य परमपावनस्य सकलमंगलनिलयस्य मोक्षमुख्यकारणस्याष्टांगानि भवंति । निःशंकितत्त्वं निःकांक्षता निर्विचिकित्सता अमूढदृष्टित्त्वं उपबंहणं स्थितिकरणं वात्सल्यं प्रभावना चेति । तत्रेहलोक: परलोकः व्याधिमरणं अगुप्तिः अत्राणं आकस्मिक इति सप्तविधाद्भयाद्विनिर्मुक्तता, अथवाऽहंदुपदिष्टद्वादशांगप्रवचनगहने एकमक्षरं पदं वा किमिदं स्याद्वा ___ Page #9 -------------------------------------------------------------------------- ________________ "UNNNNNNN सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । न वेति शंकानिरासो निःशंकितत्त्वम् । ऐहलौकिकपारलौकिकेंद्रियविषय उपभोगाकांक्षानिवृत्तिः, कुदृष्टयंतराकांक्षानिरासो वा निःकाक्षता । शरीराद्यशुचित्वभावमवगम्य शुचीति मिथ्यासंकल्पापनयो. ऽथवाऽहत्प्रवचने इदमयुक्तं घोरं कष्टं न चेदिदं सर्वमुपपन्नमित्यशुभभावनानिरासो विचिकित्साविरहः । बहुविधेषु दुर्नयवर्त्मसु तत्त्वव. दाभासमानेषु युक्त्यभावमध्यवस्य परीक्षाचक्षुषा विरहितमोहममूढदृष्टित्त्वम् । उत्तमक्षमादिभावनयाऽऽत्मन आत्मीयस्य च धर्मपरिवद्धिकरणमुपबृहणम् । कषायोदयादिषु धर्मपरिभ्रंशकारणेषूपस्थितेषु स्वपरयोधर्मप्रच्यवनपरिपालनं स्थितिकरणम् । जिनप्रणीते धर्मामृते नित्यानुरागताऽथवा सद्यःप्रसूता यथा गौर्वत्से स्निह्यति तथा चातुर्वर्ण्य संघऽकृत्रिमस्नेहकरणं वात्सल्यम् । सम्यग्दर्शनज्ञानचा. रित्रत्रयप्रभावादात्मनः प्रकाशनमथवा ज्ञानतपःपूजासु ज्ञानदिनकरकिरणैः परसमयखद्योताद्योतावरणकरणं च, महोपवासादिलक्षणेन देवेंद्रविष्टरप्रकंपनसमर्थेन सत्तपसा स्वसमयप्रकटनं च महापूजामहा. दानादिभिधर्मप्रकाशनं च प्रभावना । एवंविधाष्टांगविशिष्टं सम्यक्त्वं तद्विकलयोरणुव्रतयो मापि न स्यात् । सम्यग्दर्शनमणुव्रतयुक्तं स्वर्गाय, महाव्रतयुक्तं मोक्षाय च । सम्यक्त्वमंगहीनं राज्यमिव श्रेयसे भवेन्नैव । न्यूनाक्षरो हि मंत्रो नालं विषवेदनाच्छित्यै ॥ सम्यक्त्वस्य गुणाः । संवेगो निर्वेदो निंदा गर्दा तथोपशमभक्ती । अनुकंपा वात्सल्यं गुणास्तु सम्यक्त्वयुक्तस्य ॥ Page #10 -------------------------------------------------------------------------- ________________ चारित्रसारे उक्तं चाबद्धायुष्कविषये सम्यग्दर्शनशुद्धा नारकतिर्यनपुंसकत्रीत्त्वानि । दुःकुलविकृताल्पायुदरिद्रतां च वज्रति नाप्यव्रतिकाः ॥ भवाब्धौ भव्यसार्थस्य निर्वाणद्वीपयायिनः । चारित्रयानपात्रस्य कर्णधारो हि दर्शनम् ॥ दार्शनिकस्य कस्यचित्कदाचिद्दर्शनमोहोदयादतीचाराः पंच भवंति । शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवा इति । तत्र मनसा मिथ्यादृष्टानचरित्रगुणोद्धावनं प्रशंसा, वचसा भूताभूतगुणोद्भावनं संस्तवः, एवं प्रशंसासंस्तवयोनिसकृतो वाक्कृतश्च भेदः, शेषाः सुगमाः । सम्यग्दर्शनसामान्यादणुव्रतिकमहाव. तिनोरिमेऽतीचाराः । __ व्रतिको निःशल्यः पंचाणुव्रतरात्रिभोजनविरमणशीलसप्तकं निरतिचारेण यः पालयति स भवति । तत्र यथा शरीरानुप्रवेशिकांड. कुंतादिप्रहरणं शरीरिणां बाधाकरं तथा कर्मोदयविकारे शरीरमानसबाधाहेतुत्वाच्छल्यमिव शल्यम् । तत्रिविधं, मायानिदानमिथ्यादर्शनभेदात् । माया वंचनं, निदानं विषयभोगाकांक्षा, मिथ्यादर्शनमतत्त्वश्रद्धानम् । उत्तरत्र वक्ष्यमाणेन महावतिनाऽपि शल्यत्रयं परिहर्त्तव्यम् । __ अभिसंधिकृतो नियमो व्रतमित्युच्यते, सर्वसावद्यनिवृत्त्यसंभवादणुव्रतं द्वीद्रियादीनां जंगमप्राणिनां प्रमत्तयोगेन प्राणव्यपरोपणान्मनोवाक्कायैश्च निवृत्तः । अगारीत्याद्यणुव्रतम् । Page #11 -------------------------------------------------------------------------- ________________ सम्यक्त्व - पञ्चाणुव्रतवर्णनम् । 1 तस्य प्रमत्तयोगात्प्राणव्यपरोपणलक्षणस्य पंचातीचारा भवति । बंधो, वधः, छेदः, अतिभारारोपणं, अन्नपाननिरोधश्चेति । तत्राभिमतदेशगमनं प्रत्युत्सुकस्य तत्प्रतिबंधहेतोः कोलादिषु रज्ज्वादिभि - र्व्यतिषंगो बंधः । दंडकशावेत्रादिभिः प्राणिनामभिघातो वधः । कर्णनासिकादीनामवयवानामपनयनं छेदः । न्यायादनपेताद्वारादतिरिक्तस्य भारस्य वाहनमतिलो भागवादीनामतिभारारोपणम् । तेषां गवादीनां कुतश्चित्कारणात् क्षुत्पिपासाबाधोत्पादनमन्नपाननिरोध इति । स्नेहस्य मोहस्य द्वेषस्य वोद्रेकाद्यदसत्याभिधानं ततो निवृत्तादरो गृहीति द्वितीयमणुव्रतम् । , तस्य व्रतस्य पंचातिकमा भवति । मिथ्योपदेशः, रहोऽभ्याख्यानं, कूटलेखक्रिया, न्यासापहारः साकारमंत्रभेदश्चेति । तत्राभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्त्तनम - भिसंधानं वा मिथ्योपदशः । स्त्रीपुरुषाभ्यामेकांतेऽनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं रहोऽभ्याख्यानम् । अन्येनानुक्तं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति वचनानिमित्तं लेखनं कूटलेखक्रिया । हिरण्यादेर्द्रव्यस्य निक्षेप्तुर्विस्मृतसंख्यस्याल्पसंख्यानमाददानस्य ' एवमित्य - ' नुज्ञावचनं न्यासापहारः । अर्थप्रकरणांग वि. कार भूक्षेपादिभिः पराकूतमुपलभ्य यदाविष्करणमसूयादिनिमित्तं तत्साकारमंत्रभेद इति । अन्यपीडाकरं पार्थिवादिभयवशादवशपरित्यक्तं वा निहितं पतितं विस्मृतं वा यद्दत्तं ततो निवृत्तादरः श्रावक इति तृतीयमणुव्रतम् । Page #12 -------------------------------------------------------------------------- ________________ चारित्रसारे अदत्तादानविरतेः पंचातीचारा भवति । स्तेनप्रयोगः, तदाहृतादानं, विरुद्धराज्यातिक्रमः, हीनाधिकमानोन्मानं, प्रतिरूपकव्यवहारश्चेति । मोषकस्य त्रिधा प्रयोजन; मुष्णन्तं स्वयमेव प्रयुक्ते, अन्येन वा प्रयोजयति, प्रयुक्तमनुमन्यते वा यः सः स्तेनप्रयोगः । अप्रयु. क्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । विरुद्धं राज्यं विरुद्धराज्यं, उचितन्यायादन्येन प्रकारेणादानं ग्रहणमतिक्रमः, तस्मिन्विरुद्धराज्ये योऽसावतिक्रमः स विरुद्धराज्यातिक्रमः । प्रास्था दिमानं तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मना ग्राह्यमित्ये वमादि कूटप्रयोगो हीनाधिकमानान्मानम् । कृत्रिमैर्हिरण्यादिभिर्वचना पूर्वको व्यवहारः प्रतिरूपकव्यवहार इति । __उपात्ताया अनुपात्तायाश्च परांगनायाः संगाद्विरतरतिर्विरताविरत इति चतुर्थमणुव्रतम् । ___ स्वदारसंतोषव्रतस्यातीचाराः पंच भवंति । परविवाहकरणं, इस्व. रिका--अपरिगृहीतागमनं, इत्वरिकापरिगृहीतागमनं, अनंगक्रीडा, कामतीत्राभिनिवेशश्चेति । तत्र सद्वेद्यस्य चारित्रमोहस्य चोदयाद्विवहनं विवाहः परस्य विवाहकरणं परविवाहकरणं । ज्ञानावरणक्षयोपशमादापादितकलागुणज्ञतया चारित्रमोहस्त्रीवेदोदयप्रकर्षादंगोपांगनामोदयावष्टंभाच्च परपुरुषानेतीति इत्वरिका या गणिकात्वेन वा पुंश्चलित्वेन परपुरुषगमनशीला अस्वामिका सा अपरिगृहीता, तस्यां गमनमित्वरिका-अपरिगृहीतागमनम् । या पुनरेकपुरुषभर्तृका सा परिगृहीता, तस्यां गमनमित्वरिकापरिगृहीतागमनम् । अंगं प्रजननं ___ Page #13 -------------------------------------------------------------------------- ________________ सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । ७ योनिश्च, ततो जघनादन्यत्रानेकविधप्रजननविकारेण रतिरनंगक्रीडा । कामस्य प्रवृद्धः परिणामोऽनुपरतवृत्त्यादिः कामतीव्राभिनिवेश इति । धन्यधान्यक्षेत्रादीनामिच्छावशात् कृतपरिच्छेदो गृहीति पंचममणुव्रतम् । परिग्रहविरमणव्रतस्य पंचातिकमा भवंति । क्षेत्र-वास्तु-हिरण्यसुवर्ण-धन-धान्य-दासी-दास-कुप्पमिति । तत्र क्षेत्रं सस्याधिकरणं, वास्तु अगारं, हिरण्यं रूप्यादिव्यवहारप्रयोजनं, सुवर्ण विख्यातं, धनं गवादि, धान्यं ब्रीह्यादि, दासीदासं भृत्यस्त्रीपुरुषवर्गः, कुप्प क्षौमकार्पासकौशेयचंदनादि, एतेषु एतावानेव परिग्रहो मम नाऽतोऽन्य इति परिच्छिन्नात्प्रमाणात् क्षेत्रवास्त्वादिविषयादतिरेक अतिलोभवशात्प्रमाणतिरेक इति । रात्रावन्नपानखाद्यलेह्येभ्यश्चतुर्व्यः सत्त्वानुकंपया विरमणं रात्रिभोजनविरमणं षष्ठमणुव्रतम् । वधादसत्याच्चौर्याच्च कामाद्यान्निवर्तनम् । पंचधाऽणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ॥ इत्यणुव्रतवर्णनम् । Page #14 -------------------------------------------------------------------------- ________________ चारित्रसारे शीलसप्तकवर्णनम् । स्थवीयसी विरतिमभ्युपगतस्य श्रावकस्य व्रतविशेषो गुणव्रतत्रयं शिक्षाबतचतुष्टयं शीलसप्तकमित्युच्यते । दिग्विरतिः, देशविरतिः, अनर्थदंडविरतिः, सामायिक, प्रोषधोपवासः, उपभोगपरिभोगपरिमाणं, अतिथिसंविभागश्चेति । ___ तत्र प्राची, अपाची, उदीची, प्रतीची, ऊर्द्ध, अधो, विदिशश्चेति । तासां परिमाणं योजनादिभिः पर्वतादिप्रसिद्धाभिज्ञानश्च ताश्च दिशो दुष्परिहारैः क्षुद्रजंतुभिराकुला अतस्ततो बहिर्न यास्यामीति निवृत्तिर्दिविरतिः । निरवशेषतो निवृत्तिं कर्तुमशक्नुवतः शक्त्या प्राणिवधविरतिं प्रत्यागूर्णस्यात्र प्राणनिमित्तं यात्रा भवतु मा वा सत्यपि प्रयोजनभूयस्त्वे परिमितादिगवधैर्बहिर्न यास्यामीति प्रणिधानादहिंसाद्यणुव्रतधारिणोऽप्यस्य परिगणितादिगवधेहिर्मनोवाक्काययोगैः कृतकारितानुमतविकल्पैर्हिसादिसर्वनिवृत्तिरिति महाव्रतं भवति । दिग्विरमणव्रतस्य पंचातीचारा भवंति । उद्धतिक्रमः, अधोऽतिक्रमः, तिर्यगतिक्रमः, क्षेत्रवृद्धिः, स्मृत्यंतराधानं चेति । तत्र पर्वतमरुद्भम्यादीनामारोहणाओँतिक्रमः । कूपावतरणादिरधोतिक्रमः । भूमिबिलगिरिदरीप्रवेशादिस्तिर्यगतिक्रमः । प्राग्दिशो योजनादिभिः परिच्छिद्य पुनर्लोभवशात्ततोऽधिकाकांक्षणं क्षेत्रवृद्धिः । इदमिदं मया योजनादिभिरभिज्ञानं कृतमिति तदभावः स्मृत्यंतनधानम् । दिम्विरमणव्रतस्य प्रमादान्मोहाद् व्यासंगादतीचारा भवंति । Page #15 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । मदीयस्य गृहांतरस्य तडागस्य वा मध्यं मुक्त्वा देशांतरं न गमिप्यामीति तन्निवृत्तिर्देशविरतिः । प्रयोजनमपि दिग्विरतिवद्देशविरतिव्रतस्य । तस्य पंचातीचारा भवंति । आनयनं, प्रेप्यप्रयोगः, शब्दानुपातः, रूपानुपातः, पुद्गलक्षेप इति । तत्रात्मना संकल्पितदेशे स्थितस्य प्रयोजनवशाद्यत्किंचिदानयेत्याज्ञापनमानयनम् । परिच्छिन्नदेकाहहिः स्वयमगत्वाऽन्यप्रेष्यप्रयोगेनैवाभिप्रेतव्यापारसाधनं प्रेप्य. योगः। व्यापारकरान्पुरुषानुद्दिश्याभ्युत्कासिकादिकरणं शब्दानुपातः। । रूपं निरीक्ष्य व्यापारमचिरान्निप्पादयंतीति स्वांगदर्शनं रूपानुपातः । कर्मकरानुद्दिश्य लोष्टपाषाणादिनिपातः पुद्गलक्षेप इति । दिग्विरतिः सार्वकालिको । देशविरतियथाशक्तिकालनियमेनेति । प्रयोजनं विना पापादानहेतुरनर्थदंडः। स च पंचविधः । अपध्यानं, पापोपदेशः, प्रमादाचरितं, हिंसाप्रदानं, अशुभश्रुतिरिति । तत्र जयपराजयवधबंधांगछेदसर्वस्वहरणादिकं कथं स्यादिति मनसा चिंतनमपध्यानम् । पापोपदेशश्चतुर्विधः। क्लेशवणिज्या, तिर्यवणिज्या, वधकोपदेशः, आरंभकोपदेशश्चेति । तत्रास्मिन्प्रदेशे दासीदासाश्च सुलभास्तान्नमून्देशान्नीत्वा विक्रये कृते महानर्थलाभो भविष्यतीति क्लेशवणिज्या । गोमहिप्यादीन्पशूनत्र गृहीत्वाऽन्यत्र देशे व्यवहारे कृते सति भूरि वित्तलाम इति तिर्यग्वणिज्या । वागुरिकशौकरिकशाकुनिकादिभ्यो मृगवराहशकुंतप्रभृतयोऽमुष्मिन्देशे संतीति वचनं वधकोपदेशः । आरंभकेभ्यः कृषिबलादिभ्यः क्षित्युदकज्वलनपवनवनस्यात्यारंभोऽनेनोपायेन कर्त्तव्य इत्याख्यानमारंभकोपदेशः । इत्येवं Page #16 -------------------------------------------------------------------------- ________________ चारित्रसारेप्रकारं पापसंयुक्तं वचनं पापोपदेशः । प्रयोजनमंतरेण भूमिकुट्टनसलिलसेचनाग्निविध्यापनवातप्रतिघातवनस्यातिच्छेदनाद्यवद्यकर्म प्रमादाचरितं विषशस्त्राग्निरज्जुकशादंडादिहिंसोपकरणप्रदानं हिंसाप्रदानम् । रागादिप्रवृद्धितो दुष्टकथाश्रवणश्रावणशिक्षणव्यापृतिरशुभश्रुतिरिति । एतस्मादनर्थदंडाद्विरतिः कार्या। ___ अनर्थदंडविरमणव्रतस्य पंचातीचारा भवंति । कंदर्पः, कौत्कुच्यं, मौखये, असमीक्ष्याधिकरणं, उपभोगपरिभोगानर्थक्यमिति । चारित्रमोहोदयापादितादागोद्रेकाद्यो हास्यसंयुक्तोऽशिष्टवाक्प्रयोगः सः कंदर्पः। रागस्य समावेशाद्धास्यवचनमविशिष्टवचनमित्येतदुभयं परस्मिन् दुष्टेन कायकर्मणा युक्तं कौत्कुच्यम् । अशालीनतया यत्किंचनानर्थकंबहुप्रलपनं तन्मौखर्यम् । असमीक्ष्याधिकरणं त्रिविधम् । मनोकायविषयभेदात् । तत्र मानसं परानर्थककाव्यादिचिंतनम् । वाग्भवं निष्प्रयोजनकथाव्याख्यानं परपीडाप्रधानं यत्किचन वक्तृत्वं च । कायिक प्रयोजनमंतरेण गच्छंस्तिष्ठन्नासीनो वा सचित्तचित्तपत्रपुष्पफलच्छेदनभेदनकुट्टनक्षेपणादीनि कुर्यात् , अग्निविषक्षारादिप्रदानं चारभेत । इत्येवमादि तदेतत्सर्वमसमीक्ष्याधिकरणम् । यस्य यावतार्थेनोपभोगोपरिभोगौ परिकल्पितौ तस्य तावानेवार्थ इत्युच्यते, ततोऽन्यस्याधिक्यमानर्थक्यं तदुपभोगपरिभोगानर्थक्यम् । सम्यगेकत्वेनायनं गमनं समयः, स्वविषयेभ्यो विनिवृत्त्य कायवाङ्. मनःकर्मणामात्मना सह वर्तनाद्दव्यार्थेनात्मन एकत्वगमनमि यर्थः । समय एव सामायिकं, समयः प्रयोजनमस्येति वा सामायिकम् । क्यम् । Page #17 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । तच्च नियतकाले नियतदेशे च भवति । निर्व्याक्षेपमेकांतं भवनं वनं चैत्यालयादिकं च देशं मर्यादीकृत्य केशबंधं मुष्टिबंधं वस्त्रबंधं पर्यकमकरमुखाद्यासनं स्थानं च । कालमवधिं कृत्वा शीतोष्णादि परीषहविजयी, उपसर्ग सहिष्णुौनी हिंसादिभ्यो विषयकषायेभ्यश्च विनिवृत्त्य सामायिके वर्तमानो महाव्रती भवति । हिंसादिषु सर्वेष्वनासक्तचित्तोऽभ्यंतरप्रत्याख्यानसंयमघातिकर्मोदयजनितमंदाविरतिपरिणामे सत्यपि महाव्रतमित्युपर्यते । एवं च कृत्वाऽभव्यस्यापि निग्रंथलिंगधारिण एकादशांगाध्यायिनो महाव्रतपरिपालनादसंयमभावस्याप्युपरिमौवेयकविमानवासितोपन्ना भवति । एव भव्योऽपि निग्रंथरूपधारी सामायिकवशादहमिंद्रस्थानवासी भवति चेल्कि पुनः सम्यग्दर्शनपूतात्मा सामायिकमापन्न इति । समायिकव्रतस्य सर्वसावद्ययोगप्रत्याख्यानस्य पंचातीचारा भवंति । कायदुःप्रणिधानं, वाग्दुःप्रणिधानं, मनोदुःप्रणिधानं, अनादरः, स्मृत्यनुपस्थापनं चेति । तत्र दुष्टं प्रणिधानं, दुःप्रणिधानं, अन्यथा वा प्रणिधानं दुःप्रणिधानम्, क्रोधादिपरिणामवशाद्दष्टं प्रणिधानम् भवति, शरीरावयवानामनिभतावस्थानं कायदुःप्रणिधानम् । वर्णसंस्कारे भावार्थे चागमकत्वं चापलादि वाग्दुःप्र. णिधानम् । मनसोऽनर्पितत्वं मनोदुःप्रणिधानम् । इति कर्त्तव्यता प्रत्यसाकल्याद्यथा कथंचित्प्रवृत्तिरनुत्साहोऽनादरः । अनैकाग्र्यमस. माहितमनस्कता स्मृत्यनुपस्थानं, अथवा रात्रिंदिवं प्रमादिकम्य संचिंत्यानुपस्थानं स्मृत्यनुपस्थानम् । मनोदुःप्रणिधानस्मृत्यनुपस्थान. योरयं भेदः, क्रोधाद्यावेशात्सामायिकौदासीन्येन वा चिरकालमक Page #18 -------------------------------------------------------------------------- ________________ १२ चारित्रसारे स्थापनं मनसो मनोदुःप्रणिधानं, चिंतायाः परिस्पंदनादै काग्र्येणानवस्थापनं स्मृत्यनुपस्थापनमिति विस्पष्टमन्यत्वम् । प्रोषधः पर्वपर्यायवाची, शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पंचापीन्द्रियाणि उपेत्य तस्मिन्वसंतीत्युपवासः । उक्तं च उपेत्याक्षाणि सर्वाणि निवृत्तानि स्वकार्यतः । वसंति यत्र सः प्राज्ञैरुपवासोऽभिधीयते ॥ पर्वणि चतुर्विधाऽऽहारनिवृत्तिः प्रोषधोपवासः, निरारंभः श्रावकः स्वशरीरसंस्कारकारणस्नानगंधमाल्याभरणादिभिर्विरहितः ववकाशे साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनावहितांत: करणः सन्नुपवसेत् । शुचा प्रोषधोपवासस्य पंचातीचारा भवंति । अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितादानं, अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणं, अनादरः, स्मृत्यनुपस्थानं चेति । तत्र जंतवः संति न संति वेति प्रत्यवेक्षणं चक्षुषोर्व्यापारो मृदुनोपकरणेन यत्क्रियते प्रयोजनं तत्प्रमार्जनं अप्रत्यवेक्षितायां भुवि मूत्रपुरीषोत्सर्गेऽप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्हदाचार्यादिपूजोपकरणस्य गंधमाल्यधूपादेरात्मपरिधानाद्यर्थस्य वस्त्रपात्रादेश्वादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संतस्तरणस्योपक्रमणप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणम् । क्षुत्पीडितत्त्वादावश्यकेष्वनुत्साहोऽनादरः । स्मृत्यनुपस्थानं व्याख्यातमेव । उपेत्यात्मसात्कृत्य भुज्यत इत्युपभोगः, अशनपानगंधमाल्यादि सकृद् भुक्त्वा पुनरपि भुज्यत इति परिभोगः, आच्छादनप्रावरणालं Page #19 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । कारशयनाशनगृहयानवाहनादिः तयोः परिमाणमुपभोगपरिभोगपरि माणम् । भोगपरिसंख्यानं पंचविधं त्रसघातप्रमाद बहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं सदा परिहर्त्तव्यं त्रसघातं प्रति निवृत्तचेतसा मद्यमुपसेव्यमानं कार्याकार्यविवेकसं मोहकर मिति तद्वर्जनं । प्रमादविरहाय केतक्यर्जुनपुष्पादीनि बहुजंतुयोनिस्थानानि, आर्द्रशृंगवेरमूलकहरिद्रार्निवकुसुमादन्यिनंतकायन्यपदेशार्हाणि; एतेषामुपसेवनेन बहुधातोऽल्पफलमिति तत्परिहारः श्रेयान् । यानवाहनाभरणादिष्वेता वदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्त्तनं कर्त्तव्यम् । न हि व्रतमभिसंधिनियमाभावे सतीष्टानामपि चित्रवस्त्रवेषाभरणादीनामनुपसेव्यानां परित्यागः कार्ये यावज्जीवं । अथ न शक्तिः कालप रिच्छेदेन वस्तुपरिमाणेन च शक्त्यनुरूपं निवर्त्तनं कार्यम् । उपभोगपरिभोगपरिमाणत्रतस्यातीचाराः पंच भवंति । सचित्ताहारः सचित्तसंबंधाहारः, सचित्तसन्मिश्राहारः, अभिषवाहारः, दुःपक्काहार श्चेति । तत्र चेतनावद्द्द्द्रव्यं सचित्तं हरितकायः तदभ्यवहरणं सचित्ता हारः । सचित्तवतोपश्लिष्टः सचित्तसंबद्धाहारः । सचित्तेन व्यतिकीर्णः सचित्तसन्मिश्राहारः । सौवीरादिद्रवो वा वृष्यं वाऽभिषवाहारः । सांतस्तं दुलभावेनातिक्लेदनेन वा दुष्टः पक्को दुःपक्काहारः । संबंधमिश्रयोरयं भेद, संसर्गमात्रं संबंधः, सूक्ष्मजंतुव्याकीर्णत्वाद्विभागी कर्तुमशक्यः सन्मिश्रः । एतेषामभ्यवहरणे सचित्तोपयोग इंद्रिय मदवृद्धिर्वातादिप्रकोपो वा स्यात् । तत्प्रतीकारविषये पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति । संयममविनाशयन्नततीत्यतिथिरथवा नास्य तिथिरस्तीत्य तिथि १३ Page #20 -------------------------------------------------------------------------- ________________ १४ चारित्रसारे रनियतकालगमनमित्यर्थः । अतिथये संविभागोऽतिथिसंविभागः, स चतुर्विधः, भिक्षोपकरणौषधप्रतिश्रयभेदात् । उक्तं हि-- प्रतिग्रहोच्चस्थाने च पादक्षालनमर्चनम् । प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च ते नव ॥ उक्तं हि-- श्रद्धा शक्तिरलुब्धत्त्वं भक्तिज्ञानं दया क्षमा। इति श्रद्धादयः सप्त गुणाः स्युर्म्यहमधिनाम् ॥ . एवंविधनवविधपुण्यैः प्रतिपत्तिकुशलेन सप्तगुणैः समन्वितेन मोक्षमार्गमभ्युद्युतायातिथये संयमपरायणाय शुद्धचेतसाऽऽश्चर्यपंचकादिकमनिच्छता निरवद्या भिक्षा देया । धर्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि । औषधं ग्लानाय वातपित्तश्लेष्मप्रकोपहताय योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति । अतिथिसंविभागव्रतस्य पंचातीचारा भवंति । सचित्तनिक्षेपः, सचित्तपिधानं, परव्यपदेशः, मात्सर्य, कालातिक्रमश्चेति । तत्र सचित्ते पद्मपत्रादौ निधानं सचित्तनिक्षेपः । सचित्तेनावरणं सचित्तपिधानं । अयमत्र दाता दीयमानोऽप्ययमस्येति समर्पणं परव्यपदेशः । प्रयच्छतोऽपि सत आदरमंतरेण दानं मात्सर्यम् । अनगाराणाम. योग्ये काले भोजनं कालातिकम इति । पात्रदानं स्वस्य परस्य चोपकारः, स्वोपकारः पुण्यसंचयः परोपकारः सम्यग्ज्ञानादिवृद्धिः । तच्च दानं पारंपर्येणं मोक्षकारणं साक्षात्पुण्यहेतुः । विधिविशेषा. Page #21 -------------------------------------------------------------------------- ________________ १५ शीलसप्तकवर्णनम् । व्यविशेषादातृविशेषात्पात्रविशेषादानविशेषः । तत्र प्रतिग्रहोच्चदेश स्थापनमित्येवमादीनां क्रियाणामादरेण करणं विधिविशेषः । दीयमानेऽन्नादौ प्रतिग्रहीतुस्तपःस्वाध्यायपरिवृद्धिकरणत्वाव्यविशेषः । प्रतिग्रहीतृजनेऽभ्यस्ततया त्यागोऽविषादो दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसंधितावसुधारासुरप्रशंसादिदृष्टफलानपेक्षिता, निरुपरोधत्वमनिदानत्वे श्रद्धादिगुणसमन्वितत्वमित्येवमादि दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च फलविशेषः । सत्पात्रोपगतं दानं सुक्षेत्रगतबीजवत् । फलाय यदपि स्वल्पं तदनल्पाय कप्ल्यते ॥ तथा च---दानफलविशेषणोत्तमभोगभूमौदशविधकल्पवृक्षजनितसुखफलं श्रीषेणोऽन्वभूत् ।। ___ तथा च-दानानुमोदेन रतिवररतिवेगाख्यं कपोतमिथुनं विजया प्रतिबद्धगांधारविषयसुसीमानगराधिपतेरादित्यगते रतिवरवरो हिरण्यवर्मनामा नंदनोऽभूत् । तस्मिन्नेव गिरौ गिरिविषये भोगपुरपतेर्वायुरथस्य रतिवेगवरी प्रभावत्याख्या तनयाऽभूत् । एवं हिरण्यवर्भा प्रभावती च जातिकुलसाधितविद्याप्रभावेन सुखमन्वभूताम् । उक्तहिंसादिपंचदोषविरहितेन द्यूतमद्यमांसानि परिहर्त्तव्यानि । तथा चोक्तं महापुराणे हिंसासत्यस्तेयादब्रह्मपरिग्रहाच्च वादरभेदात् । यूतान्मांसान्मद्याद्विरतिर्गृहिणोऽष्ट संत्यमी मूलगुणाः ॥ कितवस्य सदा रागद्वेषमोहवंचनानृतानि प्रजायतेऽर्थक्षयोऽपि भवति जनेप्वविश्वसनीयश्च, सप्तव्यसनेषु प्रधानं द्यूतं तस्मात्तत्परिहर्त्तव्यम् । Page #22 -------------------------------------------------------------------------- ________________ चारित्रसार तथा च-भरतेऽस्मिन्कुलालविषये श्रावस्तिपुराधिपतिः सुकेतुमहाराजो महाभोगी द्यूतव्यसनाभिहतः स्वकीयं कोशं राष्ट्रमंतःपुरं च द्यूते हारयित्वा महादुःखाभिभूतोऽभूत् । तथा च युधिष्ठिरोऽपि द्यूतेन राज्याद्भष्टः कष्टां दशामवाप । __मांसान्निवृत्तिरहिंसाव्रतपरिपालनार्थ, मासाशिनं साधतो विनिदंति प्रत्ये च दुःखभाग्ववति । तथा चान्यैरुक्तम् मां स भक्षयति प्रेत्य यस्य मांसमिहादुम्यहम् । एतन्मांसस्य मांसत्वं प्रवदंति मनीषिणः॥ मांसं प्राणिशरीरं प्राण्यंगस्य च विदारणेन विना। तन्नाप्यते ततस्तत्त्यक्तं जैनैः सदा सर्वैः ॥ तथा हि-कुंभनाम्नो नरपते(मो नाम महानसिकस्तिर्यग्मांसमलभमानो मृतशिशुमांसं सर्वसंभारेण सन्मिश्रं कृत्वा कुंभस्य दत्तवान् । ततः प्रभृति सोऽपि नरमांसलोलुपः संजातः । तज्ज्ञात्वा प्रकृतयो राज्यस्यायमयोग्य इति तं परिहृतवत्यः । तथा च विंध्यमलयकुटजवने किरातमुख्यः खदिरसारः समाधिगुप्तमुनिं दृष्ट्रा प्रणतस्तस्मै धर्मलाभ इत्युक्ते कोऽसौ धर्मः, कोऽसौ लाभ इत्युक्तपरिप्रश्ने मांसादिनिवृत्तिधर्मस्तत्प्राप्तिाभस्ततः स्वर्गादिसुखं जायत इत्युक्तवति मुनौ तत्सर्व परिहर्जुमहमशक्त इति वचने तदाकूतमवधार्य त्वया काक्रमांसं पूर्व किं भक्षितमुत न वेत्युक्तेऽकृतभक्षणोऽहमिति प्रतिवचने यद्येवं तदभक्षणव्रतं त्वया गृह्यतामित्युपदेशेन तत्परिगृह्याभिवंद्य गतवतः कालांतरे तस्यामये समुत्पन्ने सति वैद्येन काकमांसभक्षणादस्य व्याधेरुपशमो भविष्यतीत्युक्ते कंठगतेष्वपि प्राणेषु मया न कर्तव्यं तत्काकमांसोपयोगविरमणव्रतं तपोधनसमीपे परि Page #23 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । गृहीतं, संकल्पभंगे कुतः सत्पुरुषता ? ततः काकमासाम्यवहरणं न करिष्यामीति प्रतिज्ञाने समुपलक्षिततदीयाकूतस्तं मांसमुपयोजयितुं सौरपुराधिपतिः शूरवीरनामा तस्य मैथुनः समागच्छन् वनगहनगतवटतरोरधः कांचिदभिरुदतीं समीक्ष्य 'कथय केन हेतुना रोदिष्येका त्वम् ' इत्यनुयुक्ता साऽवोचदहं यक्षी । तव श्यालकं बलवदामयपरिपीडितं मांसभक्षणविरमणव्रतफलेन मे भविष्यंतमधिपति भवानद्य मांसभोजनेन नरकगतिभागिनं कर्तुं प्रारभत इति रोदनमनुभवामीति तयोदितः । श्रद्धेहि ' तदहं न कारयिष्यामीति व्याहृत्य गत्वा तमवलोक्य शरीरामयनिराकरणहेतुस्त्वया मांसोपयोगः क्रियतामिति प्रियश्यालकवचनश्रवणेन ' त्वं प्राणसमो बंधुः श्रेय एव मे कथयितुमर्हसि, न हितार्थवचनमेतन्नरकगतिप्रापणहेतुत्वादेवं म्रियमाणोऽपि म्रिये न तु प्रतिज्ञाहानि करोमि " इति निगदितस्तदभिप्रायविधारणात्स तस्मै यक्षीनिरूपितवृत्तांतम कथयत् । सोऽपि तदाकर्णनादहिंसादिश्रावकव्रतमविकलमादाय जीवितांते सौधर्मकल्पे देवोऽभवत् । शुरवीरश्च तस्य परलोकक्रियावसान उपगच्छन् यक्षी निरीक्ष्य कथय स किं मे मैथुनस्तव पतिरजायतेति परिपृष्टा साऽवोचत् । स्वीकृतसमस्तव्रतसंग्रहस्यामुख्यव्यंतरगति. पराङ्मुखस्य सौधर्मकरूपे समुत्पत्तिरासीत् , ततो मदधिपत्वप्रच्युतः प्रकृष्टदिव्यभोगमनुभवतीति हृदयगततद्वचनार्थनिश्चितमतिरहो व्रतप्रभावः समभिलषितफलप्रदानसमर्थ इति समाधिगुप्तिमुनिसमीपे परि. गृहीतश्रावकवतो बभूव । खदिरसारो द्विसागरोपमकालं दिव्यभोग. मनुभूय समनुष्ठितभोगनिदानः स्वनीवितांते ततः प्रच्युतः प्रत्यंतपुरे Page #24 -------------------------------------------------------------------------- ________________ ૬૮ चारित्रसारे सुमित्रनामा मित्रराज्ञः पुत्रोऽभूत् । निर्दर्शनतपः कृत्वा व्यंतर आसीत्ततः कुणिकनरपतेः श्रीमतीदेन्याश्च श्रेणिकोऽभूदिति । एवं दृष्टादृष्टफलस्याप्यहितं मांसम | मद्यपस्य हिताहितविवेकता वाच्यावाच्यता गम्यागम्यता कार्याकार्यं च नास्ति । मद्यमुपसेविनो जनस्य स्मृतिं विनाशयति, विनष्टस्मृतिकः किं न करोति, किं न भाषते, कमुन्मार्गे न गच्छति, सर्वदोषाणामास्पदं तदेव तस्याख्यानम् । तथा हि — कश्चिद्ब्राह्मणो गुणी गंगास्नानार्थ गच्छन्नटवीप्रदेशे प्रहसनशीलेन मदिरामदोन्मत्तेन कांतासहितशबरेण स निरुध्य मांसभक्षण सुरापान शबरी संसर्गेषु भवताऽन्यतममंगीकरणीयमन्यथा भवतं व्यापादयामीत्युक्तः किंकर्त्तव्यतामूढः, प्राण्यंगत्वान्मांसभक्षणे पापोपलेपो भवति, शबरीसंसर्गे जातिनाशः संजायते, पिष्टोदकगुडघातक्यादिसमुत्पन्नं निरवद्यं मद्यमिदं पिबामीति पीत्वा विनष्टस्मृतिरगम्यगमनमभक्ष्यभक्षणं च कृतवान् । तथा हि-मद्यपायिनामपराधेन द्वीपायनमुनिकोपाद्भस्मीभूतायां द्वारवत्यां विनष्टा यादवा इति । मत्तो हिनस्ति सर्वं मिथ्या प्रलपति विवेकविकलतया । मातरमांपे कामयते सावद्यं मद्यमत एव ॥ सामायिकः संध्यात्रयेऽपि भुवनत्रयस्वामिनं वंदमानो वक्ष्यमाण व्युत्सर्गतपसि कथितक्रमेण । द्विनिषण्णं यथाजातं द्वादशावर्त्तमित्यपि । चतुर्नति त्रिशुद्धं च कृतिकर्म प्रयोजयेत् ॥ Page #25 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । १९ अस्य सामायिकस्यानंतरोक्तशीलसप्तकांतर्गतं सामायिकं व्रतं प्रतिकस्य शीलं भवतीति । प्रोषधोपवासः मासे मासे चसुर्ष्वपि पर्वदिनेषु स्वकीयां शक्तिमनिगूह्य प्रोषधनियमं मन्यमानो भवतीति व्रतिकस्य यदुक्तं शीलं प्रोषधोपवासस्तदस्य व्रतमिति । सचित्तत्रतो दयामूर्तिर्मूलफलशाखाकरी रकंदपुष्प बीजादीनि न भक्षयत्यस्योपभोगपरिभोगपरिमाणशीलताति चारो व्रतं भवतीति । रात्रिभक्तत्रता रात्रौ स्त्रीणां भजनं रात्रिभक्तं तद्वतयति सेवत इति रात्रिव्रतातिचारा रात्रिभक्तत्रतः दिवाब्रह्मचारीत्यर्थः । ब्रह्मचारी शुक्रशोणितबीजं रसरुधिरमांसमेदोऽस्थिमज्जा शुक्र सप्तधातुमयमनेकस्रोतोविलं मूत्रपुरीषभाजनं कृमिकुलाकुलं विविधव्याधिविधुरमपायप्रायं कृमिभस्मविष्टापर्यवसान मंगमित्यनंगाद्विरतो भवति । आरंभविनिवृत्तोऽसिमसिकृषिवाणिज्यप्रमुखादारंभात्प्राणातिपातहेतोर्विरतो भवति । परिग्रहविनिवृत्तः क्रोधादिकषायाणामार्त्तरौद्रयोहिंसादिपंचपापानां भयस्य च जन्मभूमिः, दूरोत्सारितधर्म्य शुक्लः परिग्रह इति मत्वा दशविध बाह्यपरिग्रहाद्विनिवृत्तः स्वच्छ ः संतोषपरो भवति । अनुमतिविनिवृत्त आहारादीनामारंभाणामनुमननाद्विनिवृत्तो भवति । उद्दिष्टविनिवृत्तः स्वोद्दिष्टपिंडोपधिशयनवसनादेर्विरतः सन्नेकशाटकघरो भिक्षाशनः पाणिपात्रपुटेनोपविश्य भोजी रात्रिप्रतिमादितपः समुद्यत आतापनादियोगरहितो भवति । Page #26 -------------------------------------------------------------------------- ________________ २० चारित्रसारे-:. ___ अणुव्रतिमहाव्रतिनौ समितियुक्तौ संयमिनौ भवतः समिति विना विरतौ । तथा चोक्तं वर्गणाखंडस्य बंधनाधिकारेसंजमविरइणं को भेदो, ससमिदिमहव्वयाणुव्वयाई संजमो,, समदीहिं विणा महब्बयाणुब्वयाई विरदी ॥ इति आयास्तु षट् जघन्याः स्युर्मध्यमास्तदनु त्रयः । शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ॥ असिमषिकृषिवाणिज्यादिभिगृहस्थानां हिंसासंभवेऽपि पक्षचर्यासाधकत्वैर्हिसाऽभावः क्रियते । तत्राहिंसापरिणामत्वं पक्षः । धर्मार्थ देवतार्थ मंत्रसिद्धयर्थमौषधार्थमाहारार्थ स्वभोगार्थ च गृहमेधिनो हिंसा न कुर्वन्ति । हिंसासंभवे प्रायश्चित्तविधिना विशुद्धः सन् परिग्रहपरित्यागकरणे सति स्वगृहं धर्म च वंश्याय समर्प्य यावद्गृहं परित्यजति तावदस्य चर्या भवति । सकलगुणसंपूर्णस्य शरीरकंपनो. च्छासनोन्मीलनविधि परिहरमाणस्य लोकाग्रमनसः शरीरपरित्यागः साधकत्वमेवं पक्षादिभिस्त्रिभिर्हिसाधुपचितं पापमपगतं भवति । जैनागमे चत्वार आश्रमाः-उक्तं चोपासकाध्ययने । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः। इत्याश्रमास्तु जैनानां सप्तमांगाद्विनिःसृताः॥ तत्र ब्रह्मचारिणः पंचविधाः--उपनयावलंबादीक्षागूढनैष्ठिकभेदेन । तत्रोपनयबह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहधर्मानुष्ठायिनो भवति । अवलंबब्रह्मचारिणः क्षुलकरूपेणागममभ्यस्य परिगृहीतगृहावासा भवंति । अदीक्षाब्रह्मचारिणः वेषमंतरेणाभ्यस्तागमा गृहधर्मनिरता भवति । गूढब्रह्मचारिणः कुमारश्रमणाः संतः Page #27 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम्। २१ स्वीकृतागमाभ्यासा बंधुभिर्युःसहपरीषहैरात्मना नृपतिभिर्वा निरस्तपरमेश्वररूपा गहवासरता भवंति । नैष्ठिकब्रह्मचारिणः : समाधिग. तशिखालक्षितशिरोलिंगाः गणधरसूत्रोपलक्षितोरोलिंगाः, शुक्लरक्तवसनखंडकौपीनलक्षितकटीलिंगाः स्नातका भिक्षावृत्तयो देवतार्चनपरा भवंति । गृहस्थस्येज्या, वार्ता, दत्तिः, स्वाध्यायः, संयमः, तप इत्यार्यषट्कर्माणि भवंति । तत्रार्हत्पूनेज्या, सा च नित्यमहश्चतुर्मुखं कल्पवृक्षोऽष्टाह्निक ऐन्द्रध्वज इति । तत्र नित्यमहो नित्य, यथाशक्ति जिनगृहेभ्यो निजगृहाद्धपुष्पाक्षतादिनिवेदनं, चैत्यचैत्यालयं कृत्वा ग्रामक्षेत्रादीनां शासनदानं मुनिजनपूजनं च भवति । चतुर्मुखं मुकुटवद्धैः क्रियमाणा पूजा सैव महामहः सर्वतोभद्र इति । कल्पवृक्षोर्थिनः प्रार्थितार्थैः संतर्य चक्रवर्तिनि क्रियमाणो महः । अष्टान्हिकं प्रतीतं । ऐन्द्रध्वज इंद्रादिभिः क्रियमाणः बलिस्नपनं संध्यात्रयेऽपि जगत्रयस्वामिनः पूजाऽभिषेककरणम् । पुनरप्येषां विकल्पा अन्येऽपि पूजाविशेषाः सन्तीति । वार्ताऽसिमषिकृषिवाणिज्यादिशिल्पकर्मभिर्विशुद्धवृत्याऽर्थोपार्जनमिति । दत्तिः दयापात्रसमसकलभेदाच्चतुर्विधा । तत्र दयादत्तिरनुकंपयाऽनुग्राह्येभ्यः प्राणिभ्यस्त्रिशुद्धिभिरभयदानम् । पात्रदत्तिर्महातपोधनेभ्यः प्रतिग्रहार्चनादिपूर्वकं निरवद्याहारदानं ज्ञानसंयमोपकरणादिदानं च । समदत्तिः स्वसमक्रियाय मित्राय निस्तारकोत्तमाय कन्याभूमिसुवर्णहस्त्यश्वरथरत्नादि. दानं, स्वसमानाभावे मध्यमपात्रस्यापि दानम् । सकलदत्तिरात्मीय. स्वसंततिस्थापनार्थ पुत्राय गोत्रजाय वा धर्म धनं च समर्प्य प्रदान Page #28 -------------------------------------------------------------------------- ________________ २२ चारित्रसारे मन्वयत्तिश्च सैव । स्वाध्यायस्तत्त्वज्ञानस्याध्ययनमध्यापनं स्मरणं च । संयमः पंचाणुव्रतप्रवर्त्तनम् । तपोऽनशनादिद्वादशविधानुष्ठानम् । इत्यार्यषटर्मनिरता गृहस्था द्विविधा भवति । जातिक्षत्रियास्तीर्थक्षत्रियाश्चेति । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः । तीर्थक्षत्रियाः स्वजीवनविकल्पादनेकधा भिद्यते । वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखंडधारिणो निरतिशयतपःसमुद्यता भवन्ति । भिक्षवो जिनरूपधारिणस्ते बहुधा भवति । अनगारा यतयो मुनय ऋषयश्चेति । तत्रानगाराः सामान्यसाधव उच्यन्ते । यतय उपशमक्षपकश्रेण्यारूढा भण्यन्ते । मुनयोऽवधिमनःपर्ययकेवलज्ञानिनश्च कथ्यन्ते । ऋषय ऋद्धिप्राप्तास्ते चतुर्विधाः, राजब्रह्मदेवपरमभेदात् । तत्र राजर्षयो विक्रियाऽक्षीणर्द्धिप्राप्ता भवति । ब्रह्मर्षयो बुद्धचौषधिऋद्धियुक्ताः कीर्त्यन्ते । देवर्षयो गगनगमनर्द्धिसंयुक्ताः कथ्यन्ते । परमर्षयः केवलज्ञानिनो निगद्यते । अपि च । देशप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्रोद्गतर्द्धि रारूढश्रेणियुग्मोऽजनि यतिरनगारोऽपरः साधुरुक्तः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्ति प्राप्तो बुद्धयौषधीशो वियवयनपदुर्विश्ववेदी क्रमेण ॥ उक्तैरुपासकैर्मारणान्तिकी सल्लेखना प्रीत्या सेव्या । स्वपरिणामोपात्तस्यायुष इन्द्रियाणां बलानामुच्छासनिःश्वासस्य च कदलीघातस्वपाकच्युतिकारणवशात्संक्षयो मरणं, तच्च द्विविधं, Page #29 -------------------------------------------------------------------------- ________________ शीलसप्तकवर्णनम् । २३ नित्यमरणं तद्भवमरणं चेति । तत्र नित्यमरणं समये समये स्वायुरादीनां निवृत्तिः । तद्भवमरणं भवांतरप्राप्तिरनन्तरोपश्लिष्टपूर्वभवविगमनम् । अत्र पुनस्तद्भवमरणं ग्राह्यं मरणान्तः प्रयोजनमस्या इति मारणांतिकी । बाह्यस्य कायस्याभ्यंतराणां कषायानां तत्कारणहापनया क्रमेण सम्यग्लेखना सल्लेखना । उपसर्गे दुर्भिक्षे जरसि निःप्रतिक्रियायां धर्मार्थ तनुत्यजनं सल्लेखना । ततो नित्यप्रार्थितसमाधिमरणे यथाशक्ति प्रयत्नं कृत्वा शीतोष्णाद्युपश्लेषे सति तपःस्थो यथा शीतोष्णादौ हर्षविषादं न करोति तथा सल्लेखनां कुर्वाणः शीतोष्णादौ हर्षविषादमकृत्वा स्नेहं संगवैरादिकं परिग्रहं च परित्यज्य विशुद्धचित्तः स्वजनपरिजने क्षन्तव्यं निःशल्यं च प्रियवचनैविधाय विगतमानकषायः कृतकारितानुमतमेनः सर्वमालोच्य गुरौ महानतमामरणमारोप्यारतिदैन्यविषादभयकालुप्यादिकमपहाय सवोत्साहमुदीर्य श्रुतामृतेन मनः प्रसाद्य क्रमेणाहारं परिहाय ततः स्निग्धपानं तदनन्तरं खरपानं तदनु चोपवासं कृत्वा गुरोः पादमूले पंचनमस्कारमुच्चारयन्पंचपरमेष्ठिनां गुणान्स्मरन्सर्वयत्नेन तनुं त्यजे. दियं सल्लेखना संयतस्यापि । __ अथ सल्लेखनाया मरणविशेषोत्पादनसमर्थाया असंक्लिष्टचित्ते. नारभ्यायाः पंचातीचारा भवन्ति । जीविताशंसा, मरणाशंसा, मित्रानुरागः, सुखानुबन्धः, निदानं चेति । तत्र शरीरमिदमवश्यं हेयं जलबुद्धदवदनित्यमस्यावस्थानं कथं स्यादित्यादरो जीविताशंसा । आशंसाऽऽकांक्षणमभिलाष इत्यनर्थान्तरं । रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तप्रणिधानं मरणाशंसा । व्यसने ___ Page #30 -------------------------------------------------------------------------- ________________ चारित्रसारे सहायत्वमुत्सवे संभ्रम इत्येवमादि सुकृतं बाल्ये सह पांशुक्रीडनमित्येवमादीनामनुस्मरणं मित्रानुरागः । एवं मया भुक्तं शयितं क्रीडितमित्येवमादि प्रीतिविशेषं प्रति स्मृतिसमन्वाहारः सुखानुबन्धः । विषयसुखोत्कर्षाभिलाष भोगाकांक्षतया नियतं चित्तं दीयते तस्मिन् तेनेति वा निदानमिति ॥ २४ इति श्रीमच्चामुंडरायप्रणीते भावनासंग्रहे चारित्रसारे सागारधर्मः समप्तोऽयम् । षोडशभावनाप्रकरणम् । उक्तैरेकादशोपासकैर्वक्ष्यमाणदशधर्माधारैश्च मनुष्यगतौ केवलज्ञानोपलक्षितजीवद्रव्यसहकारिकारण संबंधप्रारंभस्यानंतानुपमप्रभावस्याचिन्त्यविशेषविभूतिकारणस्य त्रैलोक्यविजयकरस्य तीर्थकरनामगोत्रकर्मणः कारणानि षोडश भावना भावयितव्या इति । तद्यथादर्शन विशुद्धता, विनयसंपन्नता, शीलवतेष्वनतीचारः, अभीक्ष्णज्ञानोपयोगः, संवेगः, शक्तितस्त्यागः, शक्तितस्तपः, साधुसमाधिः, वैयावृत्यकरणं, अर्हद्भक्तिः, आचार्यभक्तिः, बहुश्रुतभक्तिः, प्रवचनभक्तिः, आवश्यकापरिहाणिः, मार्गप्रभावना, प्रवचनवात्सल्यमिति । तत्र जिनोपदिष्टे नैर्ग्रथ्ये मोक्षवर्त्मनि रुचिः सम्यग्दर्शनं, विशुद्धिं विना दर्शनमात्रादेव तीर्थकर नामकर्मबंधो न भवति, त्रिमूढापोढाष्टमदादिरहितत्त्वात् । उपलब्धनिजस्वरूपस्य सम्यग्दर्शनस्य प्रथमद्वितीयोपशमकवेदकक्षायिकान्यतमविशिष्टस्य ज्ञानदर्शनतपश्चारित्रेषु त Page #31 -------------------------------------------------------------------------- ________________ षोडशभावनाप्रकरणम् । २५ द्वत्सु च विनये, अभीक्ष्णज्ञानोपयोगसंवेगयुक्तत्वे, साधुभ्यः प्रासुकप्रदाने, द्वादशविधतपसि, साधूनां समाधिवैयावृत्त्यकरणे, अर्हत्सु व्रतशीलावश्यकसंपन्नाचार्येषु च बहुश्रुतेषु प्रवचने च भक्ती, प्रवचनप्रभावने, प्रवचनवत्सलत्वे प्रवर्त्तनं विशुद्धता । एकाऽपि सा दर्शनविशुद्धता तीर्थकरनामबंधस्य कारणं भवति, शेषभावनानां तत्रैवान्तर्भावादिति दर्शनविशुद्धता व्याख्याता । सम्यग्दर्शनादिषु मोक्षसाधनेषु तत्साधकेषु गुर्वादिषु च स्वयोग्यवृत्त्या सत्कार आदरः कषायनोकषायनिवृत्तिर्वा विनयसम्पन्नता । अहिंसादिषु व्रतेषु तत्परिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः कायवाङ्मनसा शीलवतेप्वनतिचार इति । मत्यादिविकल्पं ज्ञानं जीवादिपदार्थस्वतत्त्वविषयं प्रत्यक्षपरोक्षलक्षणमज्ञाननिवृत्यव्यवहितफलं हिता. हितानुभयप्राप्तिपरिहारोपेक्षाव्यवहितफलं यत्तस्य भावनायां नित्ययुक्तताऽभीक्ष्णज्ञानोपयोग इति । शारीरं मानसं च बहुविकल्पं प्रियविप्रयोगाप्रियसंयोगेप्सितालाभादिजनितं संसारदुःखं यदतिकष्टं ततो नित्यभीरता संवेग इति । आहारो दत्तः पात्राय तस्मिन्नहनि तत्प्रीतिहेतुर्भवति; अभयदानमुपपादितमेकभवव्यसननोदनकर, सम्यरज्ञानदानं पुनरनेकभवशतसहस्रदुःखोत्तारणकारणमतस्तत्रिविधहाराभयज्ञानदानभेदेन यथाविधि प्रतिपाद्यमानं त्याग इत्युच्यते । शरीरमिदं दुःखकारणमनित्यमशुचि नास्य यथेष्टं भोगविधिना परिपोषो युक्तः, अशुच्यपीदं गुणरत्नसंचयोपकारीति विचिन्त्य विनिवृत्तविषयसुखाभिषंगस्य कार्य प्रत्येतद्भुतकमिव नियुजानस्य यथाशक्तिमार्गाविरोधकाय क्लेशानुष्ठानं तप इति । यथा भाण्डागारे Page #32 -------------------------------------------------------------------------- ________________ २६ चारित्रसारे समुत्थिते दहने तत्प्रशमनमनुष्ठीयते बहूपकारित्वात्तथाऽनेकत्रतसमृद्धस्य मुनिगणस्य तपसः कुतश्चित्प्रत्यूहे समुपस्थिते तत्संधारणं साधुसमाधिरिति । गुणवतः साधुजनस्य संनिहिते दुःखे निरवयेन विधिना तदपहरणं बहुप्रकारं वैयावृत्त्यमिति । अर्हदाचार्येषु केवलश्रुतज्ञानदिव्यनयनेषु परहितकरप्रवृत्तिषु स्वपरसमयविस्तरनिश्चयज्ञेषु बहुश्रुतेषु प्रवचने च श्रुतदेवतासंनिधिगुणयोगदुरासदे मोक्षपदप्रासादारोहणसुरचितसोपानभूते भावविशुद्धियुक्तोऽनुरागो भक्तित्रिधा कल्प्यत इति । षडावश्यकक्रियाः, सामायिकं, चतुर्विशतिस्तवः, वंदना, प्रतिक्रमणं, प्रत्याख्यानं, कायोत्सर्गश्चेति । तत्र सामायिकं सर्वसावद्ययोगनिवृत्तिलक्षणं, चित्तस्यैकत्वेन ज्ञानेन प्रणिधानं वा, शत्रुमित्रमणिपाषाणसुवर्णमृत्तिकाजीवितमरणलाभालाभादिषु रागद्वेषाभावो वेति । चतुर्विशतिस्तवस्तीर्थकरपुण्यगुणानुकीर्तनमिति । वंदना त्रिशुद्धिः द्वयासनश्चतुःशिरोवनतिर्दादशावर्त्तना चेति, तत्प्रपंचस्तूत्तरत्र वक्ष्यते । प्रतिक्रमणमतीतदोषनिवर्त्तनमिति । प्रत्याख्यानमनागतदोषापोहनमिति । कायोत्सर्गः परिमितकालविषयशरीरममत्वनिवृत्तिरिति । एतासां षण्णां क्रियाणा यथाकालं प्रवर्त्तनमनौत्सुक्यमावश्यकापरिहाणिरिति । ज्ञानतपोजिनपूजाविधिना धर्मप्रकाशनं मार्गप्रभावनेति । प्रकृष्टं वचनं प्रवचनं, प्रकृष्टस्य वा वचनं प्रवचनं, सिद्धान्तो द्वादशाङ्गमित्यनान्तरं, तत्र भवा देशमहाव्रतिनः, असंयतसम्यग्दृष्टयश्च प्रवचनमित्युच्यते, तेष्वनुराग आकांक्षा ममेदं भावः प्रवचनवत्सलत्त्वं । तेनैकेनापि तीर्थकरनामकर्मबंधो भवति । कुतः पंचमहाव्रताद्या ___ Page #33 -------------------------------------------------------------------------- ________________ अनगारधर्मवर्णनम् । गमार्थविषयस्योत्कृष्टानुरागस्य दर्शनविशुद्धयादिपंचदशस्वविनाभावात् । एवं षोडश भावनाः स्युः । एकैकस्यां भावनायामविनाभाविन्य इतरपंचदश भावनाः । तेन सम्यग्भाव्यमानानि व्यस्तानि समस्तानि वा तीर्थकरनामकस्रिवकारणानि भवति । असंयतसम्यग्दृष्टित अपूर्वकरणस्य पदे षट् सप्त भागा यावत् । __ इति श्रीमच्चामुंडरायप्रणीते चारित्रसारे षोडशभावनावर्णनं समाप्तम् । __ अनगारधर्मवर्णनम् । इदानीमनगारधर्म उच्यते, स चोत्तमक्षमामार्दवाऽऽर्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्यभेदेन दशविधः । उत्तमग्रहणं ख्यातिपूजादिनिवृत्त्यर्थे, तत्प्रत्येकमभिसम्बध्यते, उत्तमक्षमा, उत्तममार्दवमित्यादि । मोक्षमार्गे प्रवर्त्तमानस्य प्रमादपरिहारार्थ दशविधधर्माख्यानम् । __ तपोहणकारणशरीरस्थितिनिमित्तं निरवद्याहारान्वषणार्थ परगृहाण्युपसर्पतो मिक्षोर्दुष्टजनाक्रोशनोत्प्रहसनाऽवज्ञाऽनुताडनशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां संनिधाने कालुष्याभावः क्षमेत्युच्यते । उत्तमक्षमाया व्रतशीलपरिरक्षणमिहामुत्र दुःखानभिष्वंगः सर्वस्य जगतः सन्मानसत्कारलाभप्रसिद्धयादिश्च गुणस्तत्प्रतिपक्षस्य क्रोधस्य धर्मार्थकाममोक्षप्रणाशनं दोष इति विचिन्त्य क्षतव्यं । कोधनिमित्तस्यात्मनि भावाभावानुचिंतनात्परैः प्रयुक्तस्य क्रोधनिमित्त. स्यात्मनि भावानुचिंतनात्तावद्विद्यते मय्येते दोषाः किमत्रासौ मिथ्या Page #34 -------------------------------------------------------------------------- ________________ २८ चारित्रसारे ब्रवीतीति क्षन्तव्यं । अभावचिंतनादपि नैते मयि विद्यन्ते दोषा अज्ञानादसौ ब्रवीतीति क्षमा कार्या । अपि च बालस्वभावचिन्तनं प्रत्यक्षपरोक्षाकोशनताडनमारणधर्मभ्रंशनानामुत्तरोत्तररक्षणार्थ, त. द्यथा-परोक्षमाक्रोशति बाले क्षन्तव्यमेवं स्वभावा हि बालाः भवन्ति, दिष्टया च स मां परोक्षमाक्रोशति न च प्रत्यक्षमेतदपि वालेष्विति लाभो मन्तव्य एव । प्रत्यक्षमाक्रोशति सोढव्यं, विद्यत एतद्वालेषु दिष्टया च मां प्रत्यक्षमाक्रोशति, यन्न ताडयत्येतदपि बालेष्विति लाभ एव मंतव्यः । ताडयत्यपि मर्षितव्यं, दिष्टया च मां ताडयति न प्राणैर्वियोजयति। एतदपि बालेष्विति लाभ एव मन्तव्यः । प्राणैर्वियोजयत्यपि तितिक्षा कर्त्तव्या, दिष्टया च मां प्राणैर्वियोजयति, मदधीनाद्धर्मान्न भ्रंशयतीति । किञ्चान्यन्ममैवापराधोऽयं यत्पुराऽऽचरितं तन्महदुष्कर्म तत्फलमिदमाक्रोशवचनादिनिमित्तमात्रं परोऽयमति सोढव्यमिति । उत्तमजातिकुलरूपविज्ञानैश्वर्यश्रुतजपतपोलाभवीर्यस्यापि तत्कृत. मदावेशाभावात्परप्रयुक्तमपरिभवनिमित्ताभिमानाभावो मार्दवं माननिर्हरणमवगन्तव्यम् । मार्दवोपेतं गुरवोऽनुगृह्णति, साधवोऽपि साधु मन्यन्ते । ततश्च सम्यग्ज्ञानादीनां पात्रं भवति, अतः स्वर्गापवर्गफलावाप्तिानमालिनमनसि व्रतशीलानि नावतिष्ठन्ते, साधवश्चैनं परित्यजन्ति, तन्मूलाः सर्वा विपत्तय इति । योगस्य कायवाङ्मनोलक्षणस्यावक्रताऽऽर्जवमित्युच्यते । ऋजुहृदयमधिवसन्तो गुणा मायामावं नाश्रयन्ते, मायाविनो न विश्वासिति लोकः गर्हिता च गतिर्भवतीति । Page #35 -------------------------------------------------------------------------- ________________ अनगारधर्मवर्णनम् । २९ प्रकर्षप्राप्तलोभानिवृत्तिः शौचमित्युच्यते । शुच्याचारमिहापि सन्मानयन्ति सर्वे, विश्रंभणादयश्च गुणास्तमधितिष्ठन्ति । लोभभावनाक्रान्तहृदये नावकाशं लभन्ते गुणाः । स च लोभो जीविताऽऽरोग्येन्द्रियोपभोगविषयभेदाच्चतुर्विधः, स्वपरविषयावात्स प्रत्येकं द्विधा भिद्यते । स्वनीवितलोभः, परजीवितलोभः, स्वारोग्यलोभः, परारोग्यलोभः, स्वेन्द्रियलोभः, परेन्द्रियलोभः, स्वोपभोगलोभः, परोपभोगलोभश्चेति । अतस्तन्निवृत्तिलक्षणं शौचं चतुर्विधमिति । ___ सत्सु प्रशस्तेषु जनेषु साधुवचनं सत्यमित्युच्यते । सत्यसद्भावो दशविधः, नामरूपस्थापनाप्रतीत्यसंवृत्तिसंयोजनाजनपददेशभावसमयसत्यभेदेन । तत्र सचेतनेतरद्रव्यस्यासत्यप्यर्थे यद्व्यवहारार्थ संज्ञाकरणं तन्नामसत्यं, इन्द्र इत्यादि । यदर्थासन्निधानेऽपि रूपमात्रेणोच्यते तद्रू सत्यं, यथा चित्रपुरुषादिषु । असत्यपि चैतन्ययोगादावर्थे पुरुष इत्यादि, असत्यप्यर्थ यत्कार्यार्थ स्थापितं द्यूताक्षरसारिकानिक्षेपादिषु तत्स्थापनासत्यं, चन्द्रप्रभप्रतिमा इति । साधनादीनौपशमिकादीन् भावान् प्रतीत्य यद्वचनं तत्प्रतीत्यसत्यं, दीर्घोऽयं पुरुषस्ताल इत्यादि । यल्लोकसंवृत्या गीतं वचस्तत्संवृतिसत्यं, यथा पृथिव्याधनेककारणत्वेऽपि सति पङ्के जातं पंकजमित्यादि । धूपचूर्णवासनानुलेपनप्रघर्षादिषु पद्ममकरहंससर्वतोभद्रक्रौंचव्यूहादिषु वाऽचेतनेतरद्रव्याणां यथाभागविधानं संनिवेशाविर्भावकं यद्वचस्तत्संयोजनासत्यम् । द्वात्रिंशजनपदेष्वार्यानार्यभेदेषु धर्मार्थकाममोक्षाणां प्रापकं यद्वचस्तज्जनपदसत्यं, राजाराणकमित्यादि । ग्रामनगरराजगणपाखंडजातिकुलादिधर्माणामुपदेशकं यद्वचस्तद्देशसत्यं, ग्रामो Page #36 -------------------------------------------------------------------------- ________________ चारित्रसारे वृत्त्याऽऽवृत इत्यादि । छद्मस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेऽपि संयतस्य संयतासंयतस्य वा स्वगुणपरिपालनार्थ प्रासुकमिदमप्रासुकमित्यादि यद्वचस्तद्भावसत्यं । प्रतिनियतषद्रव्यपर्यायाणामागमगम्यानां याथात्म्याऽऽविष्करणं यद्वचस्तत्समयसत्यं, समयोत्तरवृद्धया बालो युवा पल्योपम इत्यादि । सत्यवाचि प्रतिष्ठिताः सर्वगुणसम्पदः; अनृताभिभाषिणं बन्धवोऽप्यवमन्यन्ते, मित्राणि च विरक्तभावमुपयान्ति, विषाग्न्युदकादीन्यप्येनं न सहन्ते, जिह्वाच्छेदसर्वस्वहरणादिव्यसनभाग्भवतीति । __ संयमो द्विधा-उपेक्षाऽपहृतभेदेन । तत्र देशकालविधानज्ञस्य परानुपरोधेनोत्कृष्टकायस्य कायवाङ्मनःकर्मयोगानां कृतनिग्रहस्य त्रिगुप्तिगुप्तस्य रागद्वेषानभिष्वंगलक्षण उपेक्षासंयमः । अपहृतसंयमस्य समितयः कार्यास्ता उच्यन्ते, ईर्याभाषणाऽऽदाननिक्षेपोत्सर्गाः समितयः । तत्रेर्यासमिति मकर्मोदयाऽऽपादितविशेषकद्वित्रिचतुःपंचेंद्रियभेदेन चतुर्द्विििश्चतुर्विकल्पचतुर्दशजीवस्थानादिविधानवेदिनो मुनेर्धर्मार्थ प्रयतमानस्य सवितयुदिते चक्षुषोविषयग्रहणसामर्थ्यमुपजनयतः मनुष्यहस्त्यश्वशकटगोकुलादिचरणपातोपहतावश्याय प्रालयमार्गेऽनन्यमनसः शनैर्व्यस्त गदस्य संकुचितावय. वस्योत्सृष्टपार्श्वदृष्टेयुगमात्रपूर्वनिरीक्षणावहितलोचनस्य स्थित्वा दिशो विलोकयतः पृथिव्याद्यारंभाभावादीर्यासमितिरित्याख्यायते । हितमितासंदिग्धाभिधानं भाषासमितिः मोक्षपदप्रापणप्रधानफलं हितं, तद्विविधं, स्वहितं, परहितं चेति। मितमनर्थकबहुप्रलपनरहितं । स्फुटार्थ व्यक्ताक्षरं वाऽसंदिग्धत्वं । तस्याः प्रपंचो मिथ्याभिधानासूयाप्रियसभे. Page #37 -------------------------------------------------------------------------- ________________ अनगारधर्मवर्णनम्। दाल्पसारशंकितभ्रांतसकषायपरिहासायुक्तासभ्यशपननिष्ठुरधर्मविरोघिदेशकालविरोध्यतिसंस्तवादिवाग्दोषविरहितात्रिधानम् । अनगारस्य मोक्षकप्रयोजनस्य प्राणिदयातत्परस्य कायस्थित्यर्थ प्राणयात्रानिमित्तं तपोबृंहणार्थ च चर्यानिमित्तं पर्यटतः शीलगुणसंयमादिकं संरक्षतः संसारशरीरभोगनिर्वेदत्रयं भावयतो दृष्टवस्तुयाथात्म्यस्वरूपं चिन्तयतो देशकालसारथ्यादिविशिष्टमगर्हितमभ्यवहरणं नवकोटिपरिशुद्धमेषणसमितिः । षट्नीवनिकायस्योपद्रव उपद्रवणं, अंगच्छेदनादिव्यापारो विद्रावणं, संतापजननं परितापनं, प्राणिप्राणव्यपरोपणमारंभः, एवमुपद्रवणविद्रावणपरितापनारंभक्रियया निष्पन्नमन्नं स्वेन कृतं परेण कारितं वाऽनुमनितं वाऽधःकर्म ( जनितं) तत्सेविनोऽनशनादितपास्यभ्रावकाशादियोगा वीरासनादियोगविशेषाश्च भिन्नभाजनभरितामृतवत्प्रक्षरन्ति, ततश्च तदभक्ष्यमिव परिहरतो भिक्षोः परकृतप्रशस्तप्रासुकाऽऽहारग्रहणेऽपि षट्चत्वारिंशदोषा भवन्ति तद्यथा-षोडशविधा उद्गमदोषाः, षोडशविधा उत्पा: दनदोषाः, दशविधा एषणादोषाः संयोजनाप्रमाणाङ्गारधूमदोषाश्चत्वारः, एतैर्दोषैः परिवर्जितमाहारग्रहणमेषणासमितिरिति । नैःसनिकी चर्यामातिष्ठमानस्य पात्रग्रहणे सति तत्संरक्षणादिकृतो दोषः प्रसज्यते । कपालमन्यद्वा भाजनमादाय पर्यटतो भिक्षोर्दैन्यमासज्यते । गृहिजनानीतमपि भाजनं न सर्वत्र सुलभं तत्प्रक्षालनाविविधौ च दुःपरिहारः पापलेपः । स्वभाजनेन देशान्तरं नीत्वा भोजने चाशानुबन्धनं स्यात् स्वपूर्वविशिष्टभाजनाधिकगुणासंभवाच्च । न केनचिद्भुनानस्य दैन्यं स्यात् । ततो निःसंगस्य निष्परि Page #38 -------------------------------------------------------------------------- ________________ ३२ चारित्रतारे ग्रहस्य भिक्षोः स्वकरपुटभाजनान्नान्यद्विशिष्टमत्तिस्तस्मात्स्वायत्तेन पाणिपुटेन निरावाधे देशे निरालंबचतुरंगुलान्तरसमपादाम्यां स्थित्वा परीक्ष्य भुंजानस्य निभृतस्य तद्गतदोषाभावः । धर्माविरोधिनां परानुपराधिनां द्रव्याणां ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्त्तनमादाननिक्षेपणसमितिः । स्थावराणां जंगमानां च जीवानामविरोधेनांग मला निर्हरणं शरीरस्य च स्थापनमुत्सर्गसमितिः । एवं गमनभाषणाभ्यवहरणग्रहणनिक्षेपोत्सर्गलक्षणपंचसमितिविधानेऽप्रमत्तानां तत्प्रणालिकाप्रसृतकर्माभावान्निभृतानां संवरः सिद्ध्यति । एवमीर्या समित्यादिषु वर्तमानस्य मुनेस्तत्प्रतिपालनार्थं प्राणीन्द्रियपरिहारोऽपहृतसंयमः । एकेंद्रियादिप्राणिपीडापरिहारः प्राणसंयमः । इन्द्रियादिष्वर्थेषु रागानिभिष्वङ्ग इन्द्रियसंयमः । स चापहृतसंयमस्त्रिविधः, उत्कृष्टो मध्यमो जघन्यश्चेति । तत्र प्रासुकव-सत्याहारमात्रबाह्यसाधनस्य स्वाधीनेतरज्ञानचरणकरणस्य बाह्यजन्तु -- पनिपात आत्मानं ततोऽपहृत्य जीवान्परिपालयत उत्कृष्टः । मृदुना प्रमृज्य जन्तून्परिहरतो मध्यमः । उपकरणान्तरेच्छया जघन्यः । तस्यापहृतसंयमस्य प्रतिपालनार्थं शुद्धचष्टकोपदेशः । तद्यथाअष्टौ शुद्धयः । भावशुद्धिः, कायशुद्धिः, विनयशुद्धिः, ईर्यापथशुद्धि:, भिक्षाशुद्धि:, । प्रतिष्ठापनाशुद्धिः शयनाशन शुद्धिः, वाक्यशुद्धिश्चेति । तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्या हितप्रसादा रागाद्युपप्लवरहिता, तस्यां सत्यामाचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्म्मवत् । तथा चोक्तमपरग्रंथे— · Page #39 -------------------------------------------------------------------------- ________________ अनगारध-शुद्धिवर्णनम्। आध्धाकम्मुद्देसिय अज्झोवज्झेय पूदि मिस्सेय । हविदे बलि पाहुडिय पादुक्कारेय कीदेय ॥ पामिच्छे परियट्टे अभिहडमुभिन्न मालमारोहे । अच्छिज्जे अणिसिद्धे उग्गमदोसो दु सोलसमो॥ आध्धाकम्मं गृहस्थाश्रितं पंचशूनोपेतं निकृष्टव्यापारं षट्जीवनिकायवधकरं षट्चत्वारिंशदाषेबाह्यं उद्देसिय उद्देश्य देयं । अज्झोवज्झेय यतिं दृष्ट्वाऽधिकपाकप्रवृत्तिः । पूदि अप्रासुकमिश्रिताहारः । मिस्सेय असंयतैः सह भोजनं । दृविदे पाकभाजनादन्यत्र निक्षिप्तं । बलि यक्षादिदत्तनैवेद्यशेषं । पाहुडिय कालं परावृत्त्य दत्तं । पादुकारेय संक्रमणप्रकाशनरूपं । कीदेय क्रीत्वा नीतं । पामिच्छे उद्धारानीतं । परियट्टे परावृत्त्याऽऽनीतं । अभिहडं देशान्तरागतवस्तु । उभिन्न उद्भिन्नं बंधनापनयनं । मालारोहण मालामारुह्य दत्तं । अच्छिजे भीत्वा दत्तं । आणसिद्ध निःश्रेण्यादिकमवरुह्य दत्तं । एते षोडशोद्गमदोषाः भवन्ति । धादीदनिमित्ते आजीवे वणिवगे तहेव तिग्गिच्छे । कोधी माणी मायी लोभी य हवत्ति दस एदे ॥ पुव्वी पच्चा संथुदि विज्जा मंतेय चुण्णजोगेय। उप्पादणाय दोसा सोलसमे मूलकम्मेय ॥ धादी धायिका । दूदा लेखादिनेता । निमित्तं निमित्तशास्त्रं । आजीवो जीविका । वणिवगे दातुरनुकूलवचनं । तिग्गिछे वैद्यक. शास्त्रं । क्रोधी । मानी । मायावी । लोभी । पुची दानग्रहणात्पु. वस्तुतिः । पच्छा दानं गृहीत्वा पश्चात्स्तवनं । विजा आकाशगमनादि । मंतेय मंत्रसादिविषापहारः। चुण्णजोगेय तनुसंस्कारहे Page #40 -------------------------------------------------------------------------- ________________ ३४ चारित्रसारे तुसुगंधिद्रव्यरजः । मूलकम्मेय वशीकरणं । एते षोडशोत्पादनदोषा भवन्ति । संकिदा सन्दिह्यमानं । मख्खिदा तैलाद्यभ्यक्तं । णिक्खिदा अप्रा. सुकोपस्थापितं । पिहिय सचित्तादिपरिस्थापितं । साहरणा झटिति ग्रहणं । दायग सदोषदाता । ऊमिस्से अप्रासुकमिश्रं । अपरिणद अविध्वस्त । लित्ता खटिकादिलिप्तं। छोडिद त्यक्त्वाऽऽदिभोजनं । एते दशैषणा दोषाः । संयोयणा स्वादनिमित्तं शीतोष्णभक्तपानादिमिश्रणं । अप्पमाणं मात्राधिक्यं । इंगाल सगृद्धिभोजनं । थूम निंदयन् भुंक्ते । एतेऽप्येषणादोषा भवन्ति । एतैर्षट्चत्वारिंशद्दोषैः परिवर्जितैषणासमितिभवति । . कायशुद्धिर्निरावरणा निरस्तसंस्कारा यथाजातमलधारिणी निराकृतांगविकारा सर्वत्र प्रयत्नवृत्तिः प्रशममूर्तिमिव प्रदर्शयन्ती तस्यां सत्यां न स्वतोऽन्यस्य भयमुपजायते नाप्यन्यतः स्वस्य । विनयशुद्विरहंदादिपरमगुरुषु यथाऽर्हपूजाप्रवणा ज्ञानादिषु च यथाविधिभक्तियुक्ता गुरोः सर्वत्रानुकुलवृत्तिः प्रश्नस्वाध्यायवाचनाकथाविज्ञापनादिषु प्रतिपत्तिकुशला देशकालभावावबोधनिपुणाऽऽचार्यानुमतचारिणी तन्मूलाः सर्वसंपदः सैव भूषा पुरुषस्य सैव नौः संसारसमुद्रोत्तरणे । ईर्यापथशुद्धिर्नानाविधनीवस्थानां योनीनामाश्रयाणा- १ "क" पुस्तके एष उद्गमदोषादिप्रस्ताव एषणासमितिप्रकरणे लिखितोऽस्ति तत्रैव मनोज्ञतया प्रतिभाति प्रस्तुतत्त्वविशेषात् । अत्र विस्मृत्य लिखित इति पाठकाः क्षमां विदधतु-प्रार्थी, इन्द्रलाल शास्त्री । Page #41 -------------------------------------------------------------------------- ________________ अनगारधर्मे-शुद्धिवर्णनम् । ३५ मेव बोधाजनितप्रयत्नपरिहृतजन्तुपीडाज्ञानादित्यस्वेन्द्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलम्बितसंभ्रान्तविस्मितलीलाविकारदिगवलोकनादिदोषविरहितगमना तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्ट पूर्वापरस्वाङ्गदेशविधानाऽऽचारसूत्रोक्तकालदेशप्रकृतिप्रतिपत्तिकुशला लामालाभमानावमानसमानमनोवृत्तिः गीतनृत्तप्रसूतिकामृतकसुरापण्याङ्गनापापकर्मदीनानाथदानशालायजनविवाहादिमङ्गलगेहपरिवर्जनपरा चन्द्रगतिरिव हीनाधिकगृहविशिष्टोपस्थाना लोकगर्हितकुलपरिवर्जनोपलक्षिता दीनवृत्तिविगमा प्रासुकाऽऽहारगवेषणाप्रणिधानाssममविहितनिरवद्याशनपरिप्राप्तप्राणयात्राफला तत्प्रतिबद्धा हि चरणसंपद्गुणा संपदिव साधुजनसेवानिबंधना सा लाभालाभयोः सरसविरसयोश्च समसन्तोषवद्भिर्भिक्षेति भाष्यते । भिक्षाशुद्धिपरस्य मुनेरशनं पंचविध भवति, गोचाराक्षम्रक्षणोदराग्निप्रशमनभ्रमराहारश्वभ्रपुरणनामभेदेन । यथा सलीलसालंकारयुवतिभिरुपनीयमानघासे गौर्न तदंगगतसौन्दर्यनिरीक्षणपरस्तृणमेवाऽत्ति यथा वा तृणोलपं नानादेशस्थं यथालाभमभ्यवहरति न योजनासंपदमपेक्षते तथा भिक्षुरपि भिक्षापरिवेषकजनमृदुललिततनुरूपवेषाभिलाषविलोकननिरुत्सुकशुष्कद्रवाहारयोजनाविशेष चानवेक्ष्यमाणो यथाऽऽगतमश्नातीति गोरिव चारो 'गोचार' इति व्यपदिश्यते तथा गवेषणेति च । यथा शकटीं रत्नभारपूर्णी येन केनचित्स्नेहेनाक्षिलेपं कृत्वाऽभिलषितदेशान्तरं वणिगुपनयति तथा मुनिरपि गुणरत्नभरितां तनुशकरीमनवद्यामिक्षाऽऽयुरक्षम्रक्षणेनाभिप्रेतसमाधिपत्तनं प्रापपतीति ' अक्षम्रक्षग' मिति च नाम रूढं । Page #42 -------------------------------------------------------------------------- ________________ चारित्रसारे यथा भांडागारे समुत्थितमनलं शुचिनाऽशुचिना वा वारिणा प्रशमयति गृही तथा यथालब्धन यतिरप्युदराग्निं सरसेन विरसेन वा ऽऽहारेण प्रशमयतीत्युदराग्निप्रशमनमिति च निरुच्यते । दातृजनबाधया विना कुशलो मुनिभ्रमरवदाहरतीति भ्रमराहार इत्यपि परिभाष्यते । येन केनचित्कृतचारेण श्वभ्रपूरणवदुदरगर्त्तमनगारः पूरयति स्वादुनेतरेण वेति श्वभ्रपूरणमिति च निगद्यते । प्रतिष्ठापनशुद्धिपरः संयतो नखरीमसिंघाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जंतूपरोधमतरेण यत्नं कुर्याप्रयतते । संयतेन शयनाशनशुद्धिपरेण स्त्रीक्षुद्रचौरपानाक्षशौंडशाकुनिकादिपापजनावासा वाः शृङ्गारविकारभूषणोज्वलवेषवेश्याक्रीडाभिरामगीतनृत्तवादित्राकुलप्रदेशा विकृतांगगुह्यदर्शनका. ष्ठमयालेख्यहास्योपभोगमहोत्सववाहनदमनायुधव्यायामभूमयश्च रागकारणानीन्द्रियगोचरा मदमानशोककोपसंक्लेशस्थानादयश्च परिहर्त्तव्याः, अकृत्रिमा गिरिगुहातरुकोटरादयः कृत्रिमाश्च शून्यागारादयो मुक्तमोचितावासा अनात्मोद्देशनिवर्तिता निरारंभाः सेव्याः। तत्र संयतस्य त्रिविधो निवासः, स्थानमासनं शयनं चेति । पादौ चतुरांगुलान्तरे प्रस्थाप्याऽधस्तिर्यगूर्द्धाऽन्यतममुखो भूत्वा यत्राऽऽत्मभावो यथाऽऽत्मबलवीर्यसदृशः कर्मक्षमप्रयोजनोऽसंक्लिष्टमतिस्तिष्ठेत् , अथ न शक्नुयान्निष्प्रतिज्ञातः पर्यङ्कादिमिरासनैरासीत, यद्यपरिमितकालयोगः खिन्नो वैकपार्श्वबाहूपधानसंवृतांगादिभिरल्पकालं श्रमपरिहारार्थ शयीत । वाक्यशुद्धिः पृथिवीकायिकाद्यारंभप्रेरणरहिता युद्धकामकर्कशसंभिन्नालापपैशून्यपरुषनिष्ठुरादिपरपीडाकरप्रयोगनि Page #43 -------------------------------------------------------------------------- ________________ अनगारधर्म-संयमवर्णनम् । ३७ रुत्सुका स्त्रीभक्तराष्ट्रावनिपालाऽऽश्रितकथाविमुखा व्रतशीलदेशनादिप्रदानफला स्वपरहितमितमधुरमनोहरा परमवैराग्यहेतुभूता परिहतपरात्मनिन्दाप्रशंसा संयतस्य योग्या तदधिष्ठाना हि सर्वसंपद इति । इति शुद्धिप्रकरणम् । अथ संयमभेदाः साक्षान्मोक्षप्राप्तिकारणान्युच्यन्ते । सामायिक, छेदोपस्थापना, परिहारविशुद्धिः, सूक्ष्मसाम्परायः, यथाख्यात. चारित्रमिति । तत्र सामायिकमवस्थानं सर्वसावद्ययोगस्याभेदेन प्रत्याख्यानमवलंब्य प्रवृत्तमथवाऽवधृतकालमनवधृतकालं सामायिकमित्याख्यायते । त्रसस्थावरजन्तुदेशकालप्रादुर्भावनिरोधाप्रत्यक्षत्वात् प्रमादवशादभ्यु. 'पगतनिरवद्यक्रियाप्रबंधप्रलोपे सति तदुपात्तस्य कर्मणः सम्यक् प्रतिक्रिया छेदोपस्थापनाऽथवा सावद्यकर्मणो हिंसादिभेदेन विकल्पानिवृत्तिश्छेदोपस्थापना । प्राणिवधान्निवृत्तिः परिहारस्तेन विशुद्धिर्यस्मिन्तत्परिहारविशुद्धिचारित्रम् तत्पुनस्त्रिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपादमूलसेविनः प्रत्याख्याननामधेयपूर्वार्णवपारंगतस्य जन्तुनिरोधप्रादुर्भावकालपरिणामजन्मयोनिदेशद्रव्यस्वभावविधानज्ञस्य प्रमादरहितस्य महावीर्यस्य परमनिरस्यातिदुष्करचर्यानुष्ठायिनस्तिस्रः सन्ध्यां वर्जयित्वा द्विगन्यूतिगामिनः संपद्यते नान्यस्य । सूक्ष्मस्थूलसत्त्ववधपरिहारप्रवृत्तत्वादनुपहतोत्साहस्याखंडितक्रियाविशेषस्य सम्यग्दर्शनज्ञानमहामारुतसंधुक्षितप्रशस्ताध्यवसायाग्निशिखोपश्लिष्टकमन्धनस्य ध्यानविशेषविशिखीकृतकषायविषांकुरस्यापचयाभिमुखस्तो Page #44 -------------------------------------------------------------------------- ________________ चारित्रसारेकमोहवीजस्य तत · एव परिप्राप्तान्वर्थसूक्ष्मसाम्परायशुद्धसंयतस्य सूक्ष्मसाम्परायचारित्रम् । चारित्रमोहस्य निरवशेषस्योपशमात्क्षयाचात्मस्वभावावस्थोपेक्षालक्षणमथाख्यातचारित्रं, अथ शब्दस्यानन्तयथार्थवृत्तित्वान्निरवशेषमोहक्षयोपशमाऽनंतरमाविर्भवतीत्यथाख्यातं, अथवा यथाऽऽत्मस्वभावावस्तिथस्तथैवाऽऽख्यातत्वाद्यथाख्यातमिति । ___ ततो यथाख्यातचारित्रात्सकलकर्मसमाप्तिर्भवति । सामायिकादीनामानुपूर्व्या वचनमुत्तरोत्तरगुणप्रकर्षख्याफ्नार्थन् । तद्यथा-सामायिकछेदोपस्थापनासंयमस्य जघन्यविशुद्धिरल्पा ततः परिहारवशुद्धिचारित्रस्य जघन्यलब्धिरनन्तगुणा तस्यैवोत्कृष्टाविशुद्धिरनन्तगुणा ततः सामायिकछेदोपस्थापनासंयमोत्कृष्टविशुद्धिरनन्तगुणा ततः सूक्ष्मसाम्परायचारित्रस्य जघन्यविशुद्धिरनन्तगुणा तस्यैवोत्कृष्टा विशुद्धिरनन्तगुणा ततो यथाख्यातचारित्रविशुद्धिः संपूर्णा प्रकर्षाप्रकर्षविरहिताऽनन्तगुणाः । एवमेते पञ्च चारित्रोपयोगाः शब्दविषयत्वेन संख्येयभेदाः । बुध्यध्यवसानभेदादसंख्येया अर्थादनन्तभेदाश्च भवंति । तद्देतच्चारित्रं सर्वास्रवनिरोधकारणत्वात्परमसंवरहेतुरित्यवसेयम् । __ अथ वा व्रतधारणसमितिपालनकषायनिग्रहदंडत्यागेन्द्रियजयः संयमः । तत्र हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहविरतिरिति पंचधा व्रतं । तत्रेन्द्रियकषायनिग्रहमकृत्वा प्रमत्त इव यः प्रवर्त्तते स प्रमत्तः । पंचेन्द्रियमनोवाक्कायवलोच्छासनिःश्वासायुष्काणि प्राणाः । एकेन्द्रियादयः प्राणिनः प्रमत्तपरिणामयोगात्प्राणिप्राणव्यपरोपणं हिंसा । सा च संरभसमारंभारंभैस्त्रिभिः कायवाङ्मनःकर्मयोगैस्त्रिभिः कृत. Page #45 -------------------------------------------------------------------------- ________________ अनगारधर्मे-संयमवर्णनम् । ३९ कारितानुमतैत्रिभिः क्रोधादिकषायैश्चतुर्मिभिद्यते । तत्र प्राणव्यपरोपणादिषु प्रमादतः प्रयत्नावेशः संरंभः । साध्यायाः क्रियायाः साधनानां समाहारः समारंभः । आदौ क्रमः प्रक्रम आरंभ इति । औदारिकशरीरनामकर्मोदयवशात्पुद्गलैश्चीयत इति कायः । वाक् द्विविधा, भाववाक्, द्रव्यवागिति । तत्र भाववाग्वीर्यान्तरायमति. श्रुतज्ञानावरणक्षयोपशमांगोपांगनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वृत्यभावात्तत्सामोपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौद्गलिकी । मनश्च द्विविधं, भावमनो द्रव्यमनश्चेति । तत्र भावमनो लब्ध्युपयोगाभ्यां लक्ष्यते पुद्गलावलंबनत्वात्पौद्गलिकं । द्रव्यमनश्च ज्ञानावरणवीर्यान्तरायक्षयोपशमलाभप्रत्यया गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला वीर्यविशेषावर्जनसमर्था मनस्त्वेन परिणता इति पौद्गलिकमिति । स्वातन्त्र्यविशिष्टेनात्मना यः प्रादुर्भावितं तत्कृतं । परस्य प्रयोगमपेक्ष्य सिद्धिमापद्यमानं कारितं । प्रयोजकस्य मनसाऽभ्युपगमनमनुमतमिति । आत्मनः सम्यक्त्त्वसंयमासंय. मसंयमयथाख्यातचारित्रं कषन्तीति कषायाः । अथ वा कृषन्ति फलवत्कुर्वन्ति कर्मबीजमिति कषायाः । संरंभसमारंभारंभणामधस्तात् योगान् कृतकारितानुमतानि क्रोधमानमायालोमांश्च क्रमेण व्यत्रस्थाप्य संरंभं निरुध्याङ्कसंचारे कृते षट्त्रिंशद्विकल्पा भवन्ति । एवं समारंभे आरंभे च प्रत्येकं त्रिशद्विकल्पा भवन्ति । सर्वे संपिंडिता अष्टोत्तरशतसंख्याका भवन्ति । एवं कायादियोगान्कृतकारितानुमतानि क्रोधादिकषायांश्चैकैक निरुध्यांकसंचारः कर्त्तव्यः । Page #46 -------------------------------------------------------------------------- ________________ ४० चारित्रसारे ___ संख्यातासंख्यातानंतभवसंसारावस्थानमनन्तानुबन्धिनां कषायाणां । षण्मासावस्थानमप्रत्याख्यानानां । पक्षावस्थानं प्रत्याख्यानानां । अन्तर्मुहूर्तावस्थानं संज्वलनानां । एवंविधषोडशकषायभेदात् द्वात्रिंशदुत्तरचतुःशतविकल्पा भवन्ति । ___ अप्रतिपीड्याः सूक्ष्मजीवाः, वादरजीवानां गत्यादिमार्गणागुणस्थानकुलयोन्यायुष्यादिकं ज्ञात्वा गमनस्थानशयनासनादिषु स्वयं न हननं, परैर्वा न घातनं, अन्येषामपि हिंसतां नानुमोदनं हिंसाविरतिः । अहिंसाव्रतं स्वर्गापवर्गफलप्रापणहेतुस्तत्प्रतिपालननिमित्तं शेषाणि व्रतानि । अहिंसकः पुरुषो निजजनकवद्विश्वास्यः पूज्यश्च भवति । हिंस्रो हि नीत्योद्वैजनीयः संततोऽनुबद्धवैरश्चहैव च वध. बन्धपरिक्लेशादीन् परिलभते प्रेत्य चाशुभां गति, गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । परमार्थग्रहणेच्छयाऽहिंसाव्रतस्थैर्यार्थ पंच भावना भवन्ति । वाग्गुप्तिः, मनोगुप्तिः, ईर्यासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजनमिति । पारमार्थिकस्य भूतनिह्नवेऽभूतोद्भावने च यदभिधानं तदेवानृतं स्यात् । भूतनिह्नवे नास्त्यात्मा नास्ति परलोक इत्यादि । अभूतोद्भावने च श्यामाकतंदुलमात्र आत्मांगुष्ठपवमात्रः सर्वगतो निष्क्रिय इत्यादि । यद्विद्यमानार्थ विषयं प्राणिपीडाकारणं तत्सत्यमप्यसत्य १ "ख" पुस्तके " परमार्थिकस्य ” इति पाठो नास्ति । २ तंदुलसंज्ञो विशेषः । ३ प्रमाणे “ द्वयसज्दघ्नञ्मात्रचः" इत्यनेन पाणिनिसूत्रेण प्रमाणार्थे मात्रचू प्रत्ययः। Page #47 -------------------------------------------------------------------------- ________________ अनगारधर्मे - संयमवर्णनम् । मेतद्विपरीतं यच्च प्राणिपीडाकरं तदनृतं कृतात्कारितादनुमोदिताद्वाऽनृताद्विरतिः सत्यत्रतं तदभ्युदयनिःश्रेयसकारणं । सत्यवादिनं तदभ्युदयनिःश्रेयसकारणं । सत्यवादिनं सन्मानयति लोकः, सर्वेषु कार्येषु प्रमाणं भवति, अनृतवाद्यश्रद्धेयों भवति, इहैव जिह्वाच्छेदनादीन् प्रतिलभते, मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवाप्नोति प्रेत्य चाऽशुभां गतिं । निंदितश्च भवतीत्यनृतवचनाद्युपरमः श्रेयान् । सत्यत्रतदृढीकरणार्थं पंच भावना भवंति । 1 क्रोधप्रत्याख्यानं, लोभप्रत्याख्यानं, भीरुत्वप्रत्याख्यानं, हास्यप्रत्याख्यानं, अनुवीची भाषणं चेति । अनुवीची भाषणमनुलोमभाषणमित्यर्थः, विचार्य भाषणमनुवीची भाषणम् । अदत्ताऽऽदानं स्तेयं । ग्रामारामशून्यागारवीथ्यादिषु निपतितमणिकनकवस्त्रादिवस्तुनो ग्रहणमदत्तादानं । कृतकारितदिभिस्तस्मा • द्विरतिरस्तेयत्रतम् । तद्गीर्वाणनिर्वाणप्रदं । अस्तेयत्रतिनो बहिश्वरप्राणेष्वर्थेष्वपि विश्वसिति लोकः । परद्रव्यहरणासक्तमतिः सर्वस्योद्वेजनीयो भवति, इहैव चाभिघातवधबन्धहस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदनशला रोहणक्रकचैपाटनकारागार विनिवेशन सर्वस्वहरणादीन्प्रतिलभते प्रेत्य चाशुभां गतिं । कुत्सितश्च भवति, तत्संसर्गतः शिष्टोऽपि संशयमवाप्नोति । अदत्तादानत्रतस्थिरीकरणार्थं भावनाः पञ्च भवति । ce १ श्रदन्त इत्येतयोरुपसर्गवद्वृत्तिर्वतव्या " अत्र डुधाञ् धातुः, इत्यर्थः । २ पंचत्वं प्राप्य । ३ अत्रविशेषः । ४१ अप्रत्य Page #48 -------------------------------------------------------------------------- ________________ ४२ चारित्रसारे शून्यागारगिरिगुहातरुप्रकोटरादिष्वावासः, परकीयेषु मोचितेष्वा • वासः परेषां मनुष्यव्यन्तरादीनामुपरोधाकरणं, आचारसूत्रमार्गेण भैक्ष्यशुद्धिः, ममेदं तवेदमिति लक्षणो विसंवादः, न विसंवादोऽविसंवादः, सधर्मिभिरविसंवाद इति । मैथुनमब्रह्म, स्त्रीपुंसोर्वेदोदये वेदनापीडितयोर्यत्कर्म तन्मैथुनमथः वैकस्यापि चारित्रमोहोदयोदृक्तरागस्य हस्तादिसंघट्टनेऽस्ति मैथुनमिति । अहिंसादिगुणबृंहणाद्ब्रह्म न ब्रह्म अब्रह्म तिर्यङ्मनुष्यदेवाऽचेतनभेदाच्चतुर्विधस्त्रीभ्यो मातृसुताभगिनीभावनया मनोवाक्कायप्रत्येककृतकारितानुमोदितभेदेन नवविधाद्विरतिश्चतुर्थव्रतं । तदेव स्वर्गमोक्षसाधनं, ब्रह्मचारिणं भूमिस्थमपि साक्षादेव इव मन्यते लोकः । असंयतोऽपि ततो मानार्हो भवति, तस्मिन्प्रतिष्ठिताः सर्वे गुणाः, विद्यादेवताश्च परिगृहीतब्रह्मव्रतस्य किंकरभावमुपयाति । अब्रह्मचारी मदविभ्रमोन्मथितचित्तो वनगज इव वासितवंचितो विवश वधबंधपरिक्लेशादीननुभवति, मोहाभिभूतत्वाच्च कार्याकार्यानभिज्ञो न किंचित्कुशलमाचरति, परांगनालिंगनसंगकृत रतिश्चे हैव वैरानुबंधिनो लिंगच्छेदनवधबन्धन सर्वस्वहरणादीनपायानं प्राप्नोति, प्रेत्य चाशुभां गतिमश्नुते', तृणवलघुश्च भवतीत्यतः स्त्रीविरतिरात्महिता । ब्रह्मचर्यव्रतनिश्चलीकरणार्थे पंच भावना भवंति । स्त्रीरागकथाश्रवणवर्जनं तन्मनोहरांगनिरीक्षणविरहः, पूर्वरतानुस्मरणव्यपोहः, वृष्येष्टर सानुभवनिरासः, स्वशरीरसंस्कारत्यागश्चेति । १ वनकरिणी । २ दुःखानि । ३ लभते । Page #49 -------------------------------------------------------------------------- ________________ अनगारधर्मे - संयमवर्णनम् । ४३ मूर्च्छा परिग्रहः, बाह्याभ्यन्तरोपधि संरक्षणादिव्यावृत्तिर्मूर्च्छा । क्षेत्र वास्तुधनधान्यद्विपदचतुष्पदयानशयनासन कुप्पभांडानि दशविवश्चेतनाचेतनभेदलक्षणो बाह्यपरिग्रहः । मिथ्यात्वक्रोधमानमायालोमहास्यरत्यरतिशोकभयजुगुप्सा वेदरागद्वेष चतुर्दशभेदोऽभ्यन्तरपरिग्रहः । एतस्मान्मनसः कृतकारितानुमोदितेन वचसः कृतकारितानुमोदितेन कायस्य कृतकारितानुमोदितेन च विरतिरपरिग्रहलक्षणं व्रतम् । तदेव स्वर्गमोक्षकसाधनं सर्वेषां गुणानामलंकरणं, निष्परि ग्रहव्रतिनं सर्वेऽपि सन्मानयन्ति स सर्वैश्च समभिवन्दनीयः संपूजनीयश्च भवति, तस्य नामग्रहणेऽपि वद्धांजलिर्भवति लोकः । परिग्रहवान् यथा शकुनिर्गृहीतमांसखंडोऽन्येषां तदर्थिनां पतत्रिणामभिभवनीयः, तथा तस्करादीनामभिभवनीयो मार्यश्च भवति, परिग्रहार्जननिमित्तं निजामिजनविद्यावृत्तं विहाय केचन जडधियों नीचतामुपगच्छन्ति, न चाऽस्य तृप्तिर्भवतीन्धनैरिवाऽग्नेर्लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दति, लुब्धोऽयमिति गर्हितश्च भवतीति नीचवृत्त्या समुपार्जनीयमनित्यं दुःखकारणं परिग्रहं परित्यज्याकिंचन्यवृत्त्या नित्यमनन्तसुखसाधनं मोक्षमार्गमुपार्जयन्त्यत्महितैषिणः । आकिंचन्यत्रतद्रढिमार्थे पंच भावना भवंति । पंचानां स्पर्शनरसनत्राणचक्षुः श्रोत्राणामिष्टेषु विषयेषूपनिपतितेषु रागवर्जनमनिष्टेषु विषयेषूपनिपतितेषु द्वेषवर्जनमिति । द्रढिमा " इत्यत्र "L .१ पक्षी । २ तिरस्करणीयः । ३ कुल । ४ मूर्खाः । ५ 6s इमनिच् " प्रत्ययः । Page #50 -------------------------------------------------------------------------- ________________ चारित्रसारे एवमहिंसादित्रतानां लक्षणं फलं गुणं तदभावे दोषभावनां च ज्ञात्वा यथा ममाप्रियं वधबन्धपरिपीडनं तथा सर्वसत्वानां । यथा मम मिथ्यात्वाख्यानकटुकपरुषादीनि वचांसि शृण्वतोऽतितीव्रं दुःखमभूतपूर्वमुत्पद्यते तथा सर्वजीवानां । यथा ममेष्टद्रव्यवियोगे व्यसनपूर्वमुपजायते तथा सर्वभूतानां । यथा मम कान्ताजनपरिभवे परकृते सति मानसी पीडाऽतितीत्रा जायते तथा सर्वप्राणिनां । यथा च मम परिग्रहेष्वप्राप्तेषु कांक्षोद्भवं प्राप्तेषु रक्षाजनितं विनष्टेषु शोकसमुत्थं दुःखमतितीव्रतरं भवति तथा च सर्वदेहिनाम् । अतो न हिनस्मि । नानृतं वदामि । नादत्तमाददे । नांगनां स्पृशामि । न परिग्रहमुपादद इत्येवं प्रमत्तपरिणामयोगजनितं हिंसादिकं विहायाप्रमत्तपरिणामादहिंसादिवतधारणे यत्नः कर्त्तव्यः । समितिपालनं पूर्वमुक्तं । चतुर्विधकषायनिग्रहश्चोत्तमक्षमामार्दवाजवसत्येशौचेषु प्रतिपादितः । ४४ , दंडस्त्रिविधः मनोवाक्कायभेदेन । तत्र रागद्वेष मोह विकल्पात्मा मानसो दंडस्त्रिविधः, तत्र रागः प्रेमहास्यरतिमाया लोभाः । द्वेषः क्रोधमानारतिशोकभयजुगुप्साः । मोहो मिथ्यात्वत्रिवेदसहिताः प्रेमहास्यादयः । अनृतोपघातपैशून्यपरुषाभिशंसनपरितापहिंसनभेदाद्वादंड: सप्तविधः । प्राणिवधचौर्यमैथुनपरिग्रहाऽऽरंभताड नोग्रवेषविकल्पात् कायदंडोऽपि च सप्तविधः । गुप्तात्मना प्रयतमानेन दंडत्यागो विधेयः । विषयाटवीषु स्वच्छन्दप्रधावमानेन्द्रियगजानां ज्ञानवैराग्योपवा १ रौधादिकोऽयं धातुः Page #51 -------------------------------------------------------------------------- ________________ अनगारधर्मे-संयमवर्णनम् । साधंकुशाकर्षणेन वशीकरणमिन्द्रियजयः । स चास्रवानुप्रेक्षायां वक्ष्यते। संयमो ह्यात्महितस्तमनुतिष्ठन्निहैव पूज्यते। परत्र किमत्र वाच्यं । असंयतः प्राणिवधविषयमार्गेषु नित्यं प्रवृत्तो मूर्तिमदशुभकर्मैवाय. मिति साधुजनविनिंद्यमानो दुष्कर्म संचिनुते। ___ संयमिनो नैर्ग्रन्थ्यधारिणः पंचविधाः । पुलाकाः, वकुशाः, कुशीला:, निर्ग्रन्थाः, स्नातकाश्चेति । तत्रोत्तरगुणभावनोपेतमनसः व्रतेष्वपि कचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धपुलाकसाहश्यात्पुलाका इत्युच्यन्ते । नैर्ग्रन्थ्यमुपस्थिता अखंडितव्रताः शरीरोपकरणविभूषणानुवर्तिनो वृद्धियशःकामाः शातगौरवाश्रिता अविविक्त परदाराश्च (?) छेदशवलयुक्ता वकुशाः । शवलपर्यायवाची बकुश. शब्द इति । कुशीला द्विविधाः, प्रतिसेवनाकुशीलाः, कषायकुशीलाश्चेति । तत्राविविक्तपरिग्रहाः(१) परिपूर्णमूलोत्तरगुणाः कथंचिदुत्तरगुणविरोधिनः प्रतिसेवनाकुशीलाः, ग्रीष्मे जंघाप्रक्षालनादिसेवनवदिति । वशीकृतान्यकषायोदयाः संज्वलनमात्रतंत्राः कषायकुशीला इति । यथोदके दंडराजिराश्वेव विलयमुपयाति तथाऽनभिव्यक्तोदयकर्माण ऊर्द्ध मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनभाजो निर्ग्रन्था इति । ज्ञानावरणादिघातिकर्मक्षयादाविर्भूतकेवलज्ञानाद्यतिशयविभूतयः सयोगि. शीलेशिनो नवलब्ध्यास्पदाः केवलिनः स्नातका इति । एते प्रकृष्टाप्रकृष्टमध्यमचारित्रभेदे सत्यपि नैगमनयापेक्षया पंचापि निर्ग्रन्था इत्युच्यन्ते । यथा षोडशत्रयोदशदशवर्णिकादिषु सुवर्णशब्दोऽवि. शिष्टो वर्त्तते तथा निर्ग्रन्थशब्दोऽपि । सम्यग्दर्शनं निग्रन्थरूपं च Page #52 -------------------------------------------------------------------------- ________________ चारित्रसारेभूषावेषायुधरहितं तत्सामान्ययोगात्सर्वेषु पुलाकादिषु निर्ग्रन्थशब्दो युक्तः । ___पुलाकादिनिम्रन्था उत्तरोत्तरगुणप्रकर्षवृत्तिविशेषाः संयमादिभिरष्टाभिरनुयोगैाख्येयाः । तद्यथा-संयमः, श्रुतं, प्रतिसेवना, तीर्थ, लिंगं, लेश्या, उपपादः, स्थानमिति विकल्पतः पुलाकादयः साध्याः । तत्र संयमे पुलाकवकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति । कषायकुशीला: सामायिकच्छेदोपस्थापनयोः परिहारविशुद्धिसूक्ष्मसांपराययोश्च भवन्ति । निर्ग्रन्थाः स्नातकाश्चैकस्मिन्नेव यथाख्यातसंयमे भवन्तीति । श्रुते पुलाकवकुशप्रतिसेवनाकुशीला उत्कर्षणाभिन्नाक्षरदशपूर्वधराः कषायकुशीला निर्ग्रन्थाश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु, वकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचन मातरः । स्नातका अपगतश्रुताः केवलिनः । प्रतिसेवनायां पंचानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगालादन्यतमं प्रतिसेवमानः पुलाको भवति । वकुशो द्विविधः, उपकरणवकुशः, शरीरवकुशश्चेति । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तो बहुविशेषोपयुक्तोऽपकरणाकांक्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणवकुशो भवति । शरीर-संस्कारसेवी शरीरवकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । लिंगे, द्रव्यभावभेदाल्लिंगं द्विविधं, भावलिंगं प्रतीत्य सर्वे पंचाऽपि निर्ग्रन्था Page #53 -------------------------------------------------------------------------- ________________ अनगारधर्म-संयमवर्णनम् । ४७ लिंगिनो भवन्ति, द्रव्यलिंग प्रतीत्य भाज्याः । लेश्यायां पुलाकस्यो. त्तरास्तिस्रो लेश्या भवन्ति । वकुशप्रतिसेवनाकुशीलयोः षडपि, कषायकुशीलस्य परिहारविशुद्धस्य चतस्त्र उत्तराः, सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्कैव केवला भवति, अयोगिनः शैले शितां प्रतिपन्ना अलेश्याः । उपपादे, पुलाकस्योत्कृष्ट उपपादोऽष्टादशसागरोपमोत्कृष्टस्थितिषु देवेषु सहस्रारे, वकुशप्रतिसेवना: कुशीलयोविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः, कषायकुशीलनिग्रन्थयोस्त्रयस्त्रिंशत्सागरोपस्थितिषु सर्वार्थसिद्धौ च सर्वेषामपि जघन्यः सौधर्मकल्पे द्विसागरोपमस्थितिषु स्नातकस्य निर्वाणमिति । स्थानेऽसंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छिद्यते। कषायकुशीलस्ततोऽसंख्येयानि गच्छत्येकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति, ततो वकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत उद्धृमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते, अत उर्द्धमेकस्थानं गत्वा स्नातको निर्वाणं प्राप्नोत त्येषां संयमलब्धिरनन्तगुणा भवतीति । अथ परीषहजयप्रकरणं प्रस्तौति । ... संयतन तपस्विना दर्शनचारित्ररक्षणार्थ परिषोडव्याः परीषहाः। ____ Page #54 -------------------------------------------------------------------------- ________________ चारित्रसारे उक्तं हि परिषोढव्या नित्यं दर्शनचारित्ररक्षणे निरतैः । संयमतपोविशेषास्तदेकदेशाः परीषहाख्याः स्युः॥ इत्युक्तत्वात्संयमतपसोर्मध्ये परीषहा उच्यन्ते । कर्मागमद्वाराणि संवृण्वंतो जैनेन्द्रान्मार्गान्मा च्योप्महीति पूर्वमेव परीषहान्विजयन्तो जितपरीषहाः संतस्तैरनभिभूयमानाः प्रधानसंवरमाश्रित्याप्रतिबंधेन क्षपकश्रेण्यारोहणसामर्थ्य प्रतिपद्यन्ते । अभिन्नोत्साहाः सकलसांपरायिकप्रध्वंसनशक्तयो ज्ञानध्यानपरशुच्छिन्नमूलानि कमाणि विधूय प्रस्फोटितपक्षरेणव इव पतत्रिण उर्द्ध व्रतीत्येवमर्थ परिषोढव्याः परीषहाः । क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याssक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानीति क्षुधादयो द्वविंशतिपरीषहाः । त एते बाह्याभ्यन्तरद्रव्यपरिणामाः शारीरमानसप्रकृष्टपीडाहेतवस्तद्विजये विदुपा संयतेन तपस्विना मोक्षार्थिना प्रयत्नः कार्यः । तद्यथा-निवृत्तसंस्कारविशेषस्य शरीरमात्रोपकरणसन्तुष्टस्य तपःसंयमविलोपं परिहरतः कृतकारितानुमतसंकल्पितोद्दिष्टसंक्लिष्टक्रयागतप्रत्यादत्तपूर्वकर्मपश्चात्कर्मदशविधदोषविप्रमुक्तैषणस्य देशकालजनपदव्यवस्थापेक्षस्यानशनाध्वरोगतपःस्वाध्यायश्रमवेलातिकमावमोदर्यासद्वेद्योदयादिभ्यो नानाssहारेन्धनोपरमे जठरांत्रदाहिनीमारुतांदोलिताऽग्निशिखेव समंताच्छरीरेन्द्रियहृदयसंक्षोभकरी क्षुदुत्पद्यते । तस्याः प्रतीकारं त्रिप्रकारमकाले संयमविरोधिभिर्वा द्रव्यैः स्वयमकुर्वतोऽन्येन क्रियमाणमसेव Page #55 -------------------------------------------------------------------------- ________________ अनगारधर्मे-संयमवर्णनम् । ४९ wwwwwwwwww.a मानस्य मनसा वाऽनभिसंदधतो दुस्तरेयं वेदना महांश्च कालों दीर्घमह इति विषादमनापद्यमानस्य त्वगस्थिसिरावितानमात्रकलेवरस्यापि सतः आवश्यकक्रियादिषु नित्योद्यतस्य क्षुद्वशप्राप्तानाञ्चारकबंधस्थमनुष्यपंजरगततिर्यकप्राणिनः क्षुदभ्यर्दितान्परतंत्रानपेक्षमाणम्य ज्ञानिनो धृत्यंभसा शमकुंभधारितेन क्षुदग्निं शमयतस्तत्कृतपीडां प्रत्यविगणनं क्षुजय इत्युच्यते । जलस्नानावगाहनपरिषेकत्यागिनः पतत्रिवधूवासनावसथस्यातिलवणस्निग्धरूक्षविरुद्धाहारगृष्मातपपित्तज्वरानशनादिभिरुदीर्णी शरीरोन्द्रियोन्माथिनी पिपासां प्रत्यनाद्रियमाणप्रतीकारमनसो निदाधे पटुतपनकिरणसंतापिनोप्यटव्यामासन्नेष्वपि हृदेष्वप्कायिकजीवपारहारेच्छया जलमनाददानस्य सलिलसेकविवेकम्लानां लतामिव ग्लानिमुपगतां गात्रयष्टिमवगणय्य तपःपरिपालनपरस्य भिक्षाकालेऽपीगिताकारादिभिर्योग्यमपि पानं पातुं परमचोदयतः परमधैर्यकुंभधारितशीतलसुगन्धिप्रतिज्ञातोयेन विध्यापयतस्तृष्णाग्निशिखां संयम परत्वं पिपासासहनमित्यवसीयते । __परित्यक्तवाससः पक्षिवदनवधारिताऽऽलयस्य शरीरमात्राधिकरणस्य शिशिरवसंतजलदागमादिकालवशाद्वृक्षमूले पथि गुहादिषु पतितप्रालेयतुषारलवव्यतिकरशिशिरपवनाभ्याहतमूर्तेस्तत्प्रतिक्रियासमर्थद्रव्यान्तराग्न्यायनभिसंधानान्नारकदुःसहशीतवेदनाऽनुस्मरणात् तत्प्रतिचिकीर्षायां परमार्थविलोपभयाद्विद्यामंत्रौषधपर्णवल्कलत्वक्तणाजिनादिसंबंधात् व्यावृत्तमनसः परकीयमिव देहं मन्यमानस्य धृतिविशेषप्रावरणस्य गर्भागारेषु धपप्रवेकपुष्पप्रकरप्ररूपितप्रदीपप्रभेष Page #56 -------------------------------------------------------------------------- ________________ ५० चारित्रसारे— वरागनानवयौवनौष्णघनस्तननितंबभुजान्तरतर्जितशीतेषु निवासं सुरतसुखाकरमनुभूतमसारत्वावबोधादस्मरतो विषादविरहितस्य संयमपरिपालनं शीतक्षमेति भाष्यते । ग्रैष्म्येण पटीयसा भास्कर किरणसमूहेन सन्तापितशरीरस्य तृष्णानशन पित्तरोगघर्म्मश्रमप्रादुर्भूतौप्ण्यस्य खेदशोषदाहाऽभ्यर्दितस्य जलभवनजलावगाहनानुलेपपरिषेकार्द्रावनितलोत्पलदलकदलीपत्रोत्क्षेपमारुतजलतूलिका चन्दनद्रव चन्द्रपादकमलकल्हारमुक्ताहारादिपूर्वानुभूत शीतलद्रव्य प्रार्थनाऽपेतचेतस उष्णवेदनातितीत्रा बहुकृत्वः परवशादवाता इदं पुनस्तपो मम कर्मक्षयकारणमिति तद्विरोधिनीं कियां प्रत्यनादराच्चारित्ररक्षणमुष्णसहनमिति समाम्नायते । प्रत्याख्यातशरीराच्छादनस्य क्वचिदप्रतिबद्धचेतसः परकृताय तनगुहागह्वरादिषु रात्रौ दिवा वा दंशमशकमक्षिकापिशुकपुत्तिकामकुणकीटपिपीलिकावृश्चिकादिभिस्तीक्ष्णपतिर्भक्षमाणस्यातितीव्र वेदनोत्पादकैरव्यथितमनसः स्वकर्मविपाकमनुचिन्तयतो विद्यामन्त्रौषधादिभिस्तन्निवृत्तिं प्रति निरुत्सुकस्याऽऽशरीरपतनादपि निश्चितात्मनः परबलप्रमर्दनं प्रति वर्त्तमानस्य मदांधगन्धसिंधुरस्य रिपुजन प्रेरितविविधशस्त्रप्रतिघातादपराङ्मुखस्य निष्प्रत्यूहविजयोपलंभनमिव कर्मारातिपृतनापराभवं प्रति प्रयतनं दंशमशकादिवाघासहनमप्रतीकारमित्याख्यायते । दंशमशकमात्रग्रहणमुपलक्षणार्थ, तेन दंशमशकादिपरितापकारणस्य सर्वस्यैवेदमुपलक्षणं, यथा काकेभ्यो दधि रक्ष्यतामिति । १ अत्र लक्षणया काकशब्दस्य दध्युपघातकोऽर्थः, " मुख्यार्थबाधे तयोगे रूढितोऽथ प्रयोजनात् । अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया " इति लक्षणालक्षणं काव्यप्रकाशप्रन्थे । Page #57 -------------------------------------------------------------------------- ________________ अनगारधर्म-संयमवर्णनम् । गुप्तिप्तमित्यविरोधिपरिग्रहनिवृत्तिपरिपूर्णब्रह्मचर्यमप्रार्थितमोक्षसाधनं चारित्रानुष्ठानं यथाजातरूपमसंस्कृतमविकारं मिथ्यादर्शनाविष्टविद्विष्टं परममांगल्यं नाग्न्यमभ्युपगतस्य स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो वैराग्यभावनावरुद्धमनोविक्रियस्यासंभावितमनुष्यत्वस्य नान्यदोषासंस्पर्शात्परीपहजयसिद्धिरिति जातरूपधारणमुत्तमश्रेयःप्राप्तिकारणमित्युच्यते । इतरे पुनर्मनोविक्रियां निरोद्धुमसमर्थास्तत्पूर्विकामंगविकृति निगहितुकामाः कौपीनफलकचीवराद्यावरणमातिष्ठन्तेऽङ्गसंवरणार्थमेव, तन्न कर्म. संवरणकारणम् । संयतस्य क्षुधाद्याऽऽबाधासंयमपरिरक्षणेंद्रियदुर्जयत्त्वव्रतपरिपालनभारगौरवसर्वदाऽप्रमत्तत्त्वदेशभाषांतरानभिज्ञत्त्वविषमचपलसत्त्वप्रचुरभीमदुर्गनियतैकविहारत्वादिभिररति प्रादुष्यन्ती (2) धृतिविशेषा-. निवारयतः संयमे रतिभावनाद्विषयसुखरतिमतिविषमाहारसेवेव विपाककटुकेति चिन्तयतोऽरतिपरीषहबाधाऽभावादरतिपरीषहजय इति निश्चीयते । ___ एकान्ते भवनारामादिप्रदेशे रागद्वेषयौवनदर्परूपमदविभ्रमोन्मादमद्यपानाऽऽवेशादिभिः प्रमदासु बाधमानासु तदक्षिवक्रभूविकारशृंगाराकारविहारहावविलासहासलीलाविजेंभितकटाक्षविक्षेपसुकुमारस्निग्धमृदुपीनोन्नतस्तनकलशनितान्तताम्राधरपृथुजघनरूपगुणाभरण. गन्धवस्त्रमाल्यादीन्प्रत्यनगृहीतमनोविप्लुतेर्दर्शनाभिलाषनिरुत्सुकस्य स्निग्धमृदुविशदसुकुमाराभिधानतंत्रीवंशमिश्रमधुरगीतश्रवणनिवृत्ता Page #58 -------------------------------------------------------------------------- ________________ ५२. चारित्रसारे- दरश्रोत्रस्य कूर्मवत्संवृतेन्द्रियहृदय विकारस्य ललितस्मित मृदुकथितसविकारवीक्षणप्रहसनमदमंथर गमनमन्मथशरव्यापारविफलीकरणचरणस्य संसारार्णवव्यसनपातालरौद्रदुःखागाधाऽऽवर्त्तकुटिलाध्यायिनः स्त्रैणानर्थनिवृत्तिः स्त्रीपरीषहजय इति कथ्यते । अन्यवादिपरिकल्पिता देवताविशेषा ब्रह्मादयस्तिलोत्तमादिदेवगणिकारूप संपद्दर्शनलोललोचनविकाराः स्त्रीपरीषहपंकान्नोद्धर्तुमात्मानं समर्थः । दीर्घकालाऽभ्यस्तगुरुकुल्ब्रह्मचर्यस्याधिगतबंधमोक्षपदार्थतत्त्वस्य कषायनिग्रहपरस्य भावनार्पितमनसः संयमायतनादिभक्तिहेतोर्देशान्तरातिथेर्गुरुणाऽभ्यनुज्ञातस्य नानाजनपदव्याहारव्यवहाराभिज्ञस्य ग्राम एकरात्रं नगरे पंचरात्रं प्रकर्षेणावस्थातव्यमित्येवं यातस्य वायोरिव निःसंगतामुपगतस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतः क्लेशक्षमस्य भीमाटवीप्रदेशेषु निर्भयत्वात्सिंहस्येव सहायकृत्यमन - पेक्षमाणस्य परुषशर्करा कंटकादिव्यथनजातपादखेदस्यापि सतः पूर्वोचितयान वाहनादिगमनमस्मरतः सम्यक् चर्यादोषं परिहरतः चर्यापरीषहजयो वेदितव्यः । श्मशानोद्यानशून्यायतनगिरिगुहागहारादिष्वनभ्यस्तपूर्वेषु विदितसंयमक्रियस्य धैर्यसहायस्योत्साहवतो निषद्यामधिरूढस्य प्रादुर्भूतोपसर्गोग्ररोगविकारस्यापि सतस्तत्प्रतिदेशादविचलतो मंत्रविद्यादिलक्षणप्रतीकारानपेक्षमाणस्य क्षुद्रजन्तुप्रायविषमदेशाश्रयात्काष्ठोपल निश्चलस्यानुभूतमृदुसंस्तरणादिस्पर्शसुखमवगणयतः प्राणिपीडापरिहारोद्यतस्य ज्ञानध्यानभावनाधीनधियः संकल्पितवीरासनोत्कुटिकासनादिरतेरासनदोषजयान्निषद्यातितिक्षत्याख्यायते । Page #59 -------------------------------------------------------------------------- ________________ अनगारधर्मे-संयमवर्णनम् । ५३ स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य खरविषमप्रचुरशर्कराकपालसंकटातिशीतोष्णेषु भूमिप्रदेशेषु मौहूर्तिकी निद्रामनुभवतो यथाssकृतैकपार्श्वदंडायतादिशायिनः संजातबाधाविशेषस्य संयमार्थमस्पन्दमानस्यानुतिष्ठतो व्यन्तरादिभिर्वा वित्रास्यमानस्य पलायनं प्रति निरुत्सुकस्य मरणभयनिर्विशंकस्य निपतितदारुवत् व्यपगतासुवच्च परिवर्त्तमानस्य द्वीपिशार्दूलमहोरगादिदुष्टसत्त्वपरिचरितोऽयं प्रदेशोऽचिरादतो निर्गमनं श्रेयः कदा नु रात्रिविरमतीति विषादमनाददानस्य सुखप्राप्तावप्यपरितुष्यतः पूर्वानुभूतनवनीतवन्मृदुशयनमननुस्मरतः सम्यगागमोदितशयनादप्रच्यवतः शय्यासहनमिति तत्प्रत्येतव्यम् । तीव्रमोहाऽऽविष्टमिथ्यादृष्टयनार्यम्लेच्छखलपापाचारमत्तोदृप्तशंकितप्रयुक्त 'मा' शब्दपरुषावज्ञानाक्रोशादीन्कर्णमूले गतान् हृदयशूलोद्भावकान् क्रोधज्वलनशिखाप्रवर्द्धनकरानभिप्रायान् शृण्वतोऽपि दृढमनसो दुर्भाषिणो भस्मसात्कर्तुमपि समर्थस्य परमार्थावहितचेतसः शब्दमात्रश्राविणस्तदर्थान्वीक्षणविनिवृत्तव्यापारस्य स्वकृताशुभकर्मोदयो ममैष यतोऽमीषां मां प्रति द्वेष इत्येवमादिभिरुपायैरनिष्टवचनसहनमाकोशपरीषहजय इति निर्णीयते ।। ग्रामोद्याननगराटवीपुरेषु नक्तं दिवा चैकाकिनो निरावरणमूर्तेः समन्तात्पर्यटद्भिश्चौरारक्षकम्लेच्छचारपुरुषबधिरपूर्वापकारिद्विषत्परलिंगिभिराहितकोधैस्ताडनाकर्षणबन्धनशस्त्राभिघातादिभिर्मार्यमाणस्यानुत्पन्नवैरस्यावश्यं प्रपातुकमेवेदं शरीरं कुशलद्वारेणानेनापनीयते न मम व्रतशीलभावनाझंशनमिति भावशुद्धस्य दह्यमानस्यापि सतः ___ Page #60 -------------------------------------------------------------------------- ________________ પ चारित्रसारे सुगन्धमुत्सृजतश्चन्दनस्येव शुभपरिणामस्य स्वकर्मनिर्जरामभिसंद-. धानस्य दृढमतेः क्षमौषधिवलस्य मारकेषु · सुहृत्स्विवामर्षापोहंभावनं वधमर्षणमित्याम्नायते । क्षुदध्वपरिश्रमतपोरोगादिभिरप्रच्यवितवीर्यस्य शुष्कपादपस्येव निरामूर्तेरुन्नतास्थिस्नायुजालस्य निम्नाक्षपुटपरिशुष्काधरक्षामपांडुकपोलस्य चर्मवत्संकुचितांगोपाङ्गत्वचः शिथिलजानुगुल्फकटिबाहुयंत्रस्य देशकालक्रमोपपन्नकल्पादायिनो वाचंयमस्य मौनिसमस्य वा शरीरसन्दर्शनमात्रव्यापारस्योर्जितसत्त्वस्य प्रज्ञाऽऽधायितचेतसः प्राणात्ययेऽपि वसत्याहारभेषजानि दीनाभिधानमुखवैवाअसंज्ञादिभिरयाचमानस्य भिक्षाकालेऽपि विद्युदुद्योतवदुपलक्षितमूर्तेः बहुषु दिवसेषु रत्नवणिजो मणिसन्दर्शनमिव स्वशरीरप्रकाशमकृपणं मन्यमानस्य वन्दमानं प्रति स्वकरविकासनमिव पाणिपुटधारणमदीनमिति गणयतो याचनासहनमवसीयते । अद्यत्वे पुनः कालदोषादीनानाथपाखण्डिबहुले जगत्यमार्गज्ञैरनात्मवद्भिर्याचनमनुष्ठीयते । वायुवदसंगानेकदेशचारिणोऽप्रकाशितवीर्यस्याभ्युपगतैककालभोजनस्य सकृन्मूर्तिसन्दर्शितव्रतकालस्य ‘देहि' इत्यसभ्यवाक्प्रयोगादुपरतस्यानुपात्तविग्रहप्रतिक्रियस्यायेदं श्वश्चेदमिति व्यपेतसङ्कल्पस्यैकस्मिन् ग्रामेऽलब्धे सति ग्रामान्तरान्वेषणनिरुत्सुकस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु बहुषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसो नाऽयं दाता तत्राऽन्यो दानशूरोऽतिधन्यो वदान्योऽस्तीति व्यपगतपरीक्षस्य लाभादप्यलाभो मे परं तप इति संतुष्टस्यालाभविजयोऽवसेयः। Page #61 -------------------------------------------------------------------------- ________________ अनगारधर्मे-संयमवर्णनम् । दुःखाधिकरणमशुचिभाजनं जीर्णवस्त्रवत्परिहेयं पित्तमारुतकफसन्निपातनिमित्तानेकामयवेदनाऽभ्यर्दितमन्यदीयमिव विग्रहं मन्यमानस्योपेक्षकत्वादाप्रच्युतेश्चिकित्साव्यावृत्तचेष्टस्य शरीरयात्राप्रसिद्धये व्रणानुलेपननवद्व्यथोक्तमाहारमाचरतो विरुद्धाहारसेवाविरसवैषम्यजनितवातादिविकाररोगस्य युगपदनेकशतसंख्याव्याधिप्रकोपे सत्यऽपि तद्वशवर्तितां विजहतो जल्लोषधिप्राप्ताद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिःस्पृहत्वात्प्रतीकारानपेक्षिणः पूर्वकृतपापकर्मणः फलमिदमनेनोपायेनाऽनृणी भवामीति चिन्तयतो रोगसहनं सम्पद्यते । यथाऽभिनिवृत्ताधिकरणशायिनः शुष्कतृणपरुषशर्कराभूमिकंटफलकशिलातलादिषु प्रासुकेष्वसंस्कृतेषु व्याधिमार्गगमनशीतोष्णजनितश्रमविनोदार्थ शय्यां निषद्यां वा भजमानस्य संस्कृतशुष्कतृणादिबाधितमूर्तरुत्पन्नकंडूविकारस्य दुःखमनभिचिन्तयतस्तृणादिस्पर्शबाधाभिरवशीकृतत्वात्तृणस्पर्शसहनमवगन्तव्यम् । जलजन्तुपीडापरिहारायास्नानप्रतिज्ञस्य स्वेदपंकदिग्धसर्वांगस्य वादरनिगोदप्रतिष्ठितजीवदयार्थ च शरीरसंस्कारविरमणार्थ च परित्यक्तोद्वर्तनस्य सिध्मकच्छुदीर्णकायस्य नखरोमश्मश्रुकेशविकृतसहजबाह्यमलसम्पर्ककारणानेकत्वग्विकारस्य स्वांगमलापचये परमलापचये वाप्रणिहितचेतसः संकल्पितसंज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपंकापनोदायैवोद्यतस्य पूर्वानुभूतस्नानानुलेपनादिस्मररणपराङ्मुखचित्तवृत्तेर्मलधारणमाख्यायते । केशलुञ्चने तत्संस्काराकरणे महान्खेदः संजायते तत्सहनमपि मलधारणेऽन्तर्भवतीति । ___ Page #62 -------------------------------------------------------------------------- ________________ चारित्रसारे चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिश्चयज्ञस्य हितोपदेशपरस्य कथामार्गकुशलस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसंभ्रमाऽऽसनप्रदानादीनि मे न कश्चित्करोतीत्येवमचिन्तयतो मानावमानयोः समानमनसः सत्कारपुरस्कारनिराकांक्षस्य श्रेयोध्यायिनः सत्कारपुरस्कारजयो वेदितव्यः । सत्कारः प्रशंसादिकः, पुरस्कारो नाम नन्दीश्वरादिपर्वयात्रात्मकक्रियारंभादिष्वग्रतः करणमामंत्रणं वा। अंगपूर्वप्रकीर्णकविशारदस्य कृत्स्नग्रन्थार्थधारिणोऽनुत्तरवादिनस्त्रिकालविषयार्थविदः शब्दन्यायाऽध्यात्मनिपुणस्य मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतवन्नितरामवभासत इति विज्ञानमदनिरासः प्रज्ञापरीषहजयः प्रत्येतव्यः । अज्ञोऽयं न किंचिदपि वेत्ति पशुसम इत्येवमाद्यधिक्षेपवचनं सहमानस्याध्ययनार्थग्रहणपराभिभवादिष्वनासक्तबुद्धेश्चिरप्रव्रजितस्य विविधतपोविशेषभाराकान्तमूर्तेः सकलसामर्थ्याप्रमत्तस्य विनिवृत्तानिष्टमनोवाकायचेष्टस्याद्याऽपि मे ज्ञानातिशयो नोत्पद्यत इत्येवं मनस्यसन्दधतोऽज्ञानपरीषहजयोऽवगन्तव्यः । संयमिप्रधानस्य दुष्करतपोऽनुष्ठायिनः परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्याहदायतनसाधुधर्मपूजकस्य चिरन्तनप्रव्रजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते महोपवासाद्यनुष्ठायिनां प्राप्तिहार्यविशेषाः प्रादुरभवन्निति प्रलापमात्रमिदमनर्थकेयं प्रव्रज्या विफलं व्रतपालनमित्येवं मानसमनादधानस्य दर्शनविशुद्धियोगाददर्शनपरीषहसहनमवसातव्यम् । Page #63 -------------------------------------------------------------------------- ________________ अनगारधर्मे - संयमवर्णनम् । एवं परीषहानसंकल्पितोपस्थितान् सहमानस्यासं क्लिष्टचेतसो रागादिपरिणामास्त्रवाभावान्महान् संवरो भवति । एते सर्वेऽपि परीषहाः कर्मोदयजनितास्तद्यथा--- ज्ञानावरणे प्रज्ञाऽज्ञाने, दर्शनमोहान्तराययोरदर्शनाला भौ, चारित्रमोहे मानकषायोदये नान्यनिषद्याऽऽक्रोशयाचना सत्कारपुरस्काराः, अरतिवेदयोर रतिस्त्रीपरीषहौ, वेदनीये क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाः । शय्या एकस्मिन् जीव एकस्मिन् काले एकादयः परीषहा आ एकोनविंशतेर्युगपद्भवन्ति । तद्यथा - शीतोष्णपरीषहयोरेकतरः, चर्यानिषद्यानाञ्चान्यतम एव भवति । श्रुतज्ञानापेक्षया प्रज्ञाप्रकर्षे सत्यवध्यभावापेक्षयाऽज्ञानोपपत्तेः सहावस्थाविरोधो न भवति । मिथ्यादृष्टिसासादनसम्यग्दृष्टि सम्य मिथ्यादृष्ट्य संयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतेषु सप्तसु गुणस्थानेषु सर्वे परी - पहाः सन्ति । अदर्शनपरीपहं विनाऽपूर्वकरण एकविंशतिपरीषंहा भवन्ति । अरतिपरीषहमन्तरेण सवेदानिवृत्तौ विंशति परीषहाः स्युः । अवेदानिवृत्तौ स्त्रीपरीषहे नष्ट एकोनविंशतिपरीषहा भवेयुः । तस्यैव मानकषायोदयक्षयान्नाग्न्यनिषद्याऽऽक्रोशयाचनासत्कारपुरस्कारा वि ५७ नश्यन्ति । तेषु विनष्टेषु अनिवृत्तिसूक्ष्मसाम्परायेोपशान्तकषायक्षीणकषायेषु चतुर्षु गुणस्थानेषु चतुर्दश परीषहाः सन्ति । क्षीणकषाये प्रज्ञाऽज्ञानालामा विनश्यन्ति । सयोगिभट्टारकस्य ध्यानानलनिर्दग्धघातिकर्मेन्धनस्यानन्ताप्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावान्निरन्तरमुपचीयमान शुभपुद्गलसन्ततेर्वेदनीयाख्यं कर्म विद्यमानमपि Page #64 -------------------------------------------------------------------------- ________________ चारित्रसारे प्रक्षीणघातिसहायबलं स्वप्रयोजनोत्पादनं प्रत्यसमर्थ, यथा-विषद्रव्यं मंत्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं न मारणाय समर्थ, यथा छिन्नमूलतरुः कुसुमफलप्रदो न भवति, यथोपेक्षावतो. रनिवृत्तिसूक्ष्मसाम्पराययोमैथुनपरिग्रहसंज्ञा, यथा च परिपूर्णज्ञान एकाग्रचिन्तानिरोधाऽभावेपि कर्मरजोविधूननफलसंभवाद्धयानोपचारः, तथा क्षुधारोगवधादिवेदनासद्भावपरीषहाभावे वेदनीयकर्मोदयद्रव्यपरीषहसद्भावादेकादश जिने सन्तीत्युपचारो युक्तः वेद्यकर्मोदयसद्भावादेकादश जिने सन्ति । घातिकर्मबलसहायरहितं वेद्यं फलवन्न भवति तेनैकादश जिने सन्ति । एवं सति स्यादस्ति स्यान्नास्तीति स्याद्वाद उपपन्नो भवति । तथा च शतकस्य प्रदेशबन्धे वेदनीयस्य भागविशेषकारणकथनेऽप्युक्तम् । " जम्हा वेदणीयस्स सुहुदुक्खोदयस्स णाणावरणादि उपकरणकरणं तम्हा वेदणीयस्सेव सुहदुक्खोदयोदीसदे” इति । तस्माद्वेदनीयं घातिकर्मोदयं विना फलवन्न भवतीति सिद्धम् । __नरकतिर्यग्गत्योः सर्वे परीषहाः, मनुष्यगतावाद्यभंगा भवन्ति, देवगतौ घातिकर्मोत्थपरीषहैः सह वेदनीयोत्पन्नक्षुत्पिपासावधैः सह चतुर्दश भवन्ति । इन्द्रियकायमार्गणयोः सर्वे परीषहाः सन्ति, वैक्रियकद्वितयस्य देवगतिभंगा तिर्यङ्मनुष्यापेक्षया द्वाविंशतिः। शेष.. योगानां वेदादिमार्गणानां च स्वकीयगुणस्थानभंगा भवन्ति । Page #65 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम्। ५९ तपोवर्णनम् । रत्नत्रयाविर्भावार्थमिच्छानिरोधस्तपः, । अथवा कर्मक्षयार्थ मार्गाविरोधेन तप्यत इति तपः । तद्विविधं, बाह्यमाभ्यन्तरञ्च । अनशनादिबाह्यद्रव्यापेक्षत्वात्परप्रत्ययलक्षणत्वाच्च बाह्यं, तत् षड्विधं, अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशभेदात् । अभ्यन्तरमपि षड्विधं, प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानभेदात् ।। तत्राऽनशनं नाम यत्किंचिदृष्टफलं मंत्रसाधनाद्यनुद्दिश्य क्रियमाणमुपवसनमनशनमित्युच्यते । तत्किमर्थं प्राणेन्द्रियसंयमप्रसिद्धिरागद्वेषाधुच्छेदबहुकर्मनिर्जरणशुभध्यानागमावाप्त्यर्थे । तद्दिविधमवधृतानवर्धकालभेदात् । तत्रावधृतकालं सकृद्भोजनचतुर्थषष्ठाष्टमदशमद्वादशपक्षमासत्वयनसंवत्सरेष्वशनपानखाद्यस्वाद्यलक्षणचतुविधाहारनिवृत्तिः । अनवधृतकालमादेहोपरमात् । आत्मीयप्रकृत्यौदनस्य चतुर्थभागेनार्द्धन ग्रासेण वोनाहारनियमोऽवमोदर्य । अवमोदर्यमिति च तत्किमर्थ निद्राजया) दोषप्रशमनार्थमतिमात्राऽऽहारजातविहितस्वाध्यायभयार्थमुपवासश्रमसमुद्भूतवातपित्तप्रकोपपरिहीयमानसंयमसंरक्षणार्थं च । स्वकीयतपोविशेषेण रसरुधिरमांसशोषणद्वारेणेन्द्रियसंयम परिपालयतो भिक्षार्थिनो मुनेरेकागारसप्तवेश्मैकरथ्यार्द्धग्रामदातृज नवेषगृहभाजनभोजनादिविषयसंकल्पो वृत्तिपरिसंख्यानमाशानिवृत्यर्थमवगन्तव्यम् । Page #66 -------------------------------------------------------------------------- ________________ चारित्रसारे शरीरेन्द्रियरागादिवृद्धिकरक्षीरदधिघृतगुडतैलादिरसत्यजनं रसपरित्याग इत्युच्यते । तत्किमर्थ दुर्दान्तेन्द्रियतेजोहानिः संयमो. परोधनिवृत्तिरित्येवमाद्यर्थम् । __ ध्यानाध्ययनविघ्नकरस्त्रीपशुषण्टकादिपरिवर्जितगिरिगुहाकन्दरपितृवनशून्यागाराऽऽरामोद्यानादिप्रदेशेषु विविक्तेषु जन्तुपीडारहितेषु संवृतेषु संयतस्य शयनासनं विविक्तशय्यासनं नाम । तत्किमर्थमाबा. धात्ययब्रह्मचर्यस्वाध्यायध्यानादिप्रसिद्धयर्थमसभ्यजनदर्शनेन तत्सहवासन वा जनितत्रिकालविषयरागद्वेषमोहापोहाथै वा। वृक्षमूलाभ्रावकाशाऽऽतापनयोगवीरासनकुक्कुटासनपर्यङ्कार्द्धपर्यङ्कगोदोहनमकरमुखहस्तिशुण्डामृतकशयनैकपार्श्वदंडधनुशय्यादिभिः शरीरपरिखेदः कायक्लेश इत्युच्यते । तत्किमर्थं वर्षाशीताऽऽतपविषमसंस्थुलाऽऽसनविषमशय्यादिषु शुभध्यानपरिचर्याथै दुःखोपनिपाततितिक्षार्थ विषयसुखानमिष्वंगार्थ प्रवचनप्रभावनाद्यर्थ च कायक्लेशानुष्ठानं क्रियते । इतरथा हि ध्यानप्रवेशकाले सुखोचितः स्यात् , द्वन्द्वोपनिपाते सति समाधानं न स्यात् । एवं षड्विधं बाह्यलक्षणमुक्तम् । उत्तरमाभ्यन्तरमुच्यते । यतोऽन्यैस्तीर्थैरनभ्यस्तं ततोऽस्याऽऽभ्यन्तरत्वं, प्रायश्चित्तादितपो हि बाह्यद्रव्यानपेक्षत्वादन्तःकरणव्यापाराचाभ्यन्तरं । तत्र कर्तव्यस्याकरणे वर्जनीयस्यावर्जने यत्पापं सोऽतीचारस्तस्य शोधनं प्रायश्चितं । तत्किमर्थ प्रमाददोषव्यदासो भावप्रसादो नैःशल्यमनवस्थाव्यावृत्तिमर्यादात्यागः संथमदाढर्च चतर्वधाराधनमित्येवमादीनां सिद्धयर्थ प्रायश्चित्तं । तद्दशविधं; Page #67 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । आलोचनं, प्रतिक्रमणं, तदुभय, विवेकः, व्युत्सर्गः, तपः, छेदः, मूलं, परिहारः, श्रद्धानमिति । तत्रैकान्तनिषण्णायापरिश्राविणे श्रुतरहस्याय गुरवे प्रसन्नमनसे विद्यायोग्योपकरणग्रहणादिषु प्रश्नविनयमन्तरेण प्रवृत्तस्य विदितदेशकालस्य शिप्यस्य सविनयमात्मप्रमादनिवेदनमालोचनमित्यूच्यते । तस्य दश दोषा भवन्ति; आकम्पितं, अनुमापितं, यदृष्टं, वादरं, सूक्ष्म, छन्नं, शब्दाऽऽकुलितं, बहुजनं, अव्यक्तं, तत्सेवितमिति । तत्रोपकरेषु दत्तेषु प्रायश्चित्तं मे लघु कुर्वीतेति विचिन्त्य भयदादानं प्रथम आकंपितदोषः । प्रकृत्या पित्ताधिकोऽस्मि दुर्बलोऽस्मि ग्लानोऽस्मि नाऽलमहमुपवासादिकं कर्तुं यदि लघु दीयेत तदोषनिवेदनं करिष्य इति वचनं द्वितीयोऽनुमापितदोषः । अन्यादृष्टदोषगूहनं कृत्वा दृष्टदोषनिवेदनं मायाचारस्तृतीयो यदृष्टदोषः । आलस्यात्प्रमादज्ञानाद्वाऽल्पापराधावबोधनिरुत्सुकस्य स्थूलदोषप्रतिपादनं तुर्यो वादरदोषः । महादुश्चरप्रायश्चित्तभयाद्वाऽहो सूक्ष्मदोषपरिहारकोयऽमिति स्वगुणाख्यापनचिकीर्षया वा महादोषसंवरणं कृत्वा तनुप्रमादाचारनिवेदनं पंचमः सूक्ष्मदोषः । ईदृशे व्रतातीचारे सति नुः किं स्यात्प्रायश्चित्तमित्युपायेन गुरूपासना षष्ठश्छन्नदोषः । पाक्षिकचातुर्मासिकसांवत्सरिकेषु कर्मसु महति यतिसमवाय आलोचनशब्दाकुले पूर्वदोषकथनं सप्तमः शब्दाकुलितदोषः । गुरूपपादितं प्रायश्चित्तं किमिदं युक्तमागमे स्यान्नवेति यावल्लघु प्रतिपादयति तावद्वा शङ्कमानस्याऽन्यसाधुपरिप्रश्नोऽष्टमो बहुजनदोषः । यत्किचित्प्रयोजनमुद्दिश्याऽऽत्मना समानायैव प्रमादाचरितमावेद्य महदपि गृहीतं ___ Page #68 -------------------------------------------------------------------------- ________________ ६२ चारित्रसारे-~ प्रायश्चित्तं न फलकरमिति नवमोऽव्यक्तदोषः । अस्यापराधेन ममातीचारः समानस्तमयमेव वेत्यस्मै यद्दत्तं तदेव मे युक्तं लघु कर्तव्यमिति स्वदुश्चरितसंवरणं दशमस्तत्सेवितदोषः । आत्मन्यपराधं चिरमनवस्थाप्य निकृतिभावमन्तरेण बालवजुबुद्धेदर्दोषान्निवेदयतो न ते दोषा भवन्त्यन्यच्च संयतालोचनमेकान्ते द्विविषयमिष्टं, संयतिकाऽऽलोचनं प्रकाशे त्रपाश्रयमिष्टं, लज्जापरपरिभवादिगणनया निवेद्यातीचारं न शोधयेदपरीक्षिताऽऽयव्ययोऽधमर्णवदवसीदति । महदपि तपःकर्मानालोचनपूर्वकं नाभिप्रेतफलप्रदं सामदेहगतौषधिवत् । कृताऽऽलोचनोऽपि गुरुमतं प्रायश्चित्तमकुर्वाणो विनिश्चितमात्रनुष्ठानशून्यराज्यवन्महती शाश्वतीं च संपदं न प्राप्नोति । कृतालोचनचित्तगतं प्रायश्चित्तं परिमृष्टदर्पणगतरूपवत्परिभ्राजते । ___ आस्थितानां योगानां धर्मकथादिव्याक्षेपहेतुसन्निधानेन विस्मरणे सत्यालोचनं पुनरनुष्ठाय कस्य संवेगनिर्वेदपरस्य गुरुविरहितस्या. ल्पापराधस्य पुनर्न करोमि मिथ्या मे दुप्कृतमित्येवमादिभिर्दोषानिवर्त्तनं प्रतिक्रमणं । किंचित्कर्माऽऽलोचनमात्रादेव शुद्धचत्यपरं प्रतिक्रमणेनेतरं दुःस्वप्नादिकं तदुभयसंसर्गेण शुद्धिमुपयाति। आलोचनप्रतिक्रमणपूर्व गुरुणाऽभ्यनुज्ञातं शिष्येणैव कर्तव्यं, तदुभयं पुनर्गुरुणैवानुष्ठेयम् । ___ संसक्तेषु द्रव्यक्षेत्रान्नपानोपकरणादिषु दोषान्निवर्तयितुमलभमानस्य तद्रव्यादिविमजनं विवेकः । अथ वा शक्तयननुगृहनेन प्रयत्नेन परिहरतः कुतश्चित्कारणादप्रासुकग्रहणग्राहणयोः प्रासुकस्यापि प्रत्याख्यातस्य विस्मरणात्प्रतिगृहे च स्मृत्वा पुनस्तदुत्सर्जनं विवेकः । Page #69 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम्। ६३ दुःस्वप्नदुश्चिन्तनमलोत्सर्जनाऽऽगमातीचारनदीमहाटवीरणादिभिरन्यैश्चाप्यतीचारे सति ध्यानमवलंब्य कायमुत्सृज्यान्तर्मुहूर्तदिवसपक्षमासादिकालावस्थानं व्युत्सर्ग इत्युच्यते । __ सत्त्वादिगुणालंकृतन कृतापराधेनोपवासैकस्थानाचाम्लनिर्विकृत्यादिभिः क्रियमाणं तप इत्युच्यते । भयोन्मादत्वरणविस्मरणानवबोधाशक्तिव्यसनादिभिर्महाव्रतातीचारे सत्यनन्तरोक्तषडिधप्रायश्चित्तं भवति । चिरप्रव्रजितस्य सहजबलस्य स्वभावशूरस्य गर्वितस्य कृतदोषस्य दिवसमासादिभागेन प्रवननं छित्वा छिन्नकालादिनाऽवस्थानं छेदो नाम । ___ पार्श्वस्थादीनां मूलं प्रायश्चितं, तद्यथा-पार्श्वस्थः कुशील:, संसक्तः, अवसन्नः, मृगचारित्र इति । तत्र यो वसतिषु प्रतिबद्ध उपकरणोपजीवी च श्रमणानां पार्श्वे तिष्ठतीति पार्श्वस्थः । क्रोधादिकषायकलुषितात्मा व्रतगुणशीलैः परिहीणः संघस्यानयकारी कुशीलः । मंत्रवैद्यकज्योतिष्कोपजीवी राजादिसेवकः संसक्तः । जिनवचनानभिज्ञो मुक्तचारित्रभारो ज्ञानाचरणभ्रष्टः करणालसोऽवसन्नः । त्यक्तगुरुकुल एकाकित्वेन स्वच्छन्दविहारी जिनवचनदूषको मृगचारित्रः स्वच्छन्द इति वा । एते पंच श्रमणा जिनधर्मबाह्याः । एवमुक्तपार्श्वस्थादिपंचविधोन्मार्गस्थितस्यापरिमितापराधस्य सर्व पयोयमपहाय पुनर्दीक्षादानं मूलमित्युच्यते। ___ परिहारोऽनुपस्थानपारंचिकभेदेन द्विविधः । तत्राऽनुपस्थानं निजपरगणभेदाद्विविधं । प्रमादादन्यमुनिसंबंधिनमृर्षि छात्रं गृहस्थं वा परपाखंडिप्रतिबद्धचेतनाचेतनद्रव्यं वा परस्त्रियं वा Page #70 -------------------------------------------------------------------------- ________________ चारित्रसारे स्तेनयतो मुनीन् प्रहरतो वाऽन्यदप्येवमादिविरुद्धाचरितमाचरतो नवदशपूर्वधरस्यादित्रिकसंहननस्य जितपरीषहस्य दृढधर्मिणो धीरस्य भवभीतस्य निजगुणानुपस्थापनं प्रायश्चित्तं भवति । तेन ऋष्याश्रमाद्वात्रिंशदंडान्तरं विहितविहारेण बालमुनीनपि वंदमानेन प्रति. वन्दनाविरहितेन गुरुणा सहाऽऽलोचयता शेषजनेषु कृतमौनव्रतेन विधृतपराङ्मुखपिच्छेन जघन्यतः पंचपंचोपवासा उत्कृष्टतः षण्मासोपवासाः कर्त्तव्याः, उभयमप्याद्वादशवर्षादिति । दर्पादनन्तरोक्तान्दोषानाचरतः परगणोपस्थापनं प्रायश्चित्तं भवतीति । स सापराधः स्वगणाचार्येण परगणाचार्य प्रति प्रहेतव्यः, सोऽप्याचार्यस्तस्यालोचनमाकर्ण्य प्रायश्चित्तमदत्त्वाऽऽचार्यान्तरं प्रस्थापयति, सप्तमं यावत् पश्चिमश्च प्रथमाऽऽलोचनाऽऽचार्य प्रति प्रस्थापयति, स एव पूर्वः पूर्वोक्तप्रायश्चित्तैनैनमाचारयति । __ परिहारस्य प्रथमभेदो द्विविधो गतः । पारंचिकमुच्यते, तीर्थकरगणधरगणिप्रवचनसंघाद्यासादनकारकस्य नरेन्द्रविरुद्धाचरितस्य राजानमभिमतामात्यादीनां दत्तदीक्षस्य नृपकुलवनितासेवितस्यैवमाद्यन्यैर्दोषैश्च धर्मदूषकस्य पारंचिकं प्रायश्चित्तं भवति । चातुर्वर्ण्यश्रमणाः संघ संभूय तमाहूय — एष महापातकी समयबाह्यो न वंद्य ' इति घोषयित्वा दत्त्वाऽनुपस्थानं प्रायश्चित्तं देशान्निर्घाटयन्ति । मिथ्यात्वं गत्वा स्थितस्य पुनरपि गृहीतमहावृतस्याऽऽप्ताssगमपदार्थानां श्रद्धानमेव प्रायश्चित्तं, तदेतद्दशविधं, देशकालशक्तिसंयमाद्यविरोधेनाल्पानल्पापराधानुरूपं दोषप्रशमनं चिकित्सितवद्विधेयं । जीवस्याऽसंख्येयलोकमात्रपरिमाणाः परिणामविकल्पा अपराधाश्च Page #71 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम्। ६५ तावत एव न तेषां तावद्विकल्पं प्रायश्चित्तमस्ति व्यवहास्नयापेक्षया पिंडीकृत्य प्रायश्चित्तविधानमुक्तम् । ___ कषायेन्द्रियविनयनं विनयः, अथवा रत्नत्रयस्य तद्वतां च नीचैर्वृत्तिर्विनयः , स चतुःप्रकारः । ज्ञानविनयो दर्शनविनयश्चारित्रविनय उपचारविनयश्चेति । तत्राऽनालसेन शुद्धमनसा देशकालादिविशुद्धिविधानविचक्षणेन सबहुमानेन यथाशक्ति निषेव्यमाणो मोक्षार्थ ज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । सामायिकादौ लोकविन्दुसारपर्यते श्रुतसमुद्रे ये यथा भगवद्भिरुपदिष्टाः पदार्थास्तेषां तथा श्रद्धाने निःशंकितत्त्वादिलक्षणोपेतता दर्शनविनयः । ज्ञानदर्शनचारित्रतपोवार्यवतो दुश्वरचरणश्रमणानंतरमुद्रिन्नरोमांचाभिव्यज्यमानान्तर्भक्तः परं प्रसादमस्तकांजलिकरणादिमि. र्भावयतश्चानुष्ठातृत्वं चारित्रविनयः । उपचारविनयो द्विविधः, प्रत्यक्षः परोक्ष इति । तत्राऽऽचार्योपाध्यायस्थविरप्रवर्तकगणधरादिषु पूजनीयेष्वभ्युत्थानमभिगमनमंनलिकरणं वंदनाऽनुगमनं रत्नत्रयबहुमानः सर्वकालयोग्यानुरूपक्रियाऽनुलोमता सुनिगृहीतत्रिदंडता सु. शीलयोगता धर्मानुरूपकथाकथनश्रवणभक्तिताऽर्हदायतनगुरुभक्तिता. दोषवद्वर्ननं गुणवृद्धसेवाऽभिलाषाऽनुवर्त्तनं पूजनं । यदुक्तं---"गुरुस्थ. विरादिभिर्नान्यथा तदित्यनिशं भावनं समेष्वनुत्तोको हीनेष्वपरिभवः जातिकुलधनैश्चर्यरूपविज्ञानबललार्द्धषु निरभिमानता सर्वत्र क्षमापरता मितहितदेशकालाऽनुगतवचनता कार्याकार्योन्या मेन्यवाच्यावाच्यज्ञातृता इत्येवमादिभिरात्मानुरूपः प्रत्यक्षोपचा विनयः । " परोक्षोपचारविनय उच्यते, परोक्षेप्वप्याचार्यदिवंजलिक्रियागुण Page #72 -------------------------------------------------------------------------- ________________ चारित्रसारे संकीर्तनानुस्मरणाऽऽज्ञानुष्ठायित्वादिः कायवाङ्मनोभिरवगन्बव्यः, रागप्रहसनविस्मरणैरपि न कस्याऽपि पृष्ठमांसभक्षणं करणीयमेवमादिः परोक्षोपचारविनयः प्रत्येतव्यः । मंत्रौषधोपकरणयशःसत्कारलाभाद्यानपेक्षितचित्तेन परमार्थनिस्पृहमतिनैहलौकिकफलनिरुत्सुकेन कर्मक्षयकांक्षिणा ज्ञानलाभाऽऽचारविशुद्धिसम्यगाराधनादिसिद्धयर्थं विनयभावनं कर्तव्यम् । ततश्चापवर्गद्वारं निरर्गलम् । वैयावृत्त्यमुच्यते । कायपीडादुष्परिणामव्युदासार्थ कायचेष्टया द्रव्यान्तरेणोपदेशेन च व्यावृत्तस्य यत्कर्म तद्वैयावृत्त्यं । तद्दशविधं, आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञवैयावृत्त्यभेदे - न । यस्मात् सम्यग्ज्ञानादिपंचाचाराधारादाहृत्य व्रतानि स्वर्गापवर्गसुखकल्पकुजबीजानि भव्या आत्महितार्थमाचरन्ति स आचार्यः । विनयेनोपेत्य यस्मातशीलभावनाऽधिष्ठानादागमं श्रुताभिधानमधीयते स उपाध्यायः । आचाम्लवर्द्धनसर्वतोभद्रसिंहनिष्क्रीडितशातकुंभमन्दरपंक्तिविमानपंक्तिनन्दीश्वरपंक्तिजिनगुणसंपत्तिश्रुतज्ञानकनकावलिमुक्तावलिमृदङ्गमध्यवज्रमध्यकर्मक्षपणत्रैलोक्यसारादिमहोपवासानुष्ठायी तपस्वी । श्रुतज्ञानशिक्षणपरोऽनुपरतव्रतभावनानिपुणशैक्षः । रुनादिभिः क्लिष्टशरीरो म्लानः । स्थविराणां सन्ततिर्गणः । दीक्षकस्याऽऽचार्यस्य शिक्षस्याऽऽम्नायः कुलं । चातुर्वर्ण्यश्रमणनिवहः संघः । चिरकालभावितप्रव्यज्यागुणः साधुः । अभिरूपो मनोज्ञः, आचार्याणां संमतो वा दीक्षाभिमुखो वा मनोज्ञः, अथ वा विद्वान् वाग्मी महाकुलीन इति यो लोकस्य संमतः स मनोज्ञस्तस्य १ कल्पवृक्ष । Page #73 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ६७ ग्रहणं प्रवचनस्य लोके गौरवोत्पादनहेतुत्वादसंयतसम्यग्दृष्टि संस्कारोपेतरूपत्वान्मनोज्ञः । आचार्यादीनां व्याधिपरीषहमिथ्यात्वाद्यपनिपाते सत्यप्रत्युपकाराशया प्रासुकौषधभुक्तिपानाऽऽश्रयपीठफलकसंस्तरादिभिर्धर्मोपकरणैस्तत्प्रतीकारः सम्यक्त्वप्रत्यवस्थापनमित्येवमादि वैयावृत्त्यं । बौह्यस्याषधभुक्तिपानादेरसंभवे स्वकायेन श्लष्यसिंघाणकान्तर्मलाद्यपकर्षणादि तदानुकूल्यानुष्ठानं च वैयावृत्त्यमिति कथ्यते, तत्पुनः किमर्थ समाध्याध्यानं विचिकित्साऽभावः प्रवचनवात्सत्यं सनाथता चेत्येवमाद्यथर्म । ___ स्वाध्यायो भण्यते । स्वस्मै हितोऽध्यायः स्वाध्यायः, स च वाचनापृच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशभेदेन पंचविधः । तत्र निरपेक्षात्मना मुमुक्षुणा विदितवेदितव्येन निरवद्यस्य ग्रंथस्यार्थस्य तदुभयस्य वा पात्रं प्रति प्रतिपादनं वाचनेत्युच्यते । आत्मोन्नतिप्रकटनार्थ पराभिसंधनार्थमुपहाससंघर्षप्रहसनादिवर्जितः संशयच्छेदाय निश्चितबलाधानाय वा ग्रन्थस्यार्थस्य तदुभयस्य परं प्रति पर्यनुयोगः पृछना । अधिगतपदार्थप्रक्रियस्य तप्तायःपिंडवदर्पितचेतसो मनसाऽभ्यासोऽनुप्रेक्षा । वतिनो विदितसमाचारस्यैहलौकिकफलनिरपेक्षस्य द्रुतविलम्बितपदाक्षरच्युतादिघोषदोषविशुद्धं परिवर्तनमाम्नायः । दृष्टप्रयोजनपरित्यागादुन्मार्गनिवर्त्तनाथै सन्देहव्यावर्तनार्थमपूर्वपदार्थप्रकाशनार्थ धर्मकथाद्यनुष्ठानं धर्मोपदेशः । किमर्थोऽयं स्वाध्यायः, प्रज्ञातिशयः प्रशस्ताध्यवसायः, प्रवचनस्थितिः, संशयोच्छेदः, परवादिशंकाऽभावः, प्रभावना, परमसंवेगः, तपोवृद्धिः, अतीचारविशुद्धिः, कषायेन्द्रियजयः, परमोपायः, इत्येवमार्थ स्वाध्यायोऽनुष्ठेयः । Page #74 -------------------------------------------------------------------------- ________________ चारित्रसारे कायोत्सर्ग उच्यते । विविधानां वाह्याभ्यन्तराणां बन्धहेतूनां दोषाणामुत्तमस्त्यागो व्युत्सर्गः । आत्मनाऽनुपात्तस्यैकत्वमनापन्न - स्याहारादेस्त्यागो बाह्योपधिव्युत्सर्गः । क्रोधमानमायालाभमिथ्यात्वहास्यरत्यरतिशोकभयादिदोष निवृत्तिराभ्यन्तरोपधिव्युत्सर्गः, कायत्यागश्चाऽभ्यन्तरोपधिव्युत्सर्गः त्यागश्चाऽभ्यन्तरो पधिव्युत्सर्गः । स द्विविधः । यावज्जीवं, नियतकालश्चेति । तत्र यावज्जीवं त्रिविधः । भक्तप्रत्याख्यानेंगिनीमरणप्रायेोपगमनभेदात् । तत्र भक्तप्रत्याख्यानं जघन्येनान्तर्मुहूर्तमुत्कृष्टेन द्वादशवर्षाणि, अवान्तरो मध्यम उभयोपकारसापेक्षं भक्तप्रत्याख्यानमरणं । परप्रतीकारनिरपेक्षमात्मोपकारसापेक्षमिंगिनीमरणं । उभयोपकारनिरपेक्षं प्रायोपगमनं । नियतकालो द्विविधः, नित्यनैमित्तिकभेदेन । नित्य आवश्यकादयः । नैमित्तिकः पार्वणी क्रिया निषद्याक्रियादयश्च । क्रियाकरणे वन्दनायाः कायोत्सर्गस्य च द्वात्रिंशद्वात्रिंशद्दोषा भवन्ति । तत्र वन्दनाया अनाहतं, स्तब्धं, प्रविष्टं, परपीडितं, दोलायितं, उन्मस्तकं, कच्छपरंगितं, मत्स्योद्वर्त्तनं, मनोदुष्टं वेदिकाबंधं, भेष्यत्वं, भीषितं, ऋद्धिगौरवं, शेषगौरवं स्तेनितं, प्रत्यनीकं, क्रोधादिशल्यं, तर्जितं, शह्नितं, हेडितं, त्रिवलितं, कुंचितं, आचार्यादिदर्शनं अदृष्टं, संघकरमोचनं, आलब्धं, अनालब्धं, हीनं, अधिकं, घर्घरं, सुललितामिति द्वात्रिंशदोषा भवन्ति । व्युत्सृष्टबाहुयुगले चतुरंगुलान्तरितसमपादे सर्वाङ्गचलनरहिते कायोत्सर्गेऽपि दोषाः स्युः । घोटकपाद, लतावकं, स्तंभावष्टंभ, कुड्याश्रितं, मालिकोद्वहनं,, शबरीगुह्यगूहनं, शृंखलितं, लंबितं, उत्तरितं, स्तनदृष्टिः, काकाऽलोकनं, खलीनितं, युगकन्धरं, Page #75 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम्। ६९ कपित्थमुष्टिः, शीर्षप्रकंपितं, मूकसंज्ञा, अंगुलिचालनं, भ्रूक्षेपं, उन्मत्तं, पिशाचं, अष्टदिगवलोकनं, ग्रीवोन्नमनं, ग्रीवावनमनं, निष्ठीवनं, अंगस्पर्शनमिति द्वात्रिंशद्दोषा भवन्ति । __ क्रिया कुर्वा! वीर्योपगृहनमकृत्वा शक्त्यनुरूपतः स्थितेनाशक्तः सन्पर्यङ्कासनेन वा त्रिकरणशुद्धया संपुटीकृतकरः क्रियाविज्ञापनपूर्वकं सामायिकदंडकमुच्चारयेत् , तदावर्त्तत्रयम् यथाजातं शिरोन्नमनमेकं भवति, अनेन प्रकारेण सामायिकदंडकसमाप्तावपि प्रवर्त्य यथोककालं जिनगुणानुस्मरणसहितं कायव्युत्सर्ग कृत्वा द्वितीयदंडकस्यादावन्ते च तथैव प्रवर्त्तनं, एवमेकैकस्य कायोत्सर्गस्य द्वादशावर्त्ताश्चत्वारि शिरोवनमनानि भवन्ति । अथवैकस्मिन् प्रदक्षिणीकरणे चैत्यादीनामभिमुखीभूतस्याऽऽवर्त्तत्रयैकावनमने कृते चतसृप्यपि दिक्षु द्वादशावर्त्ताश्चतस्रः शिरावनतयो भवन्ति । आवर्तानां शिरःप्रणतीनामुक्तप्रमाणादाधिक्यमिति न दोषाय । उक्तं च दुउपादं जहाजादं वारसावत्तमेव च।। चदुस्सिरंति सुद्धिं च किदियमं पउं वंदे ॥ वक्ष्यमाणक्रियाणां कालनियम उच्यते । देवसिकस्य नियमस्याष्टोत्तरशतं, रात्रिकस्य तदर्द्ध, पाक्षिकस्य त्रिशतं, चातुर्मासिकस्य चतुःशतं, सांवत्सरिकस्य पंचशतं, उच्छासानामेषां पंचानां नियमात्तस्य कायोत्सर्गस्य प्रमाणं । अहिंसादिपंचनियमानामन्यतमस्यातीचारे सत्येकैकस्याष्टोत्तरशतं, गोचारस्य ग्रामान्तरगमनस्याऽर्हच्छ्रमणनिषद्यानामुच्चारप्रश्रवणयोश्च पंचविंशतिः, ग्रन्थप्रारंभे परिसमाप्तौ च स्वाध्याये वन्दनायां प्रणिधाने च सप्तविंशतिः । एवमुक्तो Page #76 -------------------------------------------------------------------------- ________________ चारित्रसारे च्छासप्रमाणेन कायोत्सर्गं कृत्वा अनुत्सुकः सन् किंचित्कालं धर्म्यं शुक्लं च ध्यायेत् । नामस्थापनाद्रव्यभावसंनिधानं पुण्यपापास्रवहेतु -- रतः चैत्यं चैत्यालयो गुरवो निषद्यास्थानादयश्च सम्यग्दृष्टीनां क्रियार्हा भवन्ति । अचेतनात्मका व्यपगतदानबुद्धयः कल्पवृक्षचि - न्तामणयो यथा च देहिनां पुण्यानुरूपेणाभिलषितार्थप्रदायि नस्तथा जिनबिंबानि भव्यजनभक्त्यनुरूपेण गीर्वाणनिर्वाणपदप्रदायीनि गारुडमुद्रया यथा गरलापहरणं तथा चैत्यालोकनमात्रेणैव दुरितापहरणं भवत्यतश्चैत्यस्य तदाश्रयचैत्यालयस्याऽपि वन्दनाः कार्या ऐहि कार्थे निरपेक्षाः परानुग्रहबुद्धयोऽकारणबन्धवो मोक्षपरिभ्रष्टजनमार्गोपदेशकाः प्रत्यक्षनिस्तारकाश्च ततस्तेभ्यः सकाशात्सम्यक्त्वं ज्ञानाऽऽदानमनुत्रतं महाव्रतं संयमो तपश्च भवति । तेन गुरूणां पुण्यपुरुषोषितनिरवद्यनिषद्यास्थानादीनामुच्यते क्रियाविधानं । परायत्तस्य सतः क्रियां कुर्वाणस्य कर्मक्षयो न घटते, तस्मादात्माधीनः सञ्चैत्यादीन् प्रतिवन्दनार्थं गत्वा धौतपादस्त्रिप्रदक्षिणीकृत्येर्यापथकायोत्सर्गं कृत्वा प्रथममुपविश्याऽऽलोच्य चैत्यभक्तिकायोत्सर्ग करोमीति विज्ञाप्योत्थाय जिनेन्द्र चन्द्रदर्शनमात्रान्निजनयनचन्द्रकान्तोपलविगलदानन्दाश्रु जलधारापूरपरिप्लाक्तिपक्ष्मपुटोऽनादिभवदुर्लभभगवदर्हस्परमेश्वर परमभट्टारकप्रतिबिंबदर्शनजनितहर्षोत्कर्ष पुलकिततनुरतिभक्तिभरावनतमस्तकन्यस्त हस्तकुशेशयकुडलो दंडकद्वयस्यादावन्ते च प्राक्तनक्रमेण प्रवृत्त्य चैत्यस्तवनेन त्रिः-परीत्य द्वितीयवारेऽप्युपविश्याऽऽलोच्य पंचगुरुभक्तिकायोत्सर्ग करोमीति विज्ञाप्योत्थाय पंच परमेष्ठिनः स्तुत्वा तृतीय वारेऽप्युपवि- 06. Page #77 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ७१ श्याऽऽलोचनीयः । एवमात्माधीनता, प्रदक्षिणीकरणं, त्रिवारं, निष्पनत्रयं, चतुःशिरो, द्वादशावर्त्तकमिति क्रियाकर्म षडिधं भवति । तत्र चतु:शिरो दंडकद्वयाद्यन्ते प्रणतौ प्रदक्षिणीकरणे च दिक्चतुष्टयावनतौ चतुःशिरो भवति, अथवा शिरः शब्दः प्रधानवाची वन्दनाप्रधानभूता अर्हसिद्धसाधुधर्मा इति । उक्तं च राद्धान्तसूत्रे । " आदाहीणं पदाहीणं तिखुत्तं तिऊणदं चदुस्सिरं वारसावत्तं चेति .” एवं देवतास्तवनक्रियायां चैत्यभक्तिं पंचगुरुभक्तिं च कुर्यात् । ___ चतुर्दशीदिने तयोर्मध्ये सिद्धश्रुतशांतिभक्तिर्भवति । अष्टम्यां सिद्धश्रुतचारित्रशान्तिभक्तयः । पाक्षिके सिद्धचारित्रशान्तिभक्तयः । सिद्धप्रतिमायाः सिद्धभक्तिरेव, जिनप्रतिमायास्तीर्थकरजन्मनश्च पाक्षिकी क्रिया, अष्टम्यादिक्रियासु दर्शनपूजा त्रिकालवन्दनायोगे शान्तिभक्तितः प्राक् चैत्यभक्तिं पंचगुरुभक्तिं च कुर्यात् । चतुर्दशीदिने धर्मव्यासंगादिना क्रियां कर्तुं न लभेत चेत्पाक्षिकेऽष्टम्याः क्रियाः कर्तव्याः नन्दीश्वरदिने सिद्धनन्दीश्वरपंचगुरुशान्तिभक्तयोऽभिषेकवन्दनायाः सिद्धचैत्यपंचगुरुशान्तिभक्तयः। स्थिरचलजिनप्रतिमाप्रतिष्ठायाः सिद्धशान्तिभक्ती भवतः । स्थिरप्रतिमायाश्चतुर्थस्थाने सिद्धभक्तिरालोचनासहिता चारित्रभक्तिश्चैत्यपंचगुरुशान्तिभक्तयश्च कार्या । चलप्रतिमाया अभिषेकवन्दना स्यात् । महत्तरस्य सामान्यर्षेः सिद्धभक्तिपूर्विका वंदना । सिद्धान्तविदां सिद्धश्रुतभक्ती भवतः । आचार्याणां सिद्धाचार्यभक्ती । सिद्धान्तवेदिनामाचार्याणां सिद्धश्रुतसूरिभक्तयः । प्रतिमायोगस्थितस्य मुनेर्लघीयसोऽपि सिद्ध Page #78 -------------------------------------------------------------------------- ________________ ७२ चारित्रसारे योगशान्तिभक्तयः । निष्क्रमणे सिद्धचारित्रयोगशांतिभक्तयो भवन्ति प्रदक्षिणीकरणं योगभन्या । ज्ञानोत्पत्तौ सिद्धश्रुतचरणयोगशान्तिभक्तयो योगभत्त्या प्रदक्षिणीकरणं । जिननिवार्णक्षेत्रे सिद्धश्रुतचारित्रयोगपरिनिर्वाणशान्तिभक्तयो निर्वाणभत्तया प्रदक्षिणीकरणं । श्रीवर्द्धमानजिननिर्वाणदिने सिद्धनिर्वाणपंचगुरुशान्तिभक्तयः निर्वाणभक्त्या प्रदक्षिणा । सामान्यर्षों मृत शरीरस्य निषद्यकास्थानस्य वा सिद्धयोगशान्तिभक्तयः । सिद्धान्तवेदिनां साधूनां सिद्धश्रुतयोगशान्तिभक्तयः । उत्तरयोगिनां सिद्धचारित्रयोगशान्तिभक्तयः । सैद्धान्तोत्तरयोगिनां सिद्धचारित्रयोगशान्तिभक्तयः । आचार्यस्य सिद्धयोगाचार्यशान्तिभक्तयः । सैद्धान्ताचार्यस्य सिद्धश्रुतायोगाचार्यशान्तिभक्तयः । उत्तरयोगिनामाचायाणां सिद्धचारित्रयोगाचार्यशान्तिभक्तयः । उत्तरयोगिनः सैद्धान्ताचार्यस्य सिद्धश्रुतयोगाचार्यशान्तिभक्तयः । अनंतरोक्ता अष्टौ क्रियाः शरीरस्य निषद्यास्थानस्य च । श्रुतपंचम्यां सिद्धश्रुतभक्तिपूर्विकां वाचनां गृहीत्वा तद्नु स्वाध्याय गृह्णतः श्रुतभक्तिमाचार्यभक्तिं च कृत्वा गृहीतस्वाध्यायाः कृतश्रुतभक्तयः स्वाध्यायं निष्ठाप्य समाप्तौ शान्तिभक्तिं कुर्युः । संन्यासप्रारंभे सिद्धश्रुतभक्ती कृत्वा गृहीतवाचनाः कृतश्रुतसरिभक्तयः । स्वाध्यायं गृहीत्वा श्रुतभक्तौ स्वाध्यायं निष्ठापयेयुः । वाचनानिष्ठापनेऽपीमा क्रियां कृत्वा समाप्तौ शान्तिभक्तिं कुर्वन्तु । संन्यासस्थितस्य स्वाध्यायग्रहणे महाश्रुतसूरिभक्ती कृत्वा गृहीतस्वाध्याया महाश्रुतभक्तौ निष्ठापयन्तु । देवसिकरात्रिगोचारीप्रतिक्रमणे सिद्ध Page #79 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ७३ प्रतिक्रमणनिष्ठितकरणचतुर्विशतितीर्थकरभक्तीनियमेन कुर्यात् । योगग्रहणे मोक्षे च योगभक्तिः । पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणे सिद्धचारित्रप्रतिक्रमणनिष्ठितकरणदतुर्विशतितीर्थकरभक्तिचारित्रालोचनागुरुभक्तय बृहदालोचना गुरुभक्तिर्लघीयसी आचार्यभक्तिश्च करणीया । शेषप्रतिक्रमणे चारित्रालोचनाबृहदालोचनागुरुभक्तिं विना शेषाः कर्तव्याः । दीक्षाग्रहणे लुंचने च सिद्धयोगभक्ती कृत्वा लुंचनावसाने सिद्धभक्तिः करणीया । सिद्धयोगमक्ती कृत्वा प्रत्याख्यानं गृहीत्वाऽऽचार्यभक्तिं कृत्वाचार्यान्वन्दतां सिद्धभक्तिं कृत्वा प्रत्याख्यानं मोचयेत् । श्रुतभक्तिमाचार्यभक्तिं च कृत्वा गृहीतस्वाध्यायस्तन्निष्ठापने श्रुतभक्तिं करोतु । मङ्गलगोचरमध्याह्ने सिद्धचैत्यपंचगुरुशान्तिभक्तिं कुर्यात् । मंगलगोचरप्रत्याख्यानो महासिद्धयोगभक्ती कृत्वा गृहीतप्रत्याख्यान आचार्यशान्तिभक्ती कुर्यात् । वर्षाकाले योगग्रहणे निष्ठापने च सिद्धयोगपंचचैत्यगुरुभक्तयः कार्याः, चैत्यभक्त्या प्रदक्षिणीकुर्वन् सालोचनव्युत्सर्ग चतसृषु दिक्षु कुर्यात् । सिद्धान्तवाचनाग्रहणे सिद्धश्रुतभक्ती कृत्वा तदनुश्रुताचार्यभक्तिं कृत्वा गृहीतस्वाध्यायस्तन्निष्ठापने श्रुतशान्तिभक्ती करोतु । सिद्धान्तस्यार्थाधिकाराणां समाप्तावकैकं कायोत्सर्ग कुर्यात् । अर्थाधिकाराणां सुबहुमान्यत्वात्तेषामादौ सिद्धश्रुतसूरिभक्ती कृत्वा समाप्तावप्येतेन क्रमेण प्रवर्तिते सति षट् कायोत्सर्गा भवन्ति । गुरूणामनुज्ञया ज्ञानविज्ञानवैराग्यसम्पन्नो विनीतो धर्मशीलः स्थिरश्च भूत्वाऽऽचार्यपदव्या योग्यः साधुगुरुसमक्षे सिद्धाचार्यभक्तिं कृत्वाऽऽचार्यपदवीं गृहीत्वा शान्तिभक्तिं कुर्यात् । एव Page #80 -------------------------------------------------------------------------- ________________ ७४ चारित्रसारे मुक्ताः क्रिया यथायोग्यं जघन्यमध्यमोत्तमश्रावकैः संयतैश्च करणीयाः । किमर्थो व्युत्सर्गो निःसंगत्वं निर्भयत्वं जीविताशाव्युदासो दोषच्छेदो मोक्षमार्गभावनापरत्वमित्येवमाद्यर्थम् । अथ ध्यानप्रस्तावः । एकाग्रचिंतानिरोधो ध्यानं, एकस्मिन् क्रियासाधनेऽग्रं मुखं यस्याश्चिन्ताया इत्येकाग्रचिन्ता तस्या निरोधोऽन्यत्राऽसंचारस्तदेकाग्रचिन्तानिरोधो ध्यानं । तस्य योगश्चतुर्विधः; ध्यानं, ध्येयं, ध्याता, फलमिति । तत्र ध्यानं चिन्ताप्रबन्धलक्षणं । ध्येयमप्रशस्तप्रशस्तपरिणामकारणं । ध्याता कषायकलुषितो गुप्तेन्द्रियश्च । फलं संसारभ्रमणं स्वर्गापवर्गसुखं च । तदेतच्चतुरंगध्यानमप्रशस्तप्रशस्तभेदेन द्विविधं, श्रेयोऽधिकारेऽप्रशस्तोपन्यासः परिज्ञातस्य प्रहेयत्वोपपत्तेः । अप्रशस्तं द्विविधमाः रौद्रं चेति । तत्राऽऽर्त बाह्याऽऽध्यात्मिकभेदाद्विविकल्पं । तत्र परानुमेयं बाह्यं शोचनक्रन्दनविलपनपरिदेवनविषयसंगपरिभवविस्मयादिलक्षणं । स्वसंवेद्यमाध्यात्मिकार्तध्यान, अमनोज्ञविप्रयोगस्यानुत्पत्तिसंकल्पाध्यवसानं, उत्पन्नस्य च विनाशसंकल्पाध्यवसानमिति चतुःप्रकारं । तद्यथाअमनोज्ञं दुःखसाधनं, तच्च बाह्यमाध्यात्मिकमिति द्विविधं । तत्र बाह्यं चेतनकृतमचेतनकृतमिति द्विप्रकारं । तत्र चेतनकृतं देवमनुष्यतिर्यसंपादितमसातं; अचेतनकृतं च विषकंटकाग्निशस्त्रक्षारशीतोष्णादिजनितदुःखं । आध्यात्मिककारणं शारीरं मानसमिति द्विविधं । तत्र शारीरं वातपित्तश्लेष्मवैषम्यसमुद्भवशिरोऽक्षिदन्तकुक्षिशूलादिजनितं । मानसं चाऽरतिभयशोकभयजुगुप्साविषाददौर्मनस्यादिजनितमित्यादिदुःखसाधनममनोज्ञं, तेन संप्रयोगः स कथं नाम Page #81 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ७५ मे नोत्पद्यत इति चिन्ताप्रबन्धः, संकल्पस्तस्याध्यवसानं तीव्रकषायानुरंजनं, एतदमनोज्ञसंप्रयोगस्यानुत्पत्तिसंङ्कल्पाध्यवसानं प्रथमाः । एतहुःखसाधनसद्भावे तस्य विनाशकांक्षोत्पन्नविनाशसंकल्पाध्यवसानं द्वितीयाः । मनोज्ञं नाम धनधान्यहिरण्यसुवर्णवस्तुवाहनशयनाऽऽसनस्रक्चन्दनवनितादिसुखसाधनं मे स्यादिति गर्द्धनं । मनोज्ञविप्रयोगस्योत्पत्तिसंकल्पाध्यवसानं तृतीयाः । सुखसाधनसद्भावे तेन विप्रयोगो मे न स्यादिति संकल्पः उत्पन्नविनाशसंकल्पाध्यवसानं चतुर्थार्त । एतच्चतुर्विधार्तध्यानं कृष्णानीलकापोतलेश्याबलाधानं प्रमादाधिष्ठानं । प्रागप्रमत्ताच्छङ्गुणस्थानभूमिकमन्तमुहूर्तकालमतः परं दुर्धरत्वात् क्षायोपाशमिकभावपरोक्षज्ञानत्वात्तिर्यग्गतिफलसंवर्तनीयमिति । रौद्रं च बाह्याऽऽध्यात्मिकभेदेन द्विविधं । तत्र परानुमेयं बाह्य परुषनिष्ठुराऽऽक्रोशननिर्भर्त्सनबन्धनतर्जनताडनपीडनपरदारातिकमणादिलक्षणं । स्वसंवेद्यमाध्यात्मिकं तच्च हिंसानंदमृषानन्दस्तैयानन्दविषयसंरक्षणानन्दभेदाच्चतुर्विधं । तीनकषायानुरंजनं हिंसानन्दं प्रथमरौद्रं । स्वबुद्धिविकल्पितयुक्तिभिः परेषां श्रद्धेयरूपाभिः परवंचनं प्रतिमृषाकथने संकल्पाध्यवसानं मृषानन्दं द्वितीयरौद्र । हठात्कारेण प्रमादप्रतीक्षया वा परस्वापहरणं प्रति संकल्पाध्यवसानं तृतीयं रौद्रं । चेतनाचेतनलक्षणे स्वपरिग्रहे ममैवेदं स्वमहमेवास्य स्वामीत्यभिनिवेशात्तदपहारकव्यापादनेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दं चतुर्थं रौद्रं । चतुष्टयमपीदमिति कृष्णनीलकापोतले. १ स्वं धनम् । Page #82 -------------------------------------------------------------------------- ________________ ७६ चारित्रसारे श्याबलाधानं प्रमादाधिष्ठानं । प्राक्प्रमत्तात्पंचगुणस्थानभूमिकमन्तमुहूर्त्तकालमतःपरं दुर्धरत्वात् क्षायोपशमिकमावं परोक्षज्ञानत्वादौदयिकभावं वा भावलेश्याकषायप्राधान्यान्नरकगतिफलसंवर्तनीयमिति । उभयमप्येतदपध्यानं परिहरन्नपवर्गकामो भिक्षुः परीषहबाधासहिष्णुः शक्तिमदुत्तमसंहननान्वितः प्रशस्तध्यानप्रवणो गिरिगुहादरीकन्दरतरुकोटरसरित्पुलिनपितृवनजीर्णोद्यानशून्यगृहादीनामन्यतमस्मिन् प्रदेशे व्यालपशुमृगषण्ढकमनुष्यादीनामगोचरे तत्रत्यागंतुकजन्तुभिः परिवर्जितेऽत्युष्णातिशीतातिवातातिवर्षातपरहिते समन्तादिन्द्रियमनोविक्षेपहेतुनिराकरणभूते शुचावनुकूलस्पशिनि भूमितले यथासुखमुपविष्टो बद्धपर्यङ्कासनः स्वाङ्के वामपाणितलस्योपरि दक्षिणपाणितलमुत्तानं निधाय नेत्रे नात्युन्मीलयन्नातिमीलयन् दन्तैर्दन्ताग्राणि संदधानः प्राणापानप्रचारात्यंतनिग्रहे तीव्रदुःखाकुलचेतस एकाकारपरिणामो न जायते, ततो मन्दमन्दप्राणापानप्रचारः स्यादेवं द्रव्यक्षेत्रकालभावशुद्धिसंयुतस्तत्प्रतिपक्षदोषवर्जितः परमयोगी संसारलतामूलोच्छेदनहेतुभूतं प्रशस्तध्यानं ध्यायेत् । तद् द्विविधं; धर्य शुक्लं चेति । तत्र धर्म्यध्यानं बाह्याध्यात्मिकभेदेन द्विप्रकारं । तत्र परानुमेयं बाह्यं सूत्रार्थगवेषणं दृढव्रतशीलगुणानुरागनिभृतकरचरणवदनकायपरिस्पंदवाव्यापारं मुंभRभोगाररक्षवथुप्राणापानोद्रेकादिविरमणलक्षणं भवति । स्वसंवेद्यमाध्यात्मिक, तद्दशविध; अपायविचयं, उपायविचयं, जीवविचयं, अजीवविचयं, विपाकविचयं, विरागविचयं, भवविचयं, संस्थनाविचयं, आज्ञाविचयं, हेतुविचयं, चेति । एतद्दशविधमपि दृष्टश्रुतानुभूतदो Page #83 -------------------------------------------------------------------------- ________________ अनगारधर्मे - तपोवर्णनम् । 1 परिवर्जनपरस्य मन्दतरकषायानुरंजितस्य भव्यवरपुंडरीकस्य भवति । तत्रापायविचयं नामानाद्याजवंजवे यथेष्टचारिणो जीवस्य मनोवाक्कायप्रवृत्तिविशेषोपार्जितपापानां परिवर्जनं तत्कथं नाम मे स्यादिति संकल्पश्चित प्रबन्ध प्रथमधर्म्यं । उपायविचयं प्रशस्तमनोवाक्कायप्रवृत्तिविशेषोऽवश्यः कथं मे स्यादिति संकल्पो द्वितीयधर्म्यम् । जीवविचयं जीव उपयोगलक्षणो द्रव्यार्थादनाद्यनन्तोऽसंख्येयप्रदेशः स्वकृतशुशुभाशुभकर्मफलोपभोगी गुणवानात्मोपात्तदेहमात्रः प्रदेशसंहरणविसर्पणधर्मा सूक्ष्मोऽव्याघात उद्भूगतिस्वभावोऽनादिकर्मबन्धनबद्धस्तत्क्षयान्मोक्षभागी गत्यादि-नामादि-निर्देशादि - सदादि प्रमाणनयनिक्षेपविषय इत्यादिजीवस्वभावानुचिन्तनं तृतीयं धर्म्यं । विपाकविचयमष्टविधकर्माणि नामस्थापनाद्रव्यभावलक्षणानि मूलोत्तरोत्तरप्रकृतिविकल्पविस्तृतानि गुडखंडसिताऽमृतमधुरविपाकानि निंबकांजीविषहालाहलकटुकविपाकानि चतुर्विधधानि लतादावस्थिशैलस्वभावानि कासु कासु गतिषु योनिष्ववस्थासु च जीवानां विषया भवन्तीति विपाकविशेषानुचिन्तनं पंचमधर्म्यं, विरागविचयं शरीरमिदमनित्यमपरित्राणं विनश्वरस्वभावमशुचिदोषाधिष्ठितं सप्तधातुमयं बहुमलपूर्णमनवरत निस्यंदितस्रोतोबिलमतिबीभत्समाधेयमशौचमपि पूतिगंधि सम्यग्ज्ञानिजनवैराग्यहेतुभूतं नास्त्यत्र किंचित्कमनीयमिन्द्रियसुखानि प्रमुख रसिकानि क्रियाकमानविरसानि किंपाकपाकविपाकानि पराधीनान्यस्थानप्रचुर भंगुराणि यावद्यावदेषां रामणीयकं तावत्तावद्भोगिनां तृष्णाप्रसंगोऽनवस्यो यथाऽग्नरिन्धनैर्जलनिधेः सरित्सहस्रेण न तृप्तिस्तथा लोकस्याप्येतर्न तृप्तिरुपशान्तिश्चैौहिका ७७ Page #84 -------------------------------------------------------------------------- ________________ ७८ चारित्रसार मुत्रिकावीनपातहेतवस्तानि देहिनः सुखानीति मन्यन्ते महादुःखकारणान्यनात्मीयत्वादिष्टान्यप्यनिष्टानीति वैराग्यकारणविशेषानुचिन्तनं पष्ठं धये । भवविचयं सचित्ताचित्तमिश्रशीतोष्णमिश्रसंवृतविवृतमि. श्रभेदासु योनिषु जरायुजाडजपोतोपपादसम्मूर्च्छनजन्मनो जीवस्य भवाद्भवान्तरसंक्रमण इषुगतिपाणिमुक्तालांगलिकागोमूत्रिकाश्चतस्रो गतयो भवन्ति । तत्रेषुगतिरविग्रहैकसामयिकी ऋज्वी संसारिणां सिद्धयतां च जीवानां भवति । पाणिमुक्तकविग्रहा द्विसामयिकी संसारिणां भवति । लांगलिका द्विविग्रहा त्रिसामयिकी। गोमूत्रिका त्रिविग्रहा चतुःसामयिकी भवति । एवमनादिसंसारे संधावतो जीवस्य गुणविशेषानुपलब्धितस्तस्य भवसंक्रमणं निरर्थकमित्येवमादिभवसंक्रमणदोषानुचिंतनं सप्तमं धये । यथावस्थितमीमांसासंस्थानविचयं तद्वादशविधं, अनित्यत्वमशरणत्वं संसार एकत्वमन्यत्वमशुचित्वमास्रवः संवरो निर्जरा लोको बोधिदुर्लभो धर्मस्वाख्यातं इत्यनुपेक्षा । उक्तं हि । समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य । नोदेति नो विनश्यति भवनतया लिंगितो नित्यम् ॥ तत्रानित्यत्वमात्मना रागादिपरिणामात्मना कर्मणो कर्ममावेन गृहीतानि पुद्गलद्रव्याण्यगृहीतानि परमाण्वादीनि तेषां सर्वेषां द्रव्यात्मना नित्यत्वं, पर्यायात्मना सततमनुपरतभेदसंसर्गवृत्तित्वादनित्यत्वमिमानि हि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि समु. दायरूपाणि जलबुद्धदवदनवस्थितस्वभावानि गर्भादिष्ववस्थाविशेषेषु मटोपलभ्यमानसंयोगविपर्ययाणि मोहोदयादत्राऽज्ञानी नित्यतां Page #85 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । मन्यते, न किंचित्संसारे ध्रुवमस्त्यात्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति चिन्तनमनित्यत्वानुप्रेक्षा, एवमस्य चिन्तयतस्तेष्वभिष्वंगाभावाद्भुक्तोज्झितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते । , अशरणत्वं शरणं द्विविधं; लौकिक, लोकोत्तरं चेति । प्रत्येकं त्रिविधं जीवाजीवमिश्रकभेदात् । तत्र लौकिकं जीवशरणं राजा देवता, प्राकाराद्यऽजीवशरणं प्राकारान्वितं ग्रामनगराद्रि मिश्रकं । लोकोत्तरं जीवशरणं पंच गुरवस्तत्प्रतिबिंबाद्यऽजीवशरणं सधर्मसाधुवर्गोपकरणं मिश्रकशरणं । यथा मृगशावकस्यैकान्ते वलवता क्षुधितेनामिषैषिणा व्याघ्रेणाभिद्रुतस्य न किंचिच्छरणमस्ति तथा जन्मजराव्याधिप्रियवियोगाप्रिय संयोगेप्सिताऽलाभदारिद्र्यदौर्मनस्यादि - समुत्थितेन दुःखेनाभिभूतस्य जन्तोः शरणं न विद्यते । परिपुष्टमपि शरीरं भोजनं प्रति सहायी भवति न व्यसनोपनिपाते सति । यत्नेन संचिता अप्यर्था न भवान्तरमनुगच्छन्ति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते बन्धवः समुदिताश्च रुजा परीतं न परिपान्ति । अस्ति चेत्सुचरितो धर्मों व्यसनमहार्णवे तरणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणं तस्माद्भवव्यसनसंकटे धर्म एव शरणं सुहृदर्थोऽप्यननुयायी नान्यत्किंचिच्छरणमिति भावनमशरणानुप्रेक्षा । एवमस्य भावयतो नित्यमशरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वविगमो भवति, भगवदर्हत्सर्वज्ञप्रणीतागम एव प्रतिपन्नो भवेत् । संसारश्च, संसारोऽसंसारो नो-संसारस्तत्रितयव्यपायश्चेति चतुर्वि `धावस्था । तत्र संसारश्चतसृषु गतिषु नानायोनिविकल्पासु परिभ्रमण, ७९ Page #86 -------------------------------------------------------------------------- ________________ ८० चारित्रसारे शिवपदपरमामृतसुखप्रतिष्ठाऽसंसारः, सयोगकेवलिनश्चतुर्गतिभ्रमणाभावात्संसारान्तःप्राप्त्यभावाच्चेषत्संसारो नो-संसार इति, तत्रितयव्यपायोऽयोगिकेवलिनो भवभ्रमणाभावात् सयोगिकेवलिवत्प्रदेशपरिस्पन्दविगमात्संसारान्तावाप्त्यभावाच्च देहपरिस्पन्दाऽभावेऽपि देहिनः सततं प्रदेशचलनमस्ति, ततः सदा संसार एव सिद्धानामयोगिकेवलिनां च नास्ति प्रदेश चलनं तद्योग्यकर्मसामम्यभावादितरेषां त्रिधाऽवसीयते । स पुनः संसारः, अभव्यापेक्षयाऽनाद्यनिधनः, भव्यसामान्यार्पणयाऽनादिरुच्छेदवान्, भव्यविशेषविवक्षया क्वचित्सादिः सनिधनः । असंसारः सादिरनिधनः । तत्रितयव्यपायोऽन्तमुहूर्तकालः । नो- संसारो जघन्येनान्तर्मुहूर्तः । उत्कृष्टेन देशोनपूर्वकोटिलक्षः । सादिः सपर्यवसानः संसारो जघन्येनाऽन्तर्मुहूर्त्तः । उत्कृष्टेनार्द्धपुद्गलपरावर्त्तनकालः । स च संसारो द्रव्यक्षेत्रकालभवभावभेदात्पंचविधो, द्रव्यनिमित्तः संसारो द्विविधः कर्म-कर्मविवक्षाभेदात्कर्मद्रव्यसंसारो ज्ञानावरणादिविषयो नोकर्मद्रव्यसंसार औदारिकवैक्रिय काऽऽहार कतैजसशरीराणामाहारशरीरेन्द्रियाऽऽनपानभाषामनः पर्याप्तीनां विषयः । क्षेत्रहेतुकः संसारो द्विविधः, स्वक्षेत्र परक्षेत्र विकल्पात् । लोकाकाशतुल्य प्रदेशस्यात्मनः कर्मोदयवशात्संहरण विसर्पणधर्मिणो हीनाधिकाकाशप्रदेश परिमाणावगाहत्वं स्वक्षेत्र संसारः । सम्मूर्च्छन गर्भोपपादजन्मनवयोनिविकल्पाद्यवलंबनः परक्षेत्रसंसारः । परमार्थव्यवहारभेदेन कालो द्विविधः । तत्र यावंतो लोकाकाशप्रदेशास्तावंत: कालाणवः परस्परं प्रत्यबंधा एकै - कस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनो मुख्योपचारप्रदेशक१ "क" पुस्तके "तेजस" इति पाठा नाऽस्ति । Page #87 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ल्पना, भावान्निरवयवाः, मुख्यप्रदेशकल्पना हि धर्माधर्मजीवाकाशेषु पुद्गलेषु च व्यणुकादिस्कन्धेषु परमाणुषूपचारप्रदेशकल्पना प्रचयशक्तियोगात् । विनाशहेत्वभावान्नित्याः, विविधपरिणामिषट्द्रव्यपर्यायपरिवर्तनहेतुत्वादनित्याः, रूपरसगन्धस्पर्शयोगाभावादमूर्त्ताः, जीवप्रदेशवत्प्रदेशान्तरसंक्रमणाऽभावान्निष्क्रिया इति परमार्थकालः । व्यवहारकालः परमार्थकालवर्तनया लब्धकालव्यपदेशः परिणामादिलक्षणः । कुतश्चित्परिच्छिन्नोऽपरिच्छिन्नस्य परिच्छेद. हेतुः । भूतो वर्तमानो भविष्यन्निति त्रिविधः कालः परस्परापेक्षत्वात् , यथा वृक्षपंक्तिमनुसरतो देवदत्तस्यैकैकं तरुं प्रति प्राप्तप्राप्नुवत्प्राप्सद्व्यपदेशस्तथा तात्कालाणूननुसरतां द्रव्याणां क्रमेण वर्तनापर्यायमनुभवतां भूतवर्तमानभविष्ययवहारसद्भावः । तत्र परमार्थकाले भूतादिव्यवहारो गौणो व्यवहारकाले तु मुख्यः । किमत्र बहुनोक्तेन परमार्थकालेन कारणभूतेन तेन षट् द्रव्याणि परावर्त्यन्ते कार्यरूपाणि । तेषां द्रव्याणां परिच्छेदकाः समयावलिकादयः । द्रव्यस्यैकपर्याय एकसमयो द्वित्रिचतुःसंख्येयासंख्येयानन्तपर्यायकलापाः । द्वित्रिचतुःसंख्येया असंख्येया अनन्तसमया यथा प्रदीपः स्वपरप्रकाशकस्तथैव कालः स्वरप्रवर्तकः, अथवा सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाढाकाशप्रदेशव्यतिक्रमणं कालः परमनिरुद्धो निर्विभागः समय इति कालसंसारः । . भवनिमित्तसंसारो द्वात्रिंशद्विधः पृथिव्यप्तेनोवायुकायिकाः प्रत्येक चतुर्विधाः सूक्ष्मवादरपर्याप्तापर्याप्तभेदात् । वतस्पतिकायिका द्वेधा प्रत्येकशरीराः साधारणशरीराश्चेति । प्रत्येकशरीरा द्वेधा पर्याप्त ___ Page #88 -------------------------------------------------------------------------- ________________ ૮૨ चारित्रसारे कापर्याप्तकभेदात् । साधारणशरीरा आहारशरीरेन्द्रियोच्छासनिःश्वासपर्याप्त्युत्पादननिमित्तमाहारवर्गणायाः गृहीतपुद्गलपिंडास्तत्र यत्रैको म्रियते जीवस्तत्र मरणमनंतानां यत्रैकश्चोत्पद्यते तत्राऽनंतानामुत्पत्तिर्भवति तेषां लिंगं गूढशिरादि । उक्तं च साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ॥१॥ जत्थेकु मरइ जीवो तत्थ दु मरणं भवे अणंताण । चंकमइ जत्थ एक्को चंकमणं तत्थ णंताणं ॥२॥ गूढसिरसंधिपव्वं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तन्विवरीयं च पत्तेयं ॥३॥ मूले कंदे छल्ली पवालसालदलकुसुमफलबीजे। समभंगे सदिणंता असमे सदि हॉति पत्तेया ॥४॥ कंदस्त व मूलस्स व सखाखंधस्स चावि वहलतरी। छल्ली साणंतजिया पत्तेयजिया दु तणुकदरी ॥५॥ ते च साधारणशरीराश्चतुर्धा सूक्ष्मवादरपर्याप्तकापर्याप्तकविकल्पात् । द्वित्रिचतुरिन्द्रियाः प्रत्येकं द्वेधा, पर्याप्तकापर्याप्तकविकल्पात्। पंचेन्द्रियाश्चतुर्धा संश्यसंज्ञिपर्याप्तकापर्याप्तकापेक्षयेति । भावनिमित्तसंसारो द्वेधा स्वभावपरभावाश्रयात् । स्वभावो मिथ्यादर्शनकषायादिः, परभावो ज्ञानावरणादिकर्मरसादिः । एवमेतस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन्नयं जीवः कर्मयंत्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । किं बहुना स्वयमात्मनः पुत्रो ____ ww Page #89 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ८३ भवतीत्येवमादिसंसारे स्वभावचिन्तनं संसारानुप्रेक्षा । एवमस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निवेदो भवति निर्विण्णश्च संसारप्रहाणाय प्रतियतते । अथैकत्वानुप्रेक्षावर्णनं । जन्मजरामरणाऽऽवृत्तिमहादुःखानुभवनं प्रति सहायानपेक्षत्वमेकत्वं । एकत्वमनेकत्वमेतदुभयं द्रव्यक्षेत्रकालभावविकल्पं । तत्र द्रव्यैकत्वं जीवादिष्वन्यतमद्रव्यविषयत्वेनाऽभेदत्वं । क्षेत्रकत्वं परमाण्ववगाढप्रदेशः । कालैकत्वमभेदसमयः । भावकत्वं मोक्षमार्गः । तथाऽनेकत्वमपि भेदविषयं, न हि किंचिदेकमेव निश्चितमस्ति अनेकमेव वा एकमपि सामान्यार्पणया विशेषार्पणयाऽनेकमपि भवति । तत्र परिप्राप्तबाह्याभ्यंतरोपधित्यागस्य सम्यग्ज्ञानादेकत्वनिश्चयमास्कन्दतः यथाख्यातचारित्रैकवृत्तेर्मोक्षमा भावेनैकत्वं तत्प्राप्तय--एक एवाऽहं न कश्चिन्मे स्वः परो वा विद्यते; एक एव जायत एक एव म्रियते; न मे कश्चिजनः परजनो चा व्याधिजरामरणादीनि दुःखान्यपहरति; बंधुमित्राणि श्मशानं नाsतिवर्तन्ते; धर्म एव मे सहायः सदाऽनपायीति चिन्तनमेकत्वाऽनुप्रेक्षा । एवमस्य भावयतः स्वजनेषु प्रीत्यनुबंधो न भवति, परजनेषु द्वेषानुबंधो नोपजायते, ततो निःसंगताऽभ्युपजायते, ततो निःसंगतो मोक्षोऽवघटते । इत्येकत्वानुप्रेक्षा । . अथाऽन्यत्वाऽनुप्रेक्षाप्रकरणम् । अन्यत्वं चतुर्धा व्यवतिष्ठते, नामस्थापनाद्रव्यभावाऽऽलंबनभेदात् । आत्मा जीव इति नामभेदः । १ इति पाठः ,'क' पुस्तके नाऽस्ति । Page #90 -------------------------------------------------------------------------- ________________ चारित्रसारे-- काष्ठप्रतिमेति स्थापनाभेदः । जीवद्रव्यमनीवद्रव्यमिति द्रव्यभेदः । एकस्मिन्नपि द्रव्ये बालो युवा मनुष्यो देव इत्यादि भावभेदः जीवकर्मणो बंधं प्रत्येकत्वे सत्यपि लक्षणबंधादन्यत्वं, जीवस्तावज्ज्ञानदर्शनोपयोगलक्षणः । वर्णगंधरसस्पर्शवन्तः पुद्गला इति लक्षणकृतो भेदः । प्रतिसमयमनंतानंताः कर्माणको योगवशादागत्य जीवप्रदेशेष्वन्योन्यप्रदेशाऽनुप्रविष्टाः सन्तः कषायवशादवतिष्ठन्ते समयं प्रत्यनंतानंताः कर्मपुद्गला जीवं परित्यज्य प्रच्यवंत इति बंधं प्रति भेदः । नो कर्मपुद्गला अपि बन्धनगुणेन जीवे क्षीरनीरन्यायेनैकबन्धनबद्धा भूत्वा प्रतिक्षणं निर्जीर्यन्ते जीवः स्वयं कर्मवशात्तत्प्रायोग्यशरीरं निर्माय शरीरस्थोऽपि यथा नखरोमदन्तास्थिषु न विद्यते तथा रुधिरवसाशुक्ररसश्लेष्मपित्तमूत्रपुरीषमस्तिष्कादिषु प्रदेशेष्वपि नास्ति एवं कर्मशरीरावयेवभ्यो जीवस्याऽन्यत्वं ततः कुशलपुरुषप्रयोगसन्निधौ शरीरादत्यंतव्यतिरेकेणाऽऽत्मनो ज्ञानादिभिरनंतैरहेयैमुक्ताववस्थानं तदवाप्तप-ऐन्द्रियकं शरीरमतींद्रियोऽहं, अझं शरीरं ज्ञस्वभावोऽहं, अनित्यं शरीरं नित्योऽहं, आद्यन्तवच्छरीरमनाद्यनन्तोऽहं, बहूनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः स एवाऽहमन्यस्तेभ्य इति शरीरादन्यत्वं मे । किमङ्ग पुनर्बाह्येभ्यः परिग्रहेभ्य इति चिन्तनमन्यत्वानुप्रेक्षा । एवमस्य मनः समादधानस्य शरीरादिषु स्पृहा नोत्पद्यते ततश्च श्रेयसे वर्त्तते । इत्यन्यत्वाऽनुप्रेक्षा। २ 'अङ्ग' इति संबोधनं कोमलाऽऽलापमंत्रणे । Page #91 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । ८५ अथाऽशुचित्वाऽनुप्रेक्षा-शुचित्वं द्वधा, लोकोत्तरं लौकिकं चेति। तत्राऽत्मनो विशुद्धध्यानजलप्रक्षालितकर्मकलंकस्य स्वात्मन्यवस्थानं लोकोत्तरशुचित्वं, तत्साधनानि सम्यग्दर्शनज्ञानचारित्रतपांसि तद्व. न्तश्च साधवस्तदधिष्ठानानि च निर्वाणभूम्यादिकानि । तत्प्राप्त्युपायत्वाच्छुचिव्यपदेशमर्हन्ति । लौकिकं शुचित्वं कालाऽग्निभस्ममूत्तिकागोमयसलिलाऽज्ञाननिर्विचिकित्सत्वभेदादष्टविधं तदिदं शरीरं शुचीकर्तुं न शक्यते कुतोऽत्यंताऽशुचित्वात् शरीरमिदमाद्युत्तराशुचिकारणादिभिरशुचि लक्ष्यते । तद्यथा-आद्यं तावत्कारणं शरीरस्य शुक्र शोणितं च तदुभयमत्यन्ताऽशुचि। उत्तरकारणमाहारपरिणामादिकवलाऽऽहारोऽपि ग्रस्तमात्रः श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽधिकमशुचि भवति, ततः पित्ताशयं प्राप्य पच्यमान आम्लीकृतोऽशुचिरेव भवति, पक्वो वाताशयमवाप्य वायुना विभज्यमानः खलरसभावेन भिद्यते । खलभागो मूत्रपुरीषादिद्वघनमलविकारेण विविच्यते, रसभागः शोणितमांसमेदोऽस्थिमज्जाशुक्रभावेन परिणमते । सर्वेषां चैषामशुचीनां भाजनं शरीरमवस्करवद्शक्यप्रतीकारं । खल्विदं शरीरं स्नानानुलेपनघूपप्रघर्षवस्त्रमाल्यादिभिरपि न शक्यमशुचित्वमपहत्तै । अंगारवदाश्रितमपि द्रव्यमाश्वे. वाऽऽत्मस्वभावमापादयति । शरीरजा अपि गोमयगोरोचनादन्तिदंतचमरीवालमृगनाभिखङ्गिविषाणमयूरपिच्छसर्पमणिशुक्तिमुक्ताफलादयो लोकेषु शुचित्वमुपगताः । नास्त्यत्र पुनः शरीरे किंचित्कमनीयं शुचि वा न जलादीनां शुचिहेतुत्वं । सम्यग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यंतिकी शुद्धिमाविर्भावयतीति तत्त्वभावनमशु Page #92 -------------------------------------------------------------------------- ________________ चारित्रसारे चित्वाऽनुप्रेक्षा । एवमस्य संस्मरतः शरीरनिर्वेदो भवति निर्विण्णश्च जन्मोदधितरणाय चित्तं समाधत्त इत्यशुचित्वाऽनुप्रेक्षावर्णनम् । अथाऽस्रवाऽनुप्रेक्षावर्णनं विधीयते । उद्वेगार्थमास्रवोपक्षेपः, आस्रवा हीहाऽमुत्र चापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियादयः । अविरलसरलशल्लकीसहकारवंशकुंडगप्रमथनस्वच्छसरोवरसलिलावगाहनमृदुसुखस्पर्शिमहीतलविहरणादिगुणसंपन्ना वनविहारिणो मदांधा महाकाया बलवन्तोऽपि वारणा हस्तिबंधकीषु स्पर्शनेन्द्रियप्रसक्तचित्ता मनुष्यविधेयतामुपगम्य वधबन्धदमनवाहनांकुशताडनपार्णिघातादिजनितं तीव्र दुःखमनुभवन्ति । नित्यमेव च स्वयूथस्वच्छन्दप्रचारसुखस्य वनवासस्याऽनुस्मरन्तो महान्तं खेदमवाप्नुवन्ति । तथैव जिह्वेन्द्रियाविषयलोभात् स्रोतोवेगावगाहिमृतहस्तिशरीरस्था वायसा अपारसागरावर्तान्तिःपातव्यसनमुपनिपतन्ति । मत्स्याश्चागाधसलिलसंचारिणो लोचनगोचरातीता रसनेन्द्रियवशंगता आमिषलोभेन लोहमास्वाद्य म्रियन्ते । घ्राणेन्द्रियलोलुपाश्चौषधगंधलुब्धपन्नगा विनिपातमिच्छन्ति, मधुकराश्च दानगंधलुब्धा गजकर्णझलंझलामुपगम्य मरणमासादयन्ति । चक्षुरिन्द्रियविषयीकृताः प्रदीपावलोकेन लोलाः पतङ्गा व्यसनप्रपाताऽभिमुखा भवन्ति । श्रोत्रेन्द्रियविषयसंगाकृष्टमनसो गीतध्वनिविषंगविस्मृततृणग्रसना हरिणा अनर्थोन्मुखा भवन्ति । परत्र च नानाजातिषु बहुविधदुःखप्रज्वलितासु पर्यटन्ति । तथा स्वयंप्रभाङ्गसंगतसुखस्पर्शलाभलोभाऽऽकृष्टचित्तोऽश्व स्मरणे षष्ठीविभक्तिरपि भवति । Page #93 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । ग्रीवो विद्याधरचक्रवर्त्ती त्रिखंडाधिपतिः सपुत्रः सबांधवो निधनतामुपगतः । तथा च रसनेन्द्रियघ्राणेन्द्रियलोलुपः सुभूमः सकलचक्रवर्त्ती षट्खंडाधिपतिर्वणिग्वेषधारिणा जन्मान्तरवैरिणा समुद्रमध्ये मरणमुपगतः । तथा च वर्वरीचिलातिकानृत्यावलोकन विहिताऽऽसक्तिदमितारिरर्द्धचक्रवर्त्ती सकलपरिजनसमेतो विराममुपजगाम । तथा च हस्तिपकमधुरगीतरवश्रवणसंसक्तमतिरमृतमतिर्यशोधर महाराजमहादेवी स्वकुलपरिभ्रष्टा कुष्ठाधिष्ठितशरीरा मृतिमुपगम्य नरकदुःखभागिनी बभूव । एवमेकैकन्द्रियविषयैर्विष समैस्तथाविधा अपि विनष्टाः किं पुनः पंचेन्द्रियविषयाभिलाषिण इत्येवमाद्यास्रवदोषाऽनुचिन्तनमास्रवाऽनुप्रेक्षा । एवमस्य चिन्तयतः क्षमादिधर्मः श्रेयस्त्वबुद्धिर्न प्रच्यवते । सर्वेऽप्येते आस्रवदोषाः कर्मवत्संवृतेंद्रियस्य न भवन्ति । इत्यास्त्रवाऽनुप्रेक्षावर्णनम् । 1 ૭ अथ संवराऽनुप्रेक्षावर्णनं विधीयते । आस्रवनिरोधः संवरः । यथा वणिङ्महार्णवे यानपात्रविवरद्वार जलास्त्रवपिधाने निरुपद्रवमभिलषितदेशान्तरं प्राप्नोति तथा मुनिरपि संसारार्णवे शरीरपोतस्येन्द्रियविषयद्वारकर्मजलास्रवं तपसा पिधाय मुक्तिवेलापत्तनं निर्विघ्नं प्राप्नोति इत्येवं संवरगुणाऽनुचिंतनं संवराऽनुप्रेक्षा । एवमस्य चिन्तयतः संवरे नित्योद्युक्ता भवति । इति संवराऽनुप्रेक्षावर्णनम् । - अथ निर्जराऽनुप्रेक्षावर्णनं विधीयते । कर्मैकदेशगलनं निर्जरा, साऽपि द्वेधा, उदयोदीरणाविकल्पात् । तत्र नरकादिषु कर्मफलविपाकोदयोद्भवा । परीषहजयोदुदीरणोद्भवा । सा शुभाऽनुबंधा Page #94 -------------------------------------------------------------------------- ________________ चारित्रसारे निरनुबंधा चेत्येवं निर्जराया गुणदोषभावनं निर्जराऽनुप्रेक्षा । एवमस्याऽनुस्मरतः कमीर्नजरायै वृत्तिर्भवति । इति निर्जराऽनुप्रेक्षावर्णनम् । ___ अथ लोकाऽनुप्रेक्षावर्णनं विधीयते । जीवादिपदार्थाधिकरणं लोकः समन्तादनंतानंतस्वात्मप्रतिष्ठाऽऽकाशसुबहुमध्यप्रदेशस्थितस्तनुवातघनानिलघनोदधिवेष्टितो लोकस्तन्मध्यगता त्रसनाडी, तन्मध्ये महामेरुस्तस्याधः स्थिता नरकप्रस्तारा, मेरुपरिवृताः शुभना. मानो द्वीपसमुद्रा विििर्वष्कंभा वलयाकृतयो, मेरोरुपरि स्वर्गपटलानि, तेषामुपरि सिद्धक्षेत्रं । एवमधस्तिर्यगूद्धभेदभिन्नस्य चतुर्दशरज्जूत्सेधस्य सप्तैकपंचैकरज्जुप्रसृतपूर्वापरविभागस्य सप्तरज्जुविस्तारदक्षिणोत्तरदिग्भागस्य वेत्रासनझल्लरीमृदंगसमानाऽऽकारस्य षट्द्रव्यनिचितम्याकृत्रिमस्यानादिनिधनस्य लोकस्य स्वभावपरिणामपरिणाहसंस्थानाऽनुचिंतनं लोकाऽनुप्रेक्षा । एवमस्याध्यवस्यतस्तत्त्वज्ञानविशुद्धिर्भवति । इति लोकानुप्रेक्षावर्णनम् ।। अथ बेधिदुलभाऽनुप्रेक्षावर्णनं विधीयते । स्कन्धांडराऽऽवासपुलविशरीरेषु स्कंधा असंख्यातलोकमात्रा, एकैकस्मिन् स्कंधेऽसंख्यातलोकमात्रा अंडरा, एकैकस्मिन्नंडर आवासा असंख्यातलोकमिताएकैकमिन्नावासे पुलयोऽसंख्यातलोकप्रमाणा, एकैकस्मिवन्पुलवौ असंख्यातलोकप्रमितानि शरीराण्येकैकस्मिन्निगोदशरीरे जीवाः सर्वातीतकालसिद्धानामनंतगुणाः । उक्तं च । एयनिओयसरीरे जीवा दव्वपमाणदो दिवा। सिद्धेहिं अणंतगुणा सव्वेण वितीदकालेण ॥ ___ Page #95 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । इत्येवं सर्वलोको निरन्तरं निचितः स्थावरैस्ततस्तत्र वालुकास मुद्रे पतितवज्रसिकताकणिकेव त्रसता दुर्लभास्तत्र च विकलेंद्रियाणां प्रचुरभूयिष्ठत्वात्पंचेंद्रियता गुणेषु कृतज्ञतैव कृच्छ्रलभ्या । तत्र च तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभवश्चतुष्पथे रत्नराशिवदासदस्तत्प्रच्यवे पुनस्तदुपपत्तिर्दग्धा तरुपुद्गलतद्भावाऽऽपत्तिवदुर्लभा । तल्लाभे च कुदेशानां हिताहितविचारविरहितानां पशुसमानमानवाकीर्णानां बहुत्वात्सुप्रदेशः पाषाणेषु मणिरिव न सुलभः । लब्धेऽपि सुदेशे पापकर्मजीवकुलाकुलत्वात्कुले जन्म वृद्धोपसेवाविरहिते विनयवत्कृच्छलभ्यं । लोकस्य कुले हि जातिः प्रायेण शीलविनयाचारसंपत्तिकरी भवति । सत्यामपि कुलसंपदि दीर्घायुरिन्द्रियबलरूपनीरोगत्वादीनि दुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्ध. मप्रतिलंभो यदि न स्यात् व्यर्थं जन्म वदनमिव दृष्टिविकलं । तमेवमतिदुर्लभं सद्धर्म कथं कथमप्यवाप्य विषयसुखे रंजनं भस्मार्थ चन्दनदहनमिव विफलं । विरक्तविषयसुखस्य तपोभावनाधर्मप्रभाव. नासुखमरणादिलक्षणः समाधिदुर्लभस्तस्मिन्सति बोधिलाभः फलवान् भवतीति चिंतनं बोधिदुर्लभत्वाऽनुप्रेक्षा । एवमस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति । इति बोधिदुर्लभाऽनुप्रेक्षावर्णनं। अथ धर्मस्वाख्याताऽनुप्रेक्षावर्णनं विधीयते । चतुर्दशगुणस्थानानां गत्यादिचतुर्दशमार्गणास्थानेषु स्वतत्त्वविचारलक्षणो धर्मः । निःश्रेयसप्राप्तिहेतुरहो भगवद्भिरर्हद्भिः स्वाख्यात इति चिंतनं धर्मस्वाख्यातत्वाऽनुप्रेक्षा । एवमस्य चिंतयतो धर्मानुरागः सदा प्रतिपन्नो भवति । इत्येवं चिन्तनं संस्थानविचयमष्टमं धर्म्यम् । ___ Page #96 -------------------------------------------------------------------------- ________________ चारित्रसारे— अथाऽऽज्ञाविचयस्वरूपाद्युच्यते । आज्ञाविचयमतीन्द्रियज्ञानविषयं विज्ञातुं चतुर्षु ज्ञानेषु बुद्धिशक्त्यभावात्परलोकबंधमोक्ष लोकालोकसदसद्विवेक वृद्धिप्रभावधर्माधर्मकालद्रव्यादिपदार्थेषु सर्वज्ञप्रामाण्यात्तत्प्रणीताऽऽगमकथितमवितथं नान्यथेति सम्यग्दर्शनस्वभावत्वानिश्चयचिंतनं नवमं धर्म्यम् । अथ हेतुविचयस्वरूपमुच्यते । हेतुविचयमागमविप्रतिपत्तौ नयविशेषगुणप्रधानभावापनयदुर्धर्षस्याद्वादप्रतिक्रियाऽवलंबिनस्तर्कानु सारिरुचेः पुरुषस्य स्वसमयगुणपरसमयदोषविशेष परिच्छेदेन यत्र गुणप्रकर्षस्तत्राऽभिनिवेश: श्रेयानिति स्याद्वादतीर्थकर प्रवचने पूर्वापर विरोधहेतुपरिग्रहणसामर्थ्येन समवस्थानगुणानुचिंतनं हेतुविचयं दशमं धर्म्यम् | सर्वमेतद् धर्मध्यानं पीतपद्मशुक्ललेश्याबलाधानमविरतादिसरागगुणस्थानभूमिकं द्रव्यभावात्मक सप्तप्रकृतिक्षयकारणं । आ अप्रमत्तादन्तर्मुहूर्त्त कालपरिवर्त्तनं परोक्षज्ञानत्वात् क्षायोपशमिकभावं स्वर्गापवर्गगतिफल संवर्त्तनीयं । शेषैकविंशतिद्रव्यभावलक्षणमोहनीयोपशमक्षयनिमित्तमिति । शुक्लध्यानं द्विविधं; शुक्लं, परमशुक्लमिति । शुक्लं द्विविधं पृथकृत्ववितर्कवीचा रमेकत्ववितर्कावी चारमिति । परमशुक्लं द्विविधं; सूक्ष्मक्रियाऽप्रतिपातिसमुच्छिन्नक्रियानिवर्त्तिभेदात् । तलक्षणं द्विविधं बाह्यमाध्यात्मिकमिति । गात्रनेत्रपरिस्पन्दविरहितं जंभजुंभोद्गारादिवर्जितमनभिव्यक्तप्राणापानप्रचारत्वमुच्छिन्नप्राणापानप्रचारत्वमपराजि I Page #97 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । ९१ तत्वं बाह्यं, तदनुमेयं परेषामात्मनः स्वसंवेद्यमाध्यात्मिकं तदुच्यते । पृथक्त्वं नानात्वं, वितर्कों द्वादशांगश्रुतज्ञानं, वीचारोऽर्थव्यंजनयोगसंक्रांतिः, व्यंजनमभिधानं, तद्विषयोऽर्थः मनोवाक्काय लक्षणो योगः, अन्येऽन्यतः परिवर्त्तनं संक्रांतिः । पृथक्त्वेन वितर्कस्यार्थव्यंजन योगेषु संक्रांतिवीचारो यस्मिन्नस्तीति तत्पृथक्त्ववितर्कवीचारं प्रथमं शुक्लं । तद्यथा - अनादिसंभूतदीर्घ संसारस्थितिसागरे पारं जिगमिषुर्मुमुक्षुः स्वभावविजृंभितपुरुषाकारसामर्थ्याद्द्रव्यपरमाणुं भावपरमाणुं वैकमवलंब्य संहृताऽशेषचिताविक्षेपो महासंवरसंवृतः कर्मप्रकृतीनां स्थित्य - नुभागो ह्रासयन्नुपशमयन् क्षपयँश्च परमबहुकर्मनिर्जरस्त्रिषु योगे - ध्वन्यतमस्मिन्वर्त्तमान एकस्य द्रव्यस्य गुणं वा पर्याय वा बहुनयगहन निलीनं श्रुतरविकिरणोद्योतबलेनान्तर्मुहूर्त्तकालं ध्यायति, ततः परमर्थान्तरं संक्रामत्यथ वाऽस्यैवार्थस्य गुणं वा पर्यायं वा संक्रामति पूर्वयोगायोगान्तरं व्यंजनाद् व्यंजनान्तरं संक्रामति इति । अर्थार्थान्तरगुणगुणान्तर पर्यायपर्यायान्तरेषु योगत्रयं संक्रमणेन तस्यैव ध्यानस्य द्वाचत्वारिंशद्धंगा भवन्ति । तद्यथा - षण्णां जीवादिपदार्थानां क्रमेण ज्ञानवर्णगतिस्थितिवर्त्तनाऽवगाहनादयो गुणास्तेषां विकल्पाः पर्यायाः । अर्थादन्योऽर्थोऽर्थान्तरं गुणादन्यो गुणान्तरं पर्यायादन्यः पर्यायान्तरं । एवमर्थार्थान्तरगुणगुणांतरपर्याय पर्यायान्तरेषु षट्सु योगत्रयसंक्रमादष्टादश भंगाः । अर्थाद्गुणगुणांतर पर्यायपर्यायान्तरेषु चतुर्षु योगत्रय संक्रमणेन द्वादश भंगा भवन्ति । एवमर्थान्तरस्यापि द्वादश भंगा भवन्ति । सर्वे संपिंडिता द्वाचत्वारिंशद्धंगा भवन्ति । एवंविधं प्रथमशुक्लध्यानमुपशांतकषायेऽस्ति, Page #98 -------------------------------------------------------------------------- ________________ चारित्रसारे— क्षीणकषायस्यादावस्ति । तत्र शुक्लतरलेश्याबलाधानमंतमुहूर्त्तकालप'रिवर्त्तनं क्षायोपशमिकभावमुपात्तार्थव्यंजनयोगसंक्रमणं चतुर्दशदशनवपूर्वधारयतिवृषभ निषेव्यमुपशांत क्षीणकषायभेदात् । स्वर्गापवर्गगतिफल संवर्त्तनीयमिति । ९२ द्वितीयशुक्लध्यानमुच्यते । एकस्य भाव एकत्वं, वितर्को द्वादशांगं, अवीचारोऽसंक्रांतिः । एकत्वेन वितर्कस्य श्रुतस्यार्थव्यंजनयोगानामवीचारोऽसंक्रांतिर्यस्मिन्ध्याने तदेकत्ववितर्कावीचारं ध्यानं । एकयोगेनार्थगुणपर्यायेष्वन्यतमस्मिन्नवस्थानं पूर्ववत्पूर्वधरयतिवृषभनिषेव्यं । द्रव्यभावात्मकज्ञानदर्शनावरणांत रायघातिकर्मत्रयवेदनीयप्रभृत्यघातिकर्मसु केषांचिद्भावकर्मविनाशनसमर्थमुत्तमतपोऽतिशयरूपं पूर्वोक्तक्षीणकषायाविशिष्टकाल भूमि कम शेषार्थव्यं जनयोगसंक्रमणविषयचिन्ताविक्षेपरहितं असंख्यातगुणश्रेणिकर्मनिर्जरणं भवति । एवंविधे द्वितीयशुक्लध्याने घातित्रयविनाशनानन्तरं क्षायिकज्ञानदर्शनसम्यक्त्व चारित्रदानाभभोगोपभोगवीर्यातिशयशक्तिगभस्तिप्रज्वलितकेवलिजिन भास्करोदयो व्यतिक्रान्तछद्मस्थज्ञानदर्शनशरीरभाषान्तःकरणप्रकृतिः संजायते । स खलु केवलिजिनकुंजरो भगवाँस्तीर्थकर इतरो वा कृतकृत्यः सिद्धसाध्यो बुद्धबोध्योऽत्यंताऽपुनर्भवलक्ष्मीपरिष्वक्तात्माऽचिन्त्यज्ञानवैराग्यैश्वर्यमाहात्म्यः सर्वलोकेश्वराणामभिगमनीयोऽर्चनीयोऽभिवंद्यश्चोत्कर्षेण देशोनपूर्वकोटिकालं विहरति सयोगिभट्टारकः स यदांतर्मुहूर्त्तशेषायुष्कः समस्थितिवेद्यनामगोत्रश्च भवति तदा वादरकाययोगे स्थित्वा क्रमेण वादरमनोवचनोच्छ्रासनिःश्वासं वादरकाययोगं च निरुध्य ततः सूक्ष्मकाय • Page #99 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । ९३ योगे स्थित्वा क्रमेण सूक्ष्म मनोवचनोच्छ्रासनिश्वासं निरुध्य सूक्ष्मकाययोगः स्यात्तस्यैव सूक्ष्मक्रियाऽप्रतिपातिध्यानं भवति तच्छुक्कं सामान्येन तृतीयं परमशुक्लाऽपेक्षया प्रथमं । यदा पुनरन्तर्मुहूर्त्तशेषायुष्कस्तदधिकस्थितिकर्मत्रयः सयोगिजिनस्तदात्मोपयोगातिशयः कर्मारातिशातनसमर्थः सामायिकखड्ग सहायो विशिष्टक्रियो महास.. वरसंवृतो लघुकर्मपरिपातनश्च भूत्वा शेषकर्मरेणुपरिशातनशक्तिस्वभावात्समयैकदंडके चतुः समये दंडक पाटलोकप्रतरपूरणाभिः स्वात्मप्रदेशविसर्पणे जाते तावद्भिरेव समयैरुपसंहृतविसर्पण आयुष्यसमीकृताऽघातित्रयस्थितिनिर्वर्त्तितसमुद्धातक्रियः पूर्वशरीरपरिमाणो भूत्वांऽतर्मुहूर्त्तेन पूर्ववत्क्रमेण योगनिरोधं विधाय प्रथमपरमशुक्लध्यानं निष्ठापयन् ततः समये द्वितीय परमशुक्लध्यानं प्रारब्धुमर्हति । तत्पुनरत्यंतपरमशुक्लं समुच्छिन्नप्राणापानप्रचार सर्वकायवाङन।योगप्रदेशपरिस्पंद क्रियाव्यापारतया समुच्छिन्नक्रियानिवतत्युच्यते । तत्र ध्याने सर्वास्त्रवनिरोधे सति सर्वशेषकर्म परिशातनसामर्थ्योत्पत्तिमतोऽयोगिकेवलिनः संपूर्णशीलगुणं सर्वसंसारदुःखज्वालापरिष्वंगच्छेदजननं साक्षान्मोक्षकारणं भवति । स पुनरयोगकेवली भगवांस्तदा ध्यानानलसंनिर्दग्धसर्वमलकलं केन्धनो निरस्त - प्रतिसारि । उपरिस्थितान्येव जानात्यनुसारि । उभयपार्श्वे स्थितानि पदानि नियमेनानियमेन वा नात्युभयसारि । एवमेकस्य पदस्यार्थे परत उपश्रुत्यादावंते मध्ये वाऽशेष ग्रंथार्थावधारणं पदानुसारित्वं । द्वादशयोजनाऽऽयामे नवयोजनविस्तारे चक्रघरस्कंधावारे गजवाजिखरोष्ट्रमनुष्यादीनामक्षरानक्षररूपाणां ना.. Page #100 -------------------------------------------------------------------------- ________________ चारित्रसारे नाविधकरंबितशब्दानां युगपदुत्पन्नानां तपोविशेषबलला भाऽऽपादितसर्वजीवंप्र देशप्रकृष्ट श्रोत्रेन्द्रियपरिणामात्सर्वेषामेककाले ग्रहणं तत्प्रतिपादनसमर्थत्वं च संभिन्न श्रोतृत्वं । तपःशक्तिविशेषाऽऽविर्भावितासाधारणरसनेन्द्रियश्रुतावरणवीर्यान्तरायक्षयोपशमांगोपांगनामलाभापेक्षस्यावधृतनवयोजनक्षेत्राद्वहिर्वहुयेोजनविप्रकृष्टक्षेत्रादायातस्य रसस्यास्वादनसामर्थ्यं दूरास्वादनमेवं शेषेष्वपीन्द्रियविशेषेष्वधृतक्षेत्राइहिर्बहुयोजनविप्रकृष्टदेशादायतेषु ग्रहणसामर्थ्य योज्यं । रोहिण्यादि - पंचशतमहाविद्यादेवताभिरनुगतांगुष्ठप्रदेशना दिसप्तशतक्षुल्लक विद्यादेवताभिस्ताभिरागताभिः प्रत्येकमात्मीयरूपसामर्थ्याविष्करणकथनकुशलाभिर्वेगवतीभिरचलितचारित्रस्य दशपूर्वदुस्तरसमुद्रोत्तारणं दशपूर्वित्वं श्रुतकेवलिना चतुर्दशपूर्वित्वं । अष्टौ महानिमित्तान्यांतरिक्ष भौमांगस्वरव्यंजनलक्षणच्छिन्नस्वप्ननामानि । तत्र रविश शिग्रहनक्षत्रताराभगणोदयास्तमयादिभिरतीतानागतफलप्रतिभागप्रर्दशनमांतरिक्ष ९४ 1 1 भुवोद्यन सुषिरस्निग्धरूक्षादिविभावनेन पूर्वादिदिक्सूत्र विन्यासेन वा वृद्धिहानिजयपराजयादिविज्ञानं भूमेरंतर्निहितसुवर्णरजतादिसंस्तवनं च भौमं । तिर्यङ्मनुष्याणां सत्वसभाववातादिप्रकृतिरसरुधिरादिधातुशरीरवर्णगन्धनिम्नोन्नतांगप्रत्यंगदर्शन स्पर्शनादिभिस्त्रिकालभावि सुखदुःखादिविभावनमंगं । नरनारीखरपिंगलोलककपिवायस शिवाशृगाला दीनामक्षराऽनक्षरात्मकशुभाशुभशब्दश्रवणेनेष्टानिष्टफला विर्भावकः स्वरः । शिरोमुखग्रीवादिषु तिलकमशकलक्ष्मत्रणादिवक्षणेन त्रिकाल - हिताहितवेदनं व्यंजनं । पाणिपादतलवक्षःस्थलादिषु श्रीवृक्षस्वस्तिक मंगारककर शकुलिशादिलक्षणवीक्षणात् त्रैकालिकस्थानमानैश्वर्यादिवि · Page #101 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । शेषणं लक्षणं । वस्त्रशस्त्रोपानदासनशयनादिषु देवमानुषराक्षसकृतविकिट्टपाषाणजात्यकनकवल्लब्धात्मस्वभावस्तदनंतरं पूर्वप्रयोगादाविद्धकुलालचक्रवदसंगत्वादपगतलेपालांबुवत्तथाबंधच्छेदादरंडवजिवत्तथागतिपरिणामादग्निशिखावदूर्द्ध गच्छतीत्यालोकांताद्गत्युपग्रहकारणधर्मास्तिकायाऽभावादलोकं न गच्छति । एवमुक्तधर्म्यशुक्लयो राद्धांतसद्भावविषयसामान्ययोर्विषयं प्रत्यभेदः, अयं तु विशेषः । धर्मध्यानं सकषायपरिणामस्यैकस्मिन्वस्तुनि चिरकालं न तिष्ठति रथ्याऽवस्थित. प्रदीपवत् । शुक्लध्यानं पुनतिरागपरिणामस्यैकस्मिन् वस्तुनि धर्मध्यानावस्थानकालात्संख्येयगुणमचंचलत्वादवतिष्ठते मणिप्रदीपवत् । एवमुक्तं द्वादशविधं तपः सर्वार्थसाधनं, तत एव हि ऋद्धयः संजायते । ताश्चर्द्धयो बुद्धिक्रियाविक्रियातपोवलौषधरसक्षेत्रभेदादष्टविधाः । तत्र बुद्धिमहर्द्धिनाम बुद्धिरवगमो तद्विषया बुद्धिऋद्धिरष्टादशविधा । केवलमवधिमनःपर्ययज्ञानं बीजबुद्धिः कोष्ठबुद्धिः पादानुसारित्वं संमिन्नश्रोतृत्वं दूराऽऽस्वादनस्पर्शनघ्राणदर्शनश्रवणसमर्थता दशपूर्वित्वं चतुर्दशपूर्वित्वं चाष्टांगमहानिमित्तज्ञता प्रज्ञाश्रवणत्वं प्रत्येकबुद्धिता वादित्वं चेति । तत्र द्रव्यक्षेत्रकालभावकरणक्रमव्यवधानाऽभावे युगपदेकस्मिन्नेव समये त्रिकालवर्तिसर्वद्रव्यगुणपर्यायपदार्थावभासकं केवलज्ञानं । द्रव्यक्षेत्रकालभावैः प्रत्येक विज्ञायमानदेशपरमसर्वभेदभिन्नमवधिज्ञानाऽऽवरणक्षयोपशमनिमित्तं रूपिद्रव्यविषयमवधिज्ञानं । द्रव्यादिभेदैः प्रत्येकमवगम्यमान*विपुलमतिविकल्पं मनःपर्ययज्ञानावरणक्षयोपशमकारणं रूपिद्रव्यानंतभागविषयं मनःपर्ययज्ञानं । सुकृष्टवसुमतीकृते क्षेत्रे सारवति Page #102 -------------------------------------------------------------------------- ________________ ९६ चारित्रसारे कालादिसहायापेक्षं बीजमेकमुप्तं यथाऽनेककोटिबीजप्रदं भवति तथा नो-इन्द्रियश्रुतावरणवीर्यान्तरायक्षेयापशमप्रकर्षे सति संख्येयशब्दस्यानंतार्थप्रतिबद्धस्यानंतलिंगैः सहैकपदस्य ग्रहणादनेकार्थप्रतिपत्तिजत्रुद्धिः । कोष्ठाऽगारिकस्थापितानामसंकीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठावस्थानं तथा परोपदेशादवधारितानामर्थग्रंथबीजानां भूयसामव्यतिकीर्णानां बुद्धयवस्थानं कोष्ठबुद्धिः । पादानुसारित्वं त्रेधा प्रतिसार्यनुसार्युमयसारिभेदात् । तत्र बीजपदादधःस्थितान्येव पदानि बीजपदस्थितिलिंगेन जानाति भागैः शस्त्रकंटक - मूषिकादिकृतच्छेददर्शनात् कालत्रयविषयलाभालाभसुखदुःखादिसंस्तवनं छिन्नं । वातपित्तश्लेष्मोदयरहितस्य पश्चिमरात्रिविभागे चन्द्रसूर्यधराद्रिसमुद्रमुखप्रवेशनस कलमहीमंडलोपगूहनादिशुभस्वप्नदर्शनात् घृततैलाभ्यक्तात्मीयदेहखरकर भारूढापाग्दिग्गमनाद्यशुभस्वप्नदर्शनादागामिजीवितमरणसुखदुःखाऽऽविर्भाविकः स्वप्नः । स च द्विविधः; छिन्नमालाविकल्पेन । गजेन्द्रसिंह पोतादिकैश्छिन्नः । पूर्वापरसंबंधानां भावानां दर्शनं माला । एतेषु महानिमित्तेषु कौशलमष्टांगमहानिमित्तज्ञता । अतिसूक्ष्मार्थतत्त्वविचारगहने चतुर्दशपूर्विण एव विषयेऽनुपयुक्ते पृष्टेऽनधीतद्वादशांगचतुर्दश पूर्वस्य प्रकृष्टश्रुतावरणवर्यािन्तरायक्षयोपशमाविर्भूताऽसाधारणप्रज्ञाशक्तिलाभान्निःसंशयनिरूपणं प्रज्ञाश्रवत्वं । सा च प्रज्ञौत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति चतुर्विधा । तत्र जन्मांतर विनयजनितसंस्कारसमुत्पन्नोत्पत्तिकी । Page #103 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम् । विनयेन द्वादशांगानि पठतः समुत्पन्ना वैनयिकी। दुश्वरतपश्चरणबलेन गुरूपदेशमंतरेण समुत्पन्ना कर्मना । स्वकीयस्वकीयजातिवि शेषेण समुत्पन्ना पारिणामिकी चेति । परोपदेशमन्तरेण स्वशक्तिविशेषादेव ज्ञानसंयमविधाने नैपुण्यं प्रत्येकबुद्धिता। शक्रादिष्वपि प्रतिबंधकेषु सत्स्वतिप्रतिहततया प्रतिभया निरु त्तराभिधानं पररंध्रान्वेषणं च वादित्वं । इति बुद्धिऋद्धिप्रकरणम् । ___ अथ क्रियर्द्धिः । क्रियाविषया ऋद्धिर्द्विविधा, चारणत्वमाकाशगामित्वं चेति । तत्र चारणाऽनेकविधा, जलजंघातंतुपुष्पपत्रबीनश्रेण्यग्निशिखाद्यालंबनगमनाः । जलमुपादाय वाप्यादिष्वप्कायिकजीवानविराधयंतो भूमाविव पादोद्धारनिक्षेपकुशला जलचारणाः । भमेरुपर्याऽऽकाशे चतुरंगुलप्रमाणे जंघोत्क्षेपनिक्षेपशीघ्रकरणपटवो बहुयोजनशताऽऽशुगमनप्रवणा जंघाचारणाः। एवमितरे बोद्धव्याः॥ पर्यकावस्था वा निषण्णा वा कायोत्सर्गशरीरा वा पादोद्धारनिक्षेपणा वा ताभ्यामंतरेण वाऽऽकाशंगमनकुशला आकाशगामिनः । इति किद्धिः । विक्रियागोचरा ऋद्धिरनेकविधा । अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यं, ईशत्वं, वशित्वं अप्रतिघातः, अंतर्धानं, कामरूपित्वमादि। तत्राऽणुशरीरविकरणमणिमा। विसच्छिद्रमपि प्रविश्याऽऽसीत तत्र चक्रवर्तिपरिवारविभूति सृजेत् । मेरोरपि महत्तरशरीरविकरणं महिमा । वायोरपि लघुतरशरीरता लघिमा । वज्रादपि गुरुतरदेहता गरिमा । भूमौ स्थित्वांऽगुल्यमेण मेरुशिखरदिवाकरा Page #104 -------------------------------------------------------------------------- ________________ चारित्रसारे दिस्पर्शनसामर्थ्य प्राप्तिः । अप्सु भूमाविव गमनं भूमौ जल इवोन्मजननिमज्जनकरणं प्राकाम्य, अनेकजातिक्रियागुणद्रव्याधीनं स्वांगाद्भिन्नमभिन्नं च निर्माणं प्राकाम्यं सैन्यादिरूपमिति केचित् । त्रैलोक्यस्य प्रभुत्वमीशित्वं । सर्वनीववशीकरणलब्धिर्वशित्वं । अद्रिमध्ये वियतीव गमनमप्रतिघातः । अदृश्यरूपतांऽतर्धानं । युगपदनेकाऽऽकाररूपविकरणशक्तिः कामरूपित्वमिति, यथाऽभिलषितैकमूर्ताकारं स्वांगस्य मुहर्मुहुः करणं कामरूपित्वमिति वा । इति विकिद्धिप्रकरणम् । ___ तपोऽतिशयर्द्धिः सप्तविधा । उग्रदीप्ततप्तमहाघोरतपोघोरपराक्रमाः घोरब्रह्मचर्यः अघोरगुणब्रह्मचारिण इति । तत्रोग्रतपसो द्विविधा; उप्रोग्रतपसः, अवस्थितोग्रतपसश्चेति । तत्रैकमुपवासं कृत्वा पारणं विधाय द्विदिनमुपोष्य तत्पारणानन्तरं पुनरप्युपवासत्रयं कुर्वत्येवमेकोत्तरवृद्धया यावज्जीवं त्रिगुप्तिगुप्ताः संतो ये केचिदुपवसंति त उग्रोग्रतपसः । दीक्षोपवासं कृत्वा पारणानंतरमेकांतरेण चरतां केनाऽपि निमित्तेन षष्ठोपवासे जाते तेन विहरतामष्टमोपवाससंभवे तेनाचरतामेवं दशद्वादशादिक्रमेणाधो न निवर्तमानानां यावज्जीवं येषां विहरणं तेऽवस्थितोग्रतपसः । महोपवासकरणेऽपि प्रवर्द्धमानकायवाङ्मनोबला दुर्गधरहितवदनाः पद्मोत्पलादिसुरभिनिःश्वासाः प्रतिदिनप्रवर्द्धमानाऽप्रच्युतमहादीप्तिशरीरा दीप्तमनसः । तप्तायसकटाहपतितजलकणवदाशु शुष्काल्पाऽऽहारतया धारणेऽपि श्रमक्लेशविरहितास्त्रिभुवनमपि कनीयस्यांगुल्योत्याऽन्यत्र स्थापयितुं समर्थाश्च कायबलिनः । इति बलर्द्धिः । Page #105 -------------------------------------------------------------------------- ________________ अनगारधर्मे-तपोवर्णनम्। ९९ ___ अथौषधर्द्धिप्रकरणम् । औषद्धिरष्टविधा । असाध्यानामप्याम यानां सर्वेषां विनिवृत्तिहेतुरामर्शक्षेलजल मलविट्सौषधिप्राप्ताssस्याविषयदृष्टयविषविकल्पात् । आमर्शः संस्पर्शो हस्तपादाद्यामर्शः सकलौषधि प्राप्तो येषां त आमीषधिप्राप्ताः । क्षेलो निष्टीवनं; उपलक्षणं चैतत्तेन श्लेष्मलालावि सिंहाणकादयश्वौषधि प्राप्ता येषां ते क्षेलौषधिप्राप्ताः । स्वेदालंबनो रजोतिचयो जल्लः स औषधि प्राप्तो येषां ते जल्लौषधिप्राप्ताः । कर्मदंतनासिकादिसमुद्भवो मल औषधि प्राप्तो येषां ते मलौषधिप्राप्ताः । विडुच्चारः शुक्रमूत्रं चौषधिं प्राप्तो येषां ते विडौषधिप्राप्ताः । अंगप्रत्यंगनखदंतकेशादिरवयवस्तत्संस्पर्शी वाटवादिः सर्वौषधि प्राप्तो येषां ते सौषधिप्राप्ताः । उग्र. विषसंपृक्तोऽप्याहारो येषामास्यगतो निर्विषो भवति, यदीयवचः श्रवणाद्वा महाविपरीता अपि निर्विषां भवंति त आस्याविषाः । येषामालोकनमात्रादेवातितीव्रविषदूषिता अपि विगतविषा भवंति ते दृष्टयविषाः । अथवा आशीविषमविषं येषां ते आश्यविषाः, दृष्टिविषाणां विषमविषं येषां ते दृष्टयविषाः । इत्यौषधद्धिप्रकरणम् ॥ __ अत्र रसर्द्धिप्रकरणं समुच्यते । रसर्द्धिप्राप्ताः षड्डिधाः, आस्यविषाः, दृष्टिविषाः, क्षीरास्त्राविणः, मध्वास्राविणः, सर्पिरास्त्रविणः, अमृताऽऽस्राविणश्चेति । प्रकृष्टतपोबला यतयो यं ब्रुवते म्रियस्वेति स तत्क्षणादेव महाविषपरीतो म्रियते त आस्यविषाः | आशीविषा इति केचित्तत्राप्ययमेवार्थस्तदाऽऽशासनादेव म्रियमाणत्वात् । उत्कृष्टतपसो यतयः क्रुद्धा यमीक्षते स तदैवोपविषपरीतो म्रियते ते दृष्टिविषाः । विरसमण्यशनं येषां पाणिपुटे निक्षिप्तं क्षीररसवीर्य Page #106 -------------------------------------------------------------------------- ________________ १०० चारित्रसारे परिणामितां भजते येषां वा वचनानि क्षीरवत्क्षीणानां तर्पकाणि भवंति ते क्षीराssस्राविणः । येषां पाणिपुटे पतित आहारो नीरसोऽपि मधुररसवीर्यपरिणामितां भजते येषां वा वचांसि श्रोतॄणां दुःखार्दितानामपि मधुरगुणं पुष्णंति ते मध्वाऽऽस्राविणः । येषां पाणिपात्रगतमन्नं मलरुधिरादिभावपरिणामविरहिताभ्यवहरणास्तप्ततपसः । अणिमादिजलचारणाद्यष्टगुणालंकृता विस्फुरितकायप्रभा विविधाक्षीणर्द्धियुक्ताः सर्वौषधर्द्धिप्राप्ता अमृती कृतपाणिपात्रनिपतितसर्वाहाराः सर्वामरेंद्रेभ्योऽनंतबला आशीविषदृष्टिविषर्द्धिसमन्वितास्तप्ततपसश्च । सकलविद्याधारिणो मतिश्रुताऽवधिमन:पर्ययज्ञानाऽवगतत्रिभुवनगतव्यापारा महातपसः । वातपित्तश्लेष्मसंनिपातसमुद्भूतज्वरका साक्षिशूलकुष्ठप्रमेहादिविविध रोगसंतापितदेहा अप्यप्रच्युताऽनशनादितपसोऽनशने षण्मासोपवासाः, अवमोदर्य एककवलाहाराः, वृत्तिपरिसंख्याने चत्वरगोचरावग्रहाः । रसपरित्याग उष्णजलधौतोदनभोजिनः विविक्तशयनाssसने भीमश्मशानगिरिगुहादरीकंदर शून्यग्रामादिषु प्रदुष्टयक्षरक्षःपिशाचप्रनृत्यत्प्रेत वेतालरूपविकारेषु पुरुष शिवारुतानुपरतसिंहव्याघ्रादिव्यालमृगभीषणस्वनघोरचौरादिप्रचलितेष्वभिरुचितावासाः, कायक्लेशेऽतितीव्रशीतातपवर्षानिपातप्रदेशेष्वभ्रावकाशातापनवृक्षमूल योगप्राहिणः । एवमाभ्यंतर तपोविशेशेष्वप्युत्कृष्टतपोऽनुष्ठायिनो घोरतपसः । त एव गृहीततपोयोगवर्द्धनपराः । त्रिभुवनोपसंहरणमहीवलयप्रसनसकलसागरसलिलसंशोषणजलाग्निशिलाशैलादिवर्षण I चिरोषितस्खलितब्रह्मचर्याssवासाः शक्तयो घोरपराक्रमाः प्रक्रष्टचारित्र मोहक्षयोपशमात्प्रणष्टदःस्वप्ना घोरब्रह्मचारिणः, अथवा Page #107 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । १०१ अघोरगुणब्रह्मचारिण इति पाठे अघोरं शांतं ब्रह्मचारित्रं येषां ते अघोर गुणब्रह्मचारिणः । शांतिपुष्टिहेतुत्वाद्येषां तपोमाहात्म्येन डमरे ऽतिमारिदुर्भिक्षवैरकलहवधबंधनरोगादिप्रशमनशक्तिः समुत्पद्यते तेऽघोरगुणब्रह्मचारिणः । इति तपोऋद्धिः । अथ बलर्द्धिः । बलाऽऽलंबनादृद्धिस्त्रिविधा मनोवाक्कायविषयभेदात् । तत्र श्रुतावरणवीयतरायक्षयोपशमप्रकर्षे सति खेदमंतरेणांत मुहूर्त्ते सकलश्रुतार्थचिंतनेऽवदाता मनोबलिनः । मनोजिह्वाश्रुतावरणवीर्यौतरायक्षयोपशमातिशये सत्यंतर्मुहूर्ते सकल तोच्चारणसमर्थाः सततमुच्चैरुच्चारणे सत्यपि श्रमविरहिता अहीनकंठाश्च वाम्बलिनः । वीर्यान्तरायक्षयोपशमप्रकर्षादाविर्भूताऽसाधारणकायबलत्वान्मासिकचातुर्मासिक सांवत्सरिकादिप्रतिमायोगरूक्षमपि सर्पिरसवर्यविपाकमवाप्नोति, सर्पिरिव वा येषां भाषितानि प्राणिनां संतर्पकाणि भवति ते सर्पिरास्त्राविणः । येषां करपुटप्राप्तं भोजनं यत्किचिदमृतमा - स्कंदति; येषां वा व्याहृतानि प्राणिनाममृतवदनुग्राहकाणि भवति । इति सर्द्धिप्रकरणम अथ क्षेत्रद्धिः । क्षेत्रर्द्धप्राप्ता द्वेधा; अक्षीणमहानसाः, अक्षीमहालयाश्चेति । लाभांतरायक्षयोपशमप्रकर्षप्राप्तेभ्यो यतिभ्यो भिक्षा दीयते ततो भोजनाच्चक्रधर स्कंधावारोऽपि यदि भुंजीत तद्दिवसे नान्नं क्षीयते तेऽक्षीणमहानसाः । अक्षीणमहालयलब्धि प्राप्ता यतयो यत्र हस्तचतुष्टयमात्रावासे वसंति तत्र देवमानुषतिर्यग्योनयः सर्वेऽपि निवसेयुः परस्परमबाधमानाः सुखमासते तेऽक्षीणमहालया इति । - Page #108 -------------------------------------------------------------------------- ________________ १०२ चारित्रसारे एवमुक्तं तपःसामर्थ्य, तपस्विभिरध्युषितानि क्षेत्राणि तीर्थत्वमुपगतानि । परस्परविरोधिनोऽपि प्राणिनो जातिविरोधं कारणविरोधं विमुच्य शांतांतरंगा भवंति तपःसामर्थ्यात् । किं बहुना तपः किं न साधयत्यपि तु सर्वमेव साधयति । तदेवोक्तम् यदूरं यद्दाराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दुरितिक्रमम् ॥ तपो यस्य न विद्यते स चंचापुरुषो यथा मुंचंति तं सर्वे गुणाः, नासौ मुंचति संसारं, उपधित्यागः पुरुषहितो यतोयतः परिग्रहादपेतस्ततस्ततः संयतो भवति । ततोऽस्य खेदो व्यपगतो भवति । परिग्रहपरित्याग एवैहिकामुत्रिकपरमसुखकारणं निरवद्यमनःप्रणि. धानं । पुण्यनिधानं । परिग्रहो बलवती सर्वदोषप्रसवयोनिः । नत्वस्या उपधिभिरतृप्तिरस्ति सलिलैरिव सलिलनिधेर्वडवायाः । उक्तं हि अनेकाऽऽधेयदुष्पूर आशागर्त्तश्चिरादहो। चित्रं यत्क्षणमात्रेण त्यागेनैकेन पूर्यते ॥ अपि च कः पूरयति दुष्पूरमाशागर्त दिने दिने । यत्रास्तप्रस्तमाधेयमाधारत्वाय कल्पते ॥ परिग्रहसंग एव दुःखभयादिकं जनयतीति । उपात्तेष्वपि शरीरादिषु संस्कारापोहाय 'ममेदं ' भावाऽभाव आकिंचन्यं । शरीरादिप निर्ममत्वात्परमनिवृतिमवाप्नोति यथा यथा पोषयति तथा तथा लोपट्यं तज्जनयति, तपस्यप्यनादरो भवति । शरी. Page #109 -------------------------------------------------------------------------- ________________ अनगारधर्मे तपोवर्णनम् । १०३ रादिषु कृताऽभिष्वंगस्य संसारे सर्वकालमभिष्वंग एव । मयाऽनुभूतांगना सुरूपेति सविलासेति कलागुणविशारदेति स्मरणं, तत्कथाश्रवणं रतिपरिमलाधिवासितस्त्रीसंसक्तशयनाऽऽसनमित्येवमादि पूर्व - रतानुचिंतनवर्जनं परिपूर्णब्रह्मचर्यमित्याख्यायते । ब्रह्मचर्यमनुपालयंत हिंसादयो दोषा न संस्पृशति । नित्याऽभिरतगुरुकुलवासमधिवसंति गुणसंपदः । वरांगनाविलासविभ्रमविधेयीकृतः पापैरपि विधेयीक्रियते । अजितेंद्रियता हि लोके प्राणिनामपमानविधात्री । इत्येवमुत्तमक्षमाया उत्तममार्दवस्योत्तमार्जवस्योत्तम शौचस्योत्तमसत्यस्योत्तमसंयमस्योत्तमतपस उत्तमत्यागस्योत्तमाकिंचन्यस्योत्तमब्रह्मचर्यस्य तत्प्रतिपक्षणां च गुणदोषविचारपूर्विकायां क्रोधादिनिवृत्तौ सत्यां तन्निबंधन कर्मास्वाऽऽभावान्महान् संवरो भवति । तत्त्वार्थराद्धान्तमहापुराणेवाचारशास्त्रेषु च विस्तरोक्तम् । आख्यात्समासादनुयोगवेदी चारित्रसारं रणरंगसिंहः इति सकलाऽऽगमसंयम संपन्नश्रीमज्जिन सेनभहारकश्रीपादपद्मप्रसादाSsसादितचतुरनुयोगपारावारपारगधर्मविजयश्रीमश्चामुण्डरायमहाराजविरचिते भावनासारसंग्रहे चारित्रसारेऽनगारधर्मः समाप्तः ॥ समाप्तोयं ग्रन्थः । Page #110 -------------------------------------------------------------------------- ________________